शृङ्गारप्रवाहः - सुभाषित ११२१ - ११४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१३०. वस्त्राकर्षः
अंसाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव्
आकृष्टे जघनांशुके कृतमधः संसक्तमूरुद्वयम् ।
नाभीमूलनिबद्धचक्षुषि तया ब्रीडानताङ्ग्या प्रिये
दीपः फूत्कृतिवातवेपितशिखः कर्णोत्फलेनाहतः ॥११२१॥
कर्णोत्पलस्य । (सु.र. ५७०, शा.प. ३६७४)
समाकृष्टं वासः कथमपि हठात्पश्यति तदा
क्रमादूरुद्वन्द्वं जरठशरगौरं मृगदृशः ।
तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया
निरुद्धं हस्ताभ्यां झगिति निजनेत्रोत्पलयुगम् ॥११२२॥
कस्यचित। (शा.प. ३६७७, सूक्तिमुक्तावलि ७७.५, सु.र. ५७९)
अम्बरं विनयतः प्रियपाणेर्
योषितश्चकोरयोः कलहस्य ।
वाराणामिव विधातुमभीक्ष्णं
कक्षया च वलयैश्च शिशिञ्जे ॥११२३॥
माघस्य । (स्व१०.६२)
११२४११२५ न दत्तौ ।
१३१. नवोढसम्भोगः
दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता
शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते
जाता वामतयैव सम्प्रति मम प्रीत्यै नवोढा प्रिया ॥११२६॥
श्रीहर्षदेवस्य । (ण्न्३.४, स्व२०७२, सु.र. ४६९, शा.प. ३६७२, सूक्तिमुक्तावलि ७७.२)
चुम्बनेषु परिवर्तिताधरं
हस्तरोधि रशनाविघट्टने ।
विघ्नितेच्छमपि तस्य सर्वतो
मन्मथेन्धनमभूद्वधूरतम् ॥११२७॥
कालिदासस्य । (शा.प. ३६७६)
पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥११२८॥
अमरोः । (अमरु ३८, स्व२०५६, स.क.आ.ं ५१२; शा.प. ३६७३; Vइश्नुदस्तो उ.नी. ५.१९)
हस्तं कम्पयते रुणद्धि रशनाव्यापारलोलाङ्गुलीः
स्वौ हस्तौ नयति स्तनावरणतामालिङ्ग्यमाना बलात।
पातुं पक्ष्मलनेत्रमुन्नमयतः साचीकरोत्याननं
व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥११२९॥
कालिदासस्य । (ं ४.१५)
सखीनां शिक्षाभिः कथमपि गता वासभवनं
ततः प्रेमालापैः शयनमुपनीतापि विमुखी ।
मयि क्रीडारम्भप्रणयिनि परं वेपथुमती
तथापीयं बाला हृदयमधिकं संमदयति ॥११३०॥
शङ्करधरस्य ।
१३२. रतारम्भः
आनन्दोद्गतबाष्पपूरपिहितं चक्षुः क्षमं नेक्षितुं
बाहू सीदत एव कम्पविधुरौ शक्तौ न कण्ठग्रहे ।
वाणी सम्भ्रम्गद्गदाक्षरपदा संक्षोभलोलं मनः
सत्यं वल्लभसङ्गमोऽपि सुचिराज्जातो वियोगायते ॥११३१॥
कस्यचित। (स्व२०६५ श्रीडामरस्य; सूक्तिमुक्तावलि ५४.१० कस्यापि; पद्या. ३८० शुभ्रस्य)
अन्योन्यसंवलितमांसलदन्तकान्ति
सोल्लासमाविरलसं वलितार्धतारम् ।
लीलागृहे प्रतिकलं किलकिञ्चितेषु
व्यावर्तमानविनयं मिथुनं चकास्ति ॥११३२॥
वामनस्य । (स.क.आ. १.११३)
समालिङ्गत्यङ्गैरपसरति यत्प्रेयसि वपुः
पिधातुं यद्दृश्यं घटयति घनालिङ्गनमपि ।
तओप्भिर्भूयोभिः किमु न कमनीयं सुकृतिनां
इदं रम्यं वाम्यं मदनविवशाया मृगदृशः ॥११३३॥
कस्यचित। (सु.र. ५६५)
उन्मीलत्पुलकाङ्कुरेण निविडलेशनिमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः ।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभुद्
प्रत्यूहः न तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥११३४॥
जयदेवस्य । (ङ्ङ्१२.१०)
हस्तस्वस्तिकलाञ्छितां कुचतटीं सोढः स्पृशन्मुग्धया
प्रस्विद्यद्बलिवल्लरीकमुदरं गच्छन्निरुद्धो मनाक।
ऊर्वोर्मूलमुपेयिवानथ शनैर्मामेति लज्जाजडं
जल्पन्त्या सुरतातिथिः किल रुषा पाणिस्तलेनाहृतः ॥११३५॥
युवतीसम्भोगकारस्य ।
१३३. रतम्
क्लेशोल्लासितलोचनं श्लथपतद्दोर्वल्लिकेलिस्खलद्
धम्मिल्लं श्वसितोत्तरङ्गमपरिस्पन्दं वहन्ती वपुः ।
मुञ्चेति स्खलिताक्षरेण वचसा तन्वी यथा याचते
विश्रामाय तथाधिकं रतविधावाकूतमुन्मीलति ॥११३६॥
कस्यचित।
भावोद्गाढमुपोढकम्पपुलकैरङ्गैः समालिङ्गितं
रागाच्चुम्बितमप्युपेत्य वदनं पीतं च वक्त्रामृतम् ।
जल्पन्त्यैव मुहुर्ननेति निभृतं प्रस्तब्धचारित्रया
निःशेषेण समापितो रतिविधिर्वाचा तु नाङ्गीकृतः ॥११३७॥
कस्यचित। (सु.र. ५९३)
अङ्गानि श्लथनिः सहानि नयते मुग्धालसे विभ्रम
श्वासोत्कम्पितकोमलस्तनमुरः सायाससुप्ते भ्रुवौ ।
किं चान्दोलनकौतुकव्युपरतावास्येषु वामभ्रुवां
स्वेदाम्भः स्नपिताकुलालकलतेष्वावासितो मन्मथः ॥११३८॥
गोसोकस्य ।
साक्षेपं च सचाटुकं प्रलपतोः प्रेमालसं पश्यतोर्
उत्सूत्रं च ससूत्रमेव च परीरम्भोत्सवं कुर्वतोः ।
आकृष्यालकमाननं च पिबतोरुद्दामकण्ठध्वनि
क्रीडाडम्बरयोर्जयत्यनुपमावस्थं रहः प्रेयसोः ॥११३९॥
यवतीसम्भोगकारस्य ।
सोत्कण्ठं परिपश्यतोरपि मुहुः सोत्प्रासमाजल्पतोः
सानन्दं च सकौतुकं च मदनव्यापारमभ्यस्यतोः ।
दम्पत्योर्नवयौवनोज्ज्वलवपुः सौन्दर्यरम्यश्रियोः
शृङ्गारः कृतकृत्य एष मदनाधानैकहेतुः स्फुटम् ॥११४०॥
प्रियंवदस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP