शृङ्गारप्रवाहः - सुभाषित ११४१ - ११६०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१३४. विपरीतरतम्
आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं
किञ्चिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः ।
तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये
तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥११४१॥
अमरोः । (अमरु ३; शा.प. ३७०२)
नाधन्यान्विपरीतमोहनरसप्रेङ्खन्नितम्बस्थली
लोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनम् ।
संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापत्रुटच्
छ्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी ॥११४२॥
सोल्लोकस्य । (सु.र. ५८१)
विकीर्णो धम्मिल्लः श्रमसलिलबिन्दुस्तवकितो
मुखेन्दुव्याकोषं श्वसितमिदमाः साधु सुभटे ।
अमुष्मिन्प्रारम्भे चलवलितमुक्तासरमुरः
परं तूष्णीमेते दधति रशनादाम्नि मणयः ॥११४३॥
केन्द्रनीलनारायणस्य ।
माराङ्के रतिकेलिसंकुलरणारम्भे तया साहस
प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्सम्भ्रमात।
निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कः सिध्यति ॥११४४॥
जयदेवस्य ।
सोत्कम्पश्वसितोत्तरं सपुलकस्वेदार्द्रगण्डस्थली
खेलत्कुण्डलमस्फुटस्मितमिलन्मन्दाक्षमुग्धेक्षितम् ।
संभेदेषु मिथो दृशां सुकृतिनः कस्यापि कान्ताननं
प्रभ्रश्यत्कवरीपरीतमुरसि स्मेरस्य विश्राम्यति ॥११४५॥
आवन्तिकजह्नोः ।
१३५. विपरीतरताख्यानम्
रिपुः प्रेमारम्भे प्रथममभवन्नूपुररवस्
तमाक्षेप्तुं पाणिः प्रसरति सवाचालवलयः ।
यदारब्धं किंचित्तदुपशमहेतोः सखि मया
तदा तद्वैगुण्यं द्विगुणयति काञ्चीकलकलः ॥११४६॥
विरिञ्चेः ।
पर्यस्तस्तनकर्मकीर्णकवरीभारं समुन्मूलित
स्रग्दाम स्वयमन्यदेव तदुपक्रान्तं मया साहसम् ।
संपन्नाः सखि तस्य केलिविधयः प्राच्याः परं दुर्वह
श्रोणीभारभरान्मनीषितसहस्रांशोऽपि नासादितः ॥११४७॥
शरणदेवस्य ।
पश्याश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं
शय्यां संप्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।
गाढोष्ठग्रहपूर्वमाकुलतया पादाग्रसंवदंशके
नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥११४८॥
अमरोः । काश्मीरशिल्हणस्य । (स्व२१३३)
दाक्षिण्यादतिमानतो रसवशाद्विश्रामहेतोर्मम
प्रागल्भ्यात्तदनुष्ठितं मृगदृशा शक्यं न यद्योषिताम् ।
निर्व्यूढं न यदा तया तदखिलं खिन्नैस्ततस्तारकैः
सव्रीडैश्च विलोकितैर्मयि पुनर्न्यस्तः समस्तो भरः ॥११४९॥
महाकवेः । (सु.र. ५९९)
पुरारूढप्रेमप्रबलरसरागेण हृतया
समारब्धं कर्तुं नहि यदबलाभावसदृशम् ।
अनिर्व्यूढे तस्मिन्प्रकृतिसुकुमाराङ्गलतया
पुनर्लज्जालोलं मयि विनिहितं लोचनयुगम् ॥११५०॥
कोङ्कस्य । (सु.र. ५८५)
१३६. रतान्तः
आवृण्वाना झटिति जघनं मद्दुकूलाञ्चलेन
प्रेङ्खल्लीलालुलितकबरीबन्धनव्यग्रपाणिः ।
अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां
दृष्टा धार्ष्ट्यादवनतमुखी सा मया मोहनान्ते ॥११५१॥
राजशेखरस्य । (सूक्तिमुक्तावलि ८०.५, सु.र. ५८९)
करकिसलयं धूत्वा धूत्वा विलम्बितमेखला
क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।
स्थगयति करं पत्युर्नेत्रे विहस्य समाकुला
सुरतविरतौ रम्यं तन्वी पुनः पुनरीक्ष्यते ॥११५२॥
कस्यापि । (स्व२१०५, शा.प. ३७०६, सूक्तिमुक्तावलि ८०.३, सु.र. ५९१)
छिन्नार्धोरुकमेखलं चरणयोः संक्रान्तलाक्षारसं
तल्पोपान्तमुदीक्ष्य सस्मितसखीवैलक्ष्यसंभ्रान्तया ।
तन्वङ्ग्या दृढदंशदन्तुरदरोच्छूनाधरोत्सङ्गया
क्षिप्ताः प्रेयसि कूटकोपकुटिलभ्रूविभ्रमा दृष्टयः ॥११५३॥
धर्मयोगेश्वरस्य ।
पर्यस्तालकपङ्क्तिलुप्ततिलकं निष्पीतरागाधरं
श्वासोत्कम्पिपयोधरं श्रमभरस्वेदार्द्रगण्डस्थलम् ।
तन्वङ्ग्याः श्लथनीविमुक्तकवरीभारं रतान्ते वपुर्
दृष्टं मुग्धविलोकितस्मितमभूदानन्दनिस्यन्दि नः ॥११५४॥
श्रीकरस्य ।
नयनमलसं स्वेदाम्भोभिः कर्म्बितमाननं
स्खलितकवरीभारावंसौ श्लथा भुजवल्लरी ।
इति मृगदृशः संभोगान्ते विलोक्य वपुःश्रियं
व्रजति नियतं कन्दर्पोऽपि स्वबाणशरव्यताम् ॥११५५॥
शङ्करधरस्य ।
१३७. उषसि प्रियादर्शनम्
संभ्रान्त्या गलितस्रजं स्तनतटव्यस्तस्खलद्वाससो
बध्नन्त्याः शिथिलां झणत्कृतिमतीं काञ्चीं नितम्बस्थले ।
कामिन्याः सरसं निशान्तसमये वक्रा विलुप्ताञ्जना
नाधन्ये निपतन्ति पाठलरुचो निद्रालसा दृष्टयः ॥११५६॥
कस्यचित।
उषसि निबिडयन्त्याः कुण्डलं केलिपर्या
विलविगलितमन्तः कर्णपालि प्रियायाः ।
सरसहसिततिर्यग्भङ्गुरापाङ्गरीतिः
सुकृतिभिरवलीढा लोचनाभ्यां मुखश्रीः ॥११५७॥
रुद्रनन्दिनः ।
प्रियायाः प्रत्यूषे गलितकवरीबन्धनविधाव्
उदञ्च्द्दोर्वल्लीदरचलितलोलाञ्चलमुरः ।
घनाकूते पश्यत्यथ मयि समन्दाक्षहसितं
नमन्त्यास्तद्रूपं यदि लिखितुमीशो मनसिजः ॥११५८॥
धोयीकस्य ।
मसृणमसृणं प्रेयः प्रातर्निवार्य वपुः स्वकं
तदनु च तिरोधाय स्वैरं रतोत्सवमण्डनम् ।
त्रिचतुरपदं गत्वा तस्मान्निवर्तितकन्धरं
स्नपयति दृशा पुण्यात्मानं कमप्युषसि प्रिया ॥११५९॥
शतानन्दस्य ।
अस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ
निर्धौतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।
काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोर्
एभिः कामशरैस्तदद्भुतमभूद्यन्मे मनः कीलितम् ॥११६०॥
जयदेवस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP