संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ७०१ - ७२०

शृङ्गारप्रवाहः - सुभाषित ७०१ - ७२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४६. अनुरक्तमानिनी

वलतु तरला धृष्टा दृष्टिः खला सखि मेखला
स्खलतु कुचयोरुत्कम्पान्मे विदीर्यन्तु कञ्चुकम् ।
तदपि न मया सम्भाव्योऽसौ पुनर्दयितः शठः
स्फुटति हृदयं मौनेनान्तर्न मे यदि तत्क्षणात॥७०१॥

अमरोः । (सु.र. ६३६)

भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
कार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चमालम्बते ।
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन्जने ॥७०२॥

तस्यैव (अमरु २४; सु.र. ६९५, Sभ्१५८०; उ.नी. ५.२५)

भ्रूभेदो रचितः चिरं नयनयोरभ्यस्तमामीलनं
रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन्मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवस्थिता ॥७०३॥

धर्मकीर्तेः (अमरु ९२; सु.र. ६४५, पद्या.. २३१)

तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता चान्यतस्
तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
हस्ताभ्यामपि वारितः सपुलकः स्वेदोद्गमो गण्डयोः
सख्यः किं करवाणि यान्ति सहसा यत्कञ्चुके सन्धयः ॥७०४॥

अमरोः (अमरु ११, स्व१५८१, शा.प. ३५३५, सु.र. ६४०)

स्फुटतु हृदयं कामं कामं करतु तनुं तनुं
न सखि चटुलप्रेम्णा कार्यं पुनर्दयितेन मे ।
इति सरभसं मानाटोपादुदीर्य वचस्तया
रमणपदवी सारङ्गाक्ष्या सशङ्कितमीक्षिता ॥७०५॥

तस्यैव (अमरु ७१ (६१); सु.र. ६६६, सूक्तिमुक्तावलि ५५.१)

४७. नायके मानिनीवचनम्

किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः
कञ्चित्कालं क्वचिदभिरतस्तत्र कस्तेऽपराधः ।
आगस्कारिण्यहमिह यया जीवितं तद्वियोगे
भर्तृप्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः ॥७०६॥

भावदेव्याः । [सु.र. ६४३ वाक्कूटस्य; सूक्तिमुक्तावलि ५७.१४; पद्या. ३८१ कस्यचित्]

तथाभूदस्माकं प्रथममविभिन्ना तनुरियं
ततो नु त्वं प्रेयानहमपि हताशा प्रियतमा ।
इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं
मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥७०७॥

अमरोः । (अमरु ६६, स्व१६२२, सु.र. ६४६)

भवतु विदितं छद्मालापैरलं प्रिय गम्यतां
तनुरपि  न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।
तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशां
प्रकृतिचपले का नः पीडा गते हतजीविते ॥७०८॥

तस्यैव (अमरु २७; स्व१६१७, सूक्तिमुक्तावलि ५७.६, सु.र. ६५७, पद्या. २२३)

कोपो यत्र भ्रूकुटिरचना निग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो यत्र दृष्टिः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैषमं पश्य जातं
त्वं पादान्ते लुठसि नहि मे मन्युमोक्षः खलायाः ॥७०९॥

तस्यैव (अमरु ३४; द.रू.. २.१९, स्व१६३०, शा.प. ३५६२, सूक्तिमुक्तावलि ८४.७, सु.र. ६४८)

यदा त्वं चन्द्रोभूर अविकलकलापेशलवपु
स्तदार्द्रा जाताहं शशधरमणीनां प्रकृतिभिः ।
इदानीमर्कस्त्वं खररुचि समुत्सारितरसः
किरन्ती कोपाग्नीनहमपि रविग्रावघटिता ॥७१०॥

अचलस्य । (शा.प. ३५६४, सूक्तिमुक्तावलि ५७.२०, सु.र. ६४७)

४७. मानिन्यां सखीप्रबोधः

कियन्मात्रं गोत्रस्खलनमपराद्धं चरणयो
श्चिरं लोठत्येष ग्रहवति न मानाद्विरमसि ।
रुषं मुञ्चामुञ्च प्रियमनुगृहानायतिहितं
शृणु त्वं यद्ब्रूमः प्रियसखि न माने कुरु मतिम् ॥७११॥

मनोकस्य । (सु.र. ६८०)

असद्वृत्तो नायं न च सखि गुणैरेष रहितः
प्रियो मुक्ताहारस्तव चरणमूले निपतितः ।
गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिता
मुपायो नास्त्यन्यो हृदयपरितापोपशमने ॥७१२॥

कस्यचित। (सूक्तिमुक्तावलि ५६.१०, सु.र. ६५८)

लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः स्कह्यः सततरुदितोच्छूणनयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्
तवावस्था चेयं विसृज कठिने मानमधुना ॥७१३॥

अमरोः (अमरु ७; शा.प. ३५५१, सूक्तिमुक्तावलि ५६.५, ऱस्क्२.२०६अ)

यदेतत्ते मौनं स्मितमुदयते यन्न वदने
यदव्यक्ता दृष्टिर्यदभिमुखवामः स्थितिरसः ।
उपास्यानामीदृग्विमतिषु हतप्रश्रयतया
हृदा दूरं याति प्रियसखि नवीनः परिजनः ॥७१४॥

उमापतिधरस्य ।

पाणौ शोणतले तनूदरि दरक्षामा कपोलस्थली
विन्यस्ताञ्जनदिग्धलोचनजलैः किं म्लानिमानीयते
मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित्कन्दली
मुन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते ॥७१५॥

पाणिनेः । (सु.र. ६५१)
४९. अनुनयः

रम्भोरु क्षिप लोचनार्धमभितो बाणान्वृथा मन्मथः
संधत्तां धनुरुज्झतु क्षणमितो भ्रूवल्लिमुल्लासय ।
किं चान्तर्निहितानुरागमधुरामव्यक्तवर्णक्रमां
मुग्धे वाचमुदीरयास्तु जगतो वीणासु भेरीभ्रमः ॥७१६॥

भेरीभ्रमकस्य । (सु.र. ४५०)

किमिति कवरी यादृक्तादृग्दृशौ किमञ्जने
मृगमदमसीपत्रन्यासः स किं न कपोलयोः ।
अयमसमयं किं च क्लाम्यत्यसंस्मरणेन ते
शशिमुखि सखीहस्तन्यस्तो विलासपरिच्छदः ॥७१७॥

अभिनन्दस्य । (स.क.आ. ४.१९३, सु.र. ७३१)

प्रिये मौनं मुञ्च श्रुतिरमृतधारां पिबतु मे
दृशावुन्मील्येतां भवतु जगदिन्दीवरमयम् ।
प्रसीद प्रेमापि प्रशमयतु निःशेषमधृती
रभूमिः कोपानां ननु निरपराधः परिजनः ॥७१८॥

डिम्बोकस्य । (सु.र. ६७०)

यदि विनिहिता शून्या दृष्टिः किमु स्थिरकौतुका
यदि विरचितो मौने यत्नः किमु स्फुरितोऽधरः ।
यदि नियमितं ध्याने चक्षुः कथं पुलकोद्गमः
कृतमभिनयैर्दृष्टो मानः प्रसीद किमुच्यताम् ॥७१९॥

अमरोः । (स्व१६२५, सु.र. ६३८)

कपोले पत्राली करतलनिरोधेन मृदिता
निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥७२०॥

कस्यचित। (अमरु ६७; सु.र. ६६४, स.क.आ.व्४८९, स्व१६२७)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP