शृङ्गारप्रवाहः - सुभाषित ८२१ - ८४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
७०. नयनम्
नलिनं मलिनं विवृण्वती
पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमञ्जनाञ्चिते
विदधाते रुचिगर्वदुर्विधम् ॥८२१॥
कविपण्डितश्रीहर्षस्य । (ण्च्२.२३, शा.प. ३३०१)
निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी ॥८२२॥
धरणीधरस्य । (सु.र. ३९१, सूक्तिमुक्तावलि ६७.१३, सा.द. ८.१९)
नीराजयामि नयने तव यन्मृषोद्य
मिन्दीवरैः सममबद्धमुखाः करं ते ।
अद्यापि शाम्यति न ते बत पार्वणेन्दु
बिम्बोपमा सखि मुखाम्बुजकिंवदन्ती ॥८२३॥
पीताम्बरस्य ।
अक्षिभ्यां कृष्णशाराभ्यामस्याः कर्णौ न बाधितौ ।
शङ्के कनकताडङ्कपाशत्रासवशादिव ॥८२४॥
बङ्गालस्य ।
मृगीसम्बन्धिनी दृष्टिरसौ यदि न सुभ्रुवः ।
धावति श्रवणोत्तंसलीलादूर्वाङ्कुरे कृतः ॥८२५॥
बिल्हणस्य । (Vच्८.७३)
७१. कर्णः
त्यक्तादरो धनुषि सौमनसे वरोरु
नीराजितः सुतनु नैष निजैः पृषत्कैः ।
बध्नन्नभून्नयनकालमृगानिदानीं
त्वत्कर्णपाशयुगवागुरिको मनोभूः ॥८२६॥
गोपीकस्य ।
अहह किमधुना मुधैव बध्नास्य्
अनुचितकारिणि कर्णदन्तपत्रम् ।
ननु तव चटुलभ्रुकर्णपालिर्
भुवनविलोचनकालसारपाशः ॥८२७॥
तस्यैव ।
किं पत्रभङ्गरुचिजालमिदं कपोले
त्वत्कर्णयोः सुदति सारित एष पाशः ।
कश्चित्त्ववत्यपि किमुत्पतितो नितम्बांस्
त्वन्मध्यदेशदवमीक्षणकालसारः ॥८२८॥
तस्यैव ।
स्मरशरधिनिकाशं कर्णपाशं कृशाङ्गी
रयविगलितताडीपत्रताडङ्कमेकम् ।
वहति हृदयचोरं कुङ्कुमन्यासगौरं
वलयितमिव नालं लोचनेन्दीवरस्य ॥८२९॥
कस्यचित। (सु.र. ५२४)
सम्भोगभृष्टताडङ्कः
कर्णस्तस्या विराजते ।
नेत्रनीलोत्पलस्येव
नालकं द्विगुणीकृतम् ॥८३०॥
विक्रमादित्यकालिदासयोः ।
७२. अधरः
अयमक्षुण्णकान्तश्री
रधरो हरिणीदृशः ।
प्रवालपद्मरागादे
रुपरि प्रतिगर्जति ॥८३१॥
धर्माशोकदत्तस्य ।
अभिनवजवापुष्पस्पर्धी तवाधरपल्लवो
हसितकुसुमोन्मेषच्छायादरच्छुरितान्तरः ।
नयनमधुपश्रेणीं यूनामनारतमाहरं
स्तरुणि तनुते तारुण्यश्रीर्विलासवतंसताम् ॥८३२॥
जलचन्द्रस्य ।
अयं ते विद्रुमच्छायो मरुदेश इवाधरः ।
करोति कस्य नो मुग्धे पिपासातरलं मनः ॥८३३॥
कस्यचित। (सु.र. ४९२)
विभाति बिम्बाधरवल्लिरस्याः
स्मरस्य बन्धूकधनुर्लतेव ।
विनापि बाणेन गुणेन येयं
यूनां मनांसि प्रसभं भिनत्ति ॥८३४॥
जयदेवस्य ।
स्याद्बन्धुजीवनिवहैर्यदि पञ्चबाण
चापश्चलत्कुसुमकेशरचामराङ्कः ।
स्यादेव तेन तुलना तरुणि त्वदीय
बिम्बाधरस्य मधुरस्मितभावितस्य ॥८३५॥
शङ्करदेवस्य ।
७३. वदनम्
यदपि विबुधैः सिन्धोरन्तः कथञ्चिदुपार्जितं
तदपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते ।
सुरसुमनसः श्वासामोदे शशी च कपोलयो
रमृतमधरे तिर्यग्भूते विषं च विलोचने ॥८३६॥
लक्ष्मीधरस्य । (सु.र. ४०१, सूक्तिमुक्तावलि ५३.३१)
जनानन्दश्चन्द्रो भवतु न कथं नाम सुकृती
प्रयातोऽवस्थाभिस्तिसृभिरपि यः कोटिमियतीम् ।
भ्रुवोर्लीलां बालः श्रियम्मलिकपट्टस्य तरुणो
मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥८३७॥
मुरारेः । (सूक्तिमुक्तावलि ५३.३३)
तस्पस्यतीव शीतांशु
स्त्वन्मुखेन्दुजिगीषया ।
कृशः शम्भुजटाजूट
तटिनीतटमाश्रितः ॥८३८॥
कस्यचित। (सु.र. ४६०)
प्रत्यासन्नविदूरवर्तिविषयेऽमुष्मिन्द्विचन्द्रभ्रमे
मुख्या चन्द्रमतिर्मुखे तव निरालम्बैव तु व्योमनि ।
भुङ्क्त्वासौ हरिणः सदा जनभयात्तत्रैव लीनः प्रिये
नैवं चेत्कथमेव यस्य जठरे तस्यैव लोले दृशौ ॥८३९॥
शब्दार्णवस्य ।
कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं
मैत्रं मण्डलमुज्ज्वलं चिरमधोनीतास्तथा कण्टकाः ।
इत्याकृष्टशिलीमुखेन रचनां कृत्वा तदत्यद्भुतं
यत्पद्मेन जिगीषुणापि न जितं मुग्धे तवेदं मुखम् ॥८४०॥
कस्यचित। (सु.र. ४४५, स्व१५२३, शा.प. ३३२२)
N/A
References : N/A
Last Updated : November 11, 2016
TOP