संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ६४१ -६६०

शृङ्गारप्रवाहः - सुभाषित ६४१ -६६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३४. तनुताख्यानम्

दोलालोलाः श्वसनमरुतश्चक्षुषी निर्झराभे
तस्याः शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः ।
तद्गात्राणां किमिव हि बहु ब्रूमहे दुर्बलत्वं
येषामग्रे प्रतिपदुदिता चन्द्रलेखाप्यतन्वी ॥६४१॥

राजशेखरस्य । (सु.र. ५५२)

आरब्धा मकरध्वजस्य धनुषैतस्यास्तनुर्वेधसा  
त्वद्विश्लेषविशेषदुर्बलतया जाता न तावद्धनुः ।
तत्संप्रत्यपि रे प्रसीद किमपि प्रेमामृतस्यन्दिनीं  
दृष्टिं नाथ विधेहि सा रतिपतेः शिञ्जापि सम्जायताम् ॥६४२॥

धोयीकस्य ।

तस्यास्त्वदेकमनसः स्मरबाणवर्षैः
कार्श्यं वपुः शठ बिभर्ति यथा यथैव ।
स्तोकायिताश्रयतयेव तथा तथैव
कान्तिर्घनीभवति लोलविलोचनायाः ॥६४३॥

तस्यैव ।

स्पृशन्त्याः क्षामत्वं मदनशरटङ्कव्यतिकरात्
कुरङ्गाक्ष्यास्तस्याः शृणु सुभग कौतूहलमिदम् ।
अपूर्वेति त्रस्ता परिहरति तां केलहरिणी
न विश्वेऽप्याश्वासं दधति गृहलीलाशकुनयः ॥६४४॥

कस्यचित। (सूक्तिमुक्तावलि ४४.१७)

अभवदभिनवप्ररोहभाजां
छविपरिपाटिषु यः पुराङ्गकानाम् ।
अहह विरहवैकृते स तस्याः
क्रशिमनि संप्रति दूर्वया विवादः ॥६४५॥

तैलपाटीयगाङ्गोकस्य ।

३५. उद्वेगकथनम्

सौघादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं
द्वारात्त्रस्यति चित्रकेलिसदसो वेशं विषं मन्यते ।
आस्ते केवलमब्जिनीकिसलयप्रस्तारिशय्यातले
संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥६४६॥

राजशेखरस्य । (बा.रा. ५.८, स.क.आ.व्२०८, वि.शा.भ. ३.२, सु.र. ७४५)

सोद्वेगा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे
त्रस्ता कोकिलकूजितादपि गिरं नोन्मुद्रयत्यात्मनः ।
इत्थं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे
मुग्धा सा सुभगे त्वयि प्रतिमुहुः प्रेमाधिकं पुष्यति ॥६४७॥

शृङ्गारस्य । (सु.र. ५३६)

विषं चन्द्रालोकः कुमुदवनवातो हुतवहः
क्षतक्षारो हारः स खलु पुटपाको मलयजः ।
अये किंचिद्वक्रे त्वयि सुभग सर्वे कथममी
समं जातास्तस्यामहह विपरीतप्रकृतयः ॥६४८॥

अचलसिंहस्य । (सु.र. ५५४)

न क्रीडागिरिकन्दरीषु रमते नोपैति वातायनं
दूराद्द्वेष्टि गुरून्निरस्यति लतागारे विहारस्पृहाम् ।
आस्ते सुन्दर सा सखीप्रियगिरामाश्वासनैः केवलं
प्रत्याशां दधती तया च हृदयं तेनापि च त्वां पुनः ॥६४९॥

धोयीकस्य ।

हारं पाशवदाच्छिनत्ति दहनप्रायां न रत्नावलीं
धत्ते कण्ठकशङ्किनीव कलिकातल्पे न विश्राम्यति ।
स्वामिन्सम्प्रति सान्द्रचन्दनरसात्पङ्कादिवोद्वेगिनी
सा बाला विसवल्लरीवलयतो व्यालादिव त्रस्यति ॥६५०॥

३६. निशावस्थाकथनम्

अस्मिंश्चन्द्रमसि प्रसन्नमहसि व्यकोपकुन्दत्विषि
प्राचीनं खमुपेयुषि त्वयि मनाग्दूरे गते प्रेयसि ।
श्वासः कैरवकोरकीयति मुखं तस्याः सरोजीयति
क्षीरोदीयति मन्मथो दृगपि च द्राक्चन्द्रकान्तीयति ॥६५१॥

कस्यचित। (शा.प. ३४८०, सूक्तिमुक्तावलि ४४.१०; पद्या. ३५५ भीमभट्टस्य)

अम्भोरुहं वदनमम्बकमिन्दुकान्तः
पाथोनिधिः कुसुमचापभृतो विकारः ।
प्रादुर्बभूव सुभग त्वयि दूरसंस्थे
चण्डालचन्द्रधवलासु निशासु तस्याः ॥६५२॥

चण्डालचन्द्रस्य । (सु.र. ५३८)

तापोऽम्भः प्रसृतिं पचः प्रचयवान्बाष्पः प्रणालोचितः
श्वासानर्तितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः ।
किं चान्यत्कथयामि रात्रिमखिलां त्वद्वर्त्मवातायने
हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥६५३॥

राजशेखरस्य । (वि.शा.भ. २.२१, सु.र. ५४०)

बाष्पैर्निष्पतयालुभिः कलुषिता गण्डस्थली चिन्तया
चेतः कातरितं तरङ्गितमुरः श्वासोर्मिभिः पीवरैः ।
इत्थं त्वद्विरहे तदीयविपदं देवई त्रियामैव वा
तल्पं वा परितापखिन्नमथवा जानाति पुष्पायुधः ॥६५४॥

शरणस्य ।

निष्पत्रं सरसीरुहां वनमिदं निश्चन्दना मेदिनी
निष्पङ्कानि पयांस्यपल्लवपुटा वृक्षा सखीभिः कृताः ।
नीयन्ते सुभग त्वया रहितया सोत्कण्ठकोकीकुला
क्रन्दाकर्णनजागरूककुमुदामोदास्तया रात्रयः ॥६५५॥

कस्यचित।

३७. वासकसज्जा

तल्पं कल्पितमेव कल्पयति सा भूयस्तनुं मण्डितां
भूयो मण्डयति स्वयं रतिपतेरङ्गीकरोत्यर्चनाम् ।
गच्छन्त्यां निशि मन्यते क्षतिमिव द्वारं चिरं सेवते
लीलावेश्मनि सा करोति मदनक्लान्ता वराकी न किम् ॥६५६॥

आचार्यगोपीकस्य ।

दृष्ट्वा दर्पणमण्डले निजमुखं भूषां मनोहारिणीं
दीपार्चिःकपिशं च मोहनगृहं त्रस्यात्कुरङ्गीदृशा ।
एवं नौ सुरतं भविष्यति चिरादद्येति सानन्दया
मन्दं कान्तदिदृक्षयातिललितं द्वारे दृगारोपित्म् ॥६५७॥

रुद्रटस्य । (शृ.ति. १.७६अ)

अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥६५८॥

अमरोः । (अमरु ४, सु.र. ५०८; स्व१०९८, शा.प. ३४१६, सूक्तिमुक्तावलि ३९.४)

अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत
व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥६५९॥

जयदेवस्य । (ङ्ग्६.३)

अरतिरियमुपैति मां न निद्रा
गणयति तस्य गुणान्मनो न दोषान।
विरमति रजनी न सङ्गमाशा
व्रजति तनुस्तनुतां न चानुरागः ॥६६०॥

प्रवरसेनस्य । (सु.र. ७२३, शा.प. ३४२७ बिल्हणस्य, पद्या. २१४)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP