शृङ्गारप्रवाहः - सुभाषित ६६१ - ६८०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
३८. स्वाधीनभर्ट्र्का
लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं
तिलकमलिके कुर्वन्गण्डादुदस्यति कुन्तलान।
इति चटुशतैर्वारं वारं वपुः परितः स्पृशन्
विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥६६१॥
रुद्रटस्य । (शृ.ति. १.७४अ)
स्वामिन्भङ्गुरयालकं सतिलकं भालं विलासिन्कुरु
प्राणेश त्रुटितं पयोधरतटे हारं पुनर्योजय ।
इत्युक्त्वा सुरतावसानसुखिता सम्पूर्णचद्न्रानना
स्पृष्टा तेन तथेति जातपुलका प्राप्ता पुनर्मोहनम् ॥६६२॥
तस्यैव । (शृ.ति. १.४२च्; Sद्३.७३, सूक्तिमुक्तावलि ८०.६)
यावकं तरुणपङ्कजप्रभे
योषितश्चरणपङ्कजद्वये ।
तुल्यरागमपि स न्यपातयच्
चाटुमात्रकरणप्रयोजनः ॥६६३॥
कस्यचित।
एतांस्ते भ्रमरौघनीलकुटिलान्बध्नामि किं कुन्तलान्
किं न्यस्यामि मधूकपाण्डुमधुरे गण्डेऽत्र पत्रावलीम् ।
किं चास्मिन्व्यपनीय बन्धनमिदं पङ्केरुहाणां दलत्
कोषश्रीमुषि सर्वचित्तहरिणस्यारोपयामि स्तने ॥६६४॥
सूर्यधरस्य ।
अगणितगुरुर्याच्ञालोलं पदान्तसदातिथिः
समयमविदन्मुग्धः कालासहो रतिलम्पटः ।
कृतककुपितं हस्ताघातं त्रपारुदितं हठाद्
अपरिगणयन्लज्जायां मां निमज्जयति प्रियः ॥६६५॥
आचार्यगोपीकस्य ।
३९. विप्रलब्धा
दृष्टोऽयं विषवत्पुरा परिजनो दृष्टायतिर्वारयन्
पौर्वापर्यविदां त्वया नहि कृताः कर्णे सखीनां गिरः ।
हस्ते चन्द्रमिवावतार्य सरले धूर्तेन धिग्वञ्चिता
तत्किं रोदिषि किं विषदसि किमुन्निद्रासि किं दूयसे ॥६६६॥
कस्यचित।
ज्ञातं ज्ञातिजनैः प्रघुष्टमयशो दूरं गता धीरता
त्यक्ता ह्रीः प्रतिपादितोऽप्यविनयः साध्वीपदं प्रोज्झितम् ।
लुप्ता चोभयलोकसाधुपदवीदत्तः कलङ्कः कुले
भूयो दूति किमन्यदस्ति यदसावद्यापि नागच्छति ॥६६७॥
कस्यचित। (शा.प. ३६१६, सूक्तिमुक्तावलि ७१.१४)
सखि स विजितो वीणावाद्यैः कयाप्यपरस्त्रिया
पणितमभवत्ताभ्यां तव क्षपाललितं ध्रुवम् ।
कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि
प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यए ॥६६८॥
रुद्रटस्य । (पद्या. २१३; दशरूपक २.२३; शृ.ति. १.७८अद्)
सोत्कण्ठं रुदितं सकम्पमसकृद्यातं सबाष्पं चिरं
चक्षुर्दिक्षु निवेशितं सकरुणं सख्या समं जल्पितम् ।
नागच्छत्युचितेऽपि वासकविधौ कान्ते समुद्विग्नया
तत्तत्किंचिदनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥६६९॥
तस्यैव । (शृ.ति. १.७९अ)
यत्सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं
तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया ।
स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैर्लोचनैर्
भूमावक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥६७०॥
रुद्रटस्य । (शृ.ति. १.७८अ)
४०. कलहान्तरिता
कर्णे यन्न कृतं सखीजनवचो यन्नादृता बन्धुवाक्
यत्पादे निपतन्नपि प्रियतमः कर्णोत्पलेनाहृतः ।
तेनेन्दुर्दहनायते मलयजालेपः स्फुलिङ्गायते
रात्रिः कल्पशतायते विसलताहारोऽपि भारायते ॥६७१॥
अमरोः । (सु.र. ७०२)
मया तावद्गोत्रस्खलितहतकोपान्तरितया
न रुद्धो निर्गच्छन्नयमिति विलक्षः प्रियतमः ।
अयं त्वाकूतज्ञः परिणतिपरामर्शकुशलः
सखी लीकोऽप्यासील्लिखित इव चित्रेण किमिदम् ॥६७२॥
बिम्बोकस्य । (सूक्तिमुक्तावलि ८४.४, सु.र. ६५६)
पदोपान्ते कान्ते लुठति तमनादृत्य भवनाद्
द्रुतं निष्क्रामन्त्या किमपि न मयालोचितमभूत।
अये श्रोणीभार स्तनभर युवां निर्भरगुरू
भवभ्यामन्यत्र विलम्बो न विहितः ॥६७३॥
गङ्गाधरस्य ।
यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितो
यत्सख्या न कृतं वचो जडतया यन्मन्युरेको धृतः ।
पापस्यास्य फलं तदेतदधुना यच्चन्दनेन्दुद्युति
प्रालेयाम्बुसमीरपङ्कजविसैर्गात्रं मुहुर्दह्यते ॥६७४॥
रुद्रटस्य । (शृ.ति. १.७७अ, सूक्तिमुक्तावलि ५६.१)
दहति विरहेष्वङ्गानीर्ष्यां करोति समागमे
हरति हृदयं दृष्टः स्पृष्टः करोत्यवशां तनुम् ।
क्षणमपि सुखं यस्मिन्प्राप्ते गते च न लभ्यते
किमपरमतश्चित्रं यन्मे तथापि स वल्लभः ॥६७५॥
अमरुकस्य । (सु.र. ७३४)
४१. कलहान्तरितावाक्यम्
सखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा
विधिविरचितं यस्मात्सर्वो जनः सुखमश्नुते ।
मम तु मनसः सन्तापोऽयं जने विमुखोऽपि य
त्कथमपि हतव्रीडं चेतो न याति विरागिताम् ॥६७६॥
अमरोः । (स्व१११८, सु.र. ६९४)
निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते
निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते ।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥६७७॥
कस्यचित। (अमरु ९८; पद्या.. २३७, द.रू. २.२६)
ज्योतिर्भ्यस्तदिदं तमः समुदितं जातोऽयमद्भ्यः शिखी
पीयूषादिदमुत्थितं विषमयं छायाप्तजन्मातपः ।
को नामास्य विधिः प्रशान्तिषु भवेद्बाढं द्रढीयान् अयं
ग्रन्थिर्यत्प्रियतोऽपि विप्रियमिदं सख्यः कृतं सान्त्वनैः ॥६७८॥
कस्यचित। (स.क.आ. २.६३)
तल्लाक्षालिपिलाञ्छितादपि मुखादिन्दुः स किं दुःसहः
संतापाय पिकध्वनिः किमु मृषा वाचां प्रपञ्चादपि ।
किं तस्य प्रणयावधीरणपराधीनादपि प्रेक्षणाद्
उन्मीलन्ति सखि प्रसूनधनुषो मर्मच्छिदः सायकाः ॥६७९॥
जलचन्द्रस्य ।
कथाभिर्देशानां कथमपि च कालेन बहुना
समायाते कान्ते सखि रजनिरर्धं गतवती ।
ततो यावल्लीलाकलहकुपितास्मि प्रियतमे
सपत्नीव प्राची दिगियमभवत्तावदरुणा ॥६८०॥
कस्यचित। (सु.र. १६४२)
N/A
References : N/A
Last Updated : November 11, 2016
TOP