संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ९८१ - १०००

शृङ्गारप्रवाहः - सुभाषित ९८१ - १०००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१०२. चन्द्रोपालम्भः

यस्तापः शमितो मृगाङ्क जगतां या म्लानिरुन्मूलिता
यामिन्या गगनस्य याः स्मृतिपथं नीतास्तमोवीचयः ।
यत्क्षामत्वमपाकृतं जलनिधेर्यः कैरवाणां हृतो
मोहस्तत्कथमत्र दुःखिनि जने सर्वं समावेशितम् ॥९८१॥

उमापतिधरस्य ।

प्रियविरहामहुष्ण्यान्मुर्मुरामङ्गलेखा
मयि हतकहिमांशो मा स्पृश क्रीडयापि ।
इह हि तव लुठन्तः प्लोषभावं भजन्ते
दरजरठमृणालीकाण्डमुग्धा मयूखाः ॥९८२॥

राजशेखरस्य । (वि.शा.भ. ३.२३, सु.र. ७१४)

सूतिर्दुग्धसमुद्रतो भगवतः श्रीकौस्तुभौ सोदरौ
सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः ।
स्पर्धा ते वदनाम्बुजैर्मृगदृशां तत्स्थाणुचूडामणे
हंहो चन्द्र कथं नु मुञ्चसि मयि ज्वालामुचो वेदनाः ॥९८३॥

कस्यचित। (वि.शा.भ. ३.१३, सु.र. ७९९)

मुखरय स्वयशो नवडिण्डिमं
जलनिधेः कुलमुज्ज्वलयाधुना ।
अपि गृहाण वधूवधपौरुषं
हरिणलाञ्छन मुञ्च कदर्थनाम् ॥९८४॥

कविपण्डितश्रीहर्षस्य । (ण्च्४.५३)

आश्वासयति काकोऽपि
दुःखितां पथिकाङ्गनाम् ।
त्वं चन्द्रामृतजन्मापि
दहसीति किमुच्यताम् ॥९८५॥

काश्मीरकमहामनुष्यस्य । (स्व१९५६)

१०३. मदनोपालम्भः ।

नाथानङ्ग निदेशवर्तिनि जने कस्तेऽभ्यसूयारसश्
चापारोपितसायकस्य भवतः को नाम पात्रं रुषः ।
विश्राम्यन्तु शरा निषीदतु धनुः शिञ्जापि संयम्यतां
माकन्दाङ्कुरकोमले मनसि नः को बाणमोक्षग्रहः ॥९८६॥

गोवर्धनस्य ।

देवेन प्रथमं जितोऽसि शशभृल्लेखभृतानन्तरं
बुद्धेनोद्धतबुद्धिना स्मर ततः कान्तेन पान्थेन मे ।
त्व्यक्त्वा तान्बत हंसि मामपि कृशां बालामनाथां स्त्रियं
धिक्त्वा धिक्तव पौरुषं धिगुदयं धिक्कार्मुकं धिक्शरान॥९८७॥

विद्यायाः । (सु.र. ७०१)

आपुङ्खाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते
निर्दग्धं विरहाग्निना वपुरिदं तैरेव सार्धं मम ।
कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो
दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ॥९८८॥

राजशेखरस्य । (सु.र. ७७१)

हरसि हृदयं वेगादन्तः प्रविश्य शरीरिणाम्
अथ जनयसि क्रीडाहेतोर्विकारपरम्पराम् ।
वितरसि मुहुर्मोहं पश्चान्निकृन्तसि जीवितं
कितव किमियं चेष्टा लोके तवार्थजनोचिता ॥९८९॥

गोशरणस्य ।

कष्टं हृदि ज्वलति शोकमयो ममाग्निस्
ते चक्षुषी च विरहज्वरजागरुके ।
एतन्मनो भ्रमति विष्वगसूंस्तथापि  
त्वं पश्यतोहर इव स्मर हर्तुकामः ॥९९०॥

कस्यचित।
१०४. मेघोपालम्भः

पाथोवाह किमम्बुभिः प्रियतमानेत्राम्बुसिक्ता मही
किं गर्जैः सुतनोरमन्दरुदितैरुज्जागरा भूरपि ।
वातैः शीकरिभिः किमिन्दुवदनाश्वासैः सबाष्पैरलं
सर्वं ते पुनरुक्तमेतदपुनःपूर्वा पुनर्मद्व्यथा ॥९९१॥

देवबोधस्य ।

नो रुद्धं गगनं पयोदपटलै रुद्धप्रियावाञ्छितं
नो शीर्णाः कमलाकराः कृशतनोः शीर्णा मनोवृत्तयः ।
नो पूरः सरितामपूरि दयितानेत्राम्बुकल्लोलिनी
धिग्धिङ्मारकदर्थितां व्यथयता पाथोभृता किं कृतम् ॥९९२॥

तस्यैव ।

आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुधिस्
तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।
अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयोस्
तत्किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः ॥९९३॥

यशोधर्मणः । (सु.र. २४०, सूक्तिमुक्तावलि ४३.३३)

हंसानां गतयो हृता यदि तया कूजन्त्वमी सोत्सुकास्
तत्केशैर्हृतबर्हकान्तय इमे नृत्यन्तु वा बर्हिणः ।
लावण्यं हृतमस्य दग्धशशिनस्तापं करोत्वेष मे
यूयं गर्जथ यन्निरागसि मयीत्येतन्न युक्तं घनाः ॥९९४॥

कस्यचित।

दग्धा पूर्वमहं वसन्तसमये चूताङ्कुरैः कोकिलैः
प्रायः प्रावृषि गर्जितैः किमपरं कर्तव्यमद्य त्वया ।
दीना कान्तवियोगदुःखविधुरा क्षामा तनुर्वर्तते
क्षारं प्रक्षिपसि क्षते जलधर प्राणावशेषस्थितेः ॥९९५॥

कस्यचित।

१०५. उन्मादः

अप्यामीलितपङ्कजां कमलिनीमप्युल्लसत्पल्लवां
वासन्तीमपि सौधभित्तिपतितामात्मप्रतिच्छायिकाम् ।
मन्वानः प्रथमं प्रियेति पुलकस्वेदप्रकम्पाकुलं
प्रीत्यालिङ्गति नास्ति सेति न पुनः खेदोत्तरं मूर्च्छति ॥९९६॥

कस्यचित।

नियमितमपि मानसं तपोभिः
प्रविशति वैशसवारिधावगाधे ।
अयमपि चिरविस्मृतोऽपि धैर्यं
व्यपनयतीव पुनर्मनोविकारः ॥९९७॥

कस्यचित।

व्याधूतं पवनेन पल्लवमिदं तस्याः क्रुधा नाधरः
स्रंसन्ते कुसुमान्यमूनि न पुनर्बाष्पाम्भसां बिन्दवः ।
एषां झाङ्कृतिराकुला मधुलिहामार्तो न मन्युध्वनिर्
धिक्कष्टं द्रुमसङ्गता मृदुरियं वल्ली न मे वल्लभा ॥९९८॥

श्रीलक्ष्मणसेनदेवस्य ।

क्वाकृत्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणामुपशान्तये श्रुतमहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योधरं पास्यति ॥९९९॥

कस्यचित। (स.क.आ. १.१७७, स्व१३४३, सा.द. उन्देर्३.२४०, सूक्तिमुक्तावलि ४३.३०)

अमी कारागारे निविडनलिनीनालनिगडैर्
निबध्यन्तां हंसाः प्रथमविसकन्दाङ्कुरभिदः ।
नवे वासन्तीनामुदयिनि वने गर्भकलिका
च्छिदो निर्धार्यन्तां परभृतयुवानो मदकलाः ॥१०००॥

कस्यचित।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP