संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ७२१ - ७४०

शृङ्गारप्रवाहः - सुभाषित ७२१ - ७४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


५०. मानभङ्गः

दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्त्रवन्
न्यग्भूतं बहिरासितं पुलकवत्स्पर्शं समातन्वति ।
नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततो
मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥७२१॥

कस्यचित। (स.क.आ.व्१५.४९६, शा.प. ३५८१, सूक्तिमुक्तावलि ५८.२, सु.र. ६९९)

चेतस्यङ्कुरितं विसारिणि दृशोर्द्वन्द्वे द्विपत्रायितं
प्रायं पल्लवितं वचस्युपचितं प्रौढं कपोलस्थले ।
तत्तत्कोपविचेष्टिते कुसुमितं पादानते तु प्रिये
मानिन्यां फलितं तु मानतरुणा पर्यन्तबन्ध्यायितम् ॥७२२॥

राजशेखरस्य । (सु.र. ६७९)

एकस्मिन्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर्
अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्
भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥७२३॥

अमरोः (अमरु १९, स्व२११२, शा.प. ३७१५, सूक्तिमुक्तावलि ८१.८, सु.र. ६६७)

दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने किञ्चिन्नतभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥७२४॥

तस्यैव । (अमरु ४४, सूक्तिमुक्तावलि ५५.३, सु.र. ६४१)

सुतनु जहिहि कोपं पश्य पादानतं मां
न खलु तव कदाचित्कोप एवं विधोऽभूत।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
नयनजलमनल्पं मुक्तमुक्तं न किञ्चित॥७२५॥

तस्यैव (अमरु ३५, स्व१६००, शा.प. ३५७७, सूक्तिमुक्तावलि ५७.३३, सु.र. ६७८)
५१. प्रवसद्भर्तृका

दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित्
पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः ।
इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः
पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥७२६॥

कस्यचित। (अमरु ८१, स.क.आ.ं ७२६, शा.प. ३३८६, सूक्तिमुक्तावलि ३७.६)

संरुद्धाः कथमप्यमङ्गलभयात्पक्ष्मान्तरव्यापिनोऽ
प्युत्तानीकृतलोचनं निपुणया बास्पाम्भसां बिन्दवः ।
न्यस्यन्त्याः सहकारपल्लवमथ व्यानम्य पत्युः पुरो
धारावाहिभिरेव लोचनजलैर्यात्राघटः पूरितः ॥७२७॥

धोयीकस्य ।

मुग्धे प्रेषय यामि यान्ति पथिकाः कालोऽवधिः कथ्यताम्
उद्विग्ना किमकाण्ड एव भवती तूष्णीं किमेवं स्थिता ।
पूर्वोक्त्योपरतां प्रियेण दयितामाश्लिष्य तत्तत्कृतं
दत्तो येन समस्तपान्थनिवहप्राणान्तिको डिण्डिमः ॥७२८॥

कस्यचित। (स्व१०६२)

आपृष्टासि विनिर्गतोऽध्वगजनस्तन्वङ्गि गच्छाम्यहं
स्वल्पैरेव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः ।
इत्याकर्ण्य वचः प्रियस्य सहसा तन्मुग्धया चेष्टितं
येनाकाण्डसमाप्ततीव्रविरहक्लेशः कृतो वल्लभः ॥७२९॥

कस्यचित। (स्व१०५४)

भ्रातर्बाष्प मुहुर्विमुञ्च नयनं यावत्तिरोधीयते
नायं निष्करुणः पुरा निरवधिर्भावी तथैवोदयः ।
इत्याकर्ण्य वियोगमुग्धमनसः स्वप्नोपनीतं वचः
संजाता दयितस्य योजनशतं शय्योपकण्ठस्थली ॥७३०॥

जलचन्द्रस्य ।

५२. यात्राक्षेपः

कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ
स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः ।
आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः
सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥७३१॥

वीरस्य । (अमरु २५)

गन्तुं वाञ्छसि गच्छ पिच्छिलममी यावन्न कुर्वन्ति ते
पन्थानं मृदुमर्दलध्वनिमुचो धाराभिरम्भोधराः ।
एतस्यास्तव तानि ### रहसि प्रेमाक्षराणि ध्रुवं
ध्यायन्त्यास्तु विपद्विनोदनसखी मुर्च्छैव सम्पत्स्यते ॥७३२॥

कस्यचित।

यास्यामीति गिरः श्रुता अवधिरप्यालम्बितश्चेतसा
गेहे यत्नवती भविष्यसि सदेत्येतत्समाकर्णितम् ।
मुग्धे मा शुच इत्युदीरितवतः पत्युर्निरीक्ष्याननं
निःश्वस्य स्तनपायिनि स्वतनये दृष्टिश्चिरं पातिता ॥७३३॥

भदन्तधीरनागस्य । (स्व१०६४)

आयास्यस्यवधावपर्यवसिते गत्वेति संभाव्यते  
संप्राप्ते त्वयि यानि तान्यपि सुखान्यद्यापरोक्षाणि नः ।
किं त्वज्ञातवियोगवेदनमिदं सद्यस्त्वयि प्रस्थिते  
चेतः किं नु करीष्यतीत्यविदितं सम्यङ्न निश्चीयते ॥७३४॥

कस्यचित। (स्व१०६१)

लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर्
अन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।
पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते
यत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥७३५॥

कस्यचित। (अमरु ६१; स्व१०६०, शा.प. ३३९५, सूक्तिमुक्तावलि ३७.१२)

५३. प्रोषितभर्तृका

मध्ये वेश्म समुद्गता तदनु च द्वारान्तरालं गता
निर्याताथ कथञ्चिदङ्गणभुवं प्रेयांस्तु नालोकितः ।
हंहो वायस राजहंस शुक हे हे सारिके कथ्यतां
का वार्तेति मृगीदृशो विजयते बाष्पाम्बुगर्भं वचः ॥७३६॥

महोदधेः । (सु.र. ७१८)

अस्तव्यस्तसमीरकम्पिततया दृष्टेस्तिरस्कारिणीं
हस्तेनालकवल्लरीमकुटिलामानीय कर्णान्तिकम् ।
उद्वीक्ष्य प्रियमार्गमध्वगवधूरस्तं गते भास्वति
छिन्नाशा स्वनिवेशमेति शनकैः स्वप्नेक्षणाशंसिनी ॥७३७॥

कस्यचित।

अभ्यासस्थितचूतषण्डगहनस्थानादितो गेहिनी
ग्रामं कंचिदवृक्षकं विरहिणी तूर्णं वधूर्नीयताम् ।
अत्रायान्त्यचिरेण कोकिलकुलव्याहारझंकारिणः
पन्थस्त्रीजनजीवितैकहरणप्रौढाः पुरो वासराः ॥७३८॥

कस्यचित।

सौख्ये गते प्रवसता दयितेन सार्धं
नेत्रद्वये दयितमार्गगमान्निवृत्ते ।
व्रीडावती बत कृता हतजीवितेन
निर्याय यन्न पद्मात्रमपि प्रयातम् ॥७३९॥

कस्यचित।

वत्से माधवि मुग्धिकासि बलवद्वन्यौकसो देवताः
पान्तु त्वामयमस्तमञ्चति रविर्यातोऽवधिस्ते पितुः ।
शान्तं पापममङ्गलं परमतः शान्त्या न कल्याणि मे
कल्यन्नव्यमधुव्रताय तुय्मधून्युद्दिश्य मे दास्यसि ॥७४०॥

कस्यचित।


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP