शृङ्गारप्रवाहः - सुभाषित ८८१ - ९००
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
८२. शठनायकः
दृष्ट्वैकासनसंश्तिते प्रियतमे पश्चादुपेत्यादराद्
एकस्या नयने पिद्याय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥८८१॥
[अमरु १६; सु.र. ६०३, स्व. २०६९, शा.प. ३५७५]
कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुतिपरः प्रेयान्रुदत्या हसन॥८८२॥
[अमरु ९, सूक्तिमुक्तावलि ८५.३, Sभ्१३५१]
एकप्रियाचरणपद्मपरीष्टिजात
क्लेशस्य मे हृदयमुत्तरलीचकार ।
उद्भिन्ननिर्भरमनोभवभावमुग्ध
नानाङ्गनावदनचन्द्रमसां दिदृक्षा ॥८८३॥
लक्ष्मणसेनदेवस्य ।
कोपात्किंचिदुपानतोऽपि रभसादाकृष्य केशेष्वलं
नीत्वा मोहनमन्दिरं दयितया हारेण बद्ध्वा दृढम् ।
भूयो यास्यसि तद्गृहानिति मुहुः कण्ठार्धरुद्धाक्षरं
जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताड्यते ॥८८४॥
कस्यचित। (शा.प. ३५६७, सूक्तिमुक्तावलि ८५.२)
सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा
भूयो द्रक्ष्यसि तां शठेति परुषं संतर्ज्य संतर्ज्य च ।
आलीनां पुर एव निह्नुतिपरः कोपाद्रणन्नूपुरं
मानिन्याश्चरणप्रहारविधिना प्रेयानशोकीकृतः ॥८८५॥
कस्यचित।
८३. धृष्टनायकः
शतं वारानुक्तः प्रियसखि वचोभिः स परुषैः
सहस्रं निर्धूतश्चरणपतितः पार्ष्णिहतिभिः ।
कियत्कृत्वो बद्धाः पुनरिह न वेद्मि भ्रुकुटयस्
तथापि क्लिश्यन्मां क्षणमपि न धृष्टो रहयति ॥८८६॥
कस्यचित। (स.क.आ. ४.१८०, V. ३७१)
वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर्विभ्रमैर्
विश्रान्तं कुत एव लोलनयने किं लोहिते लोचने ।
स्वेदः किं नु घनस्तनि स्तनतटे मुक्ताफलानां तुलां
धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्यागसः ॥८८७॥
कस्यचित। (शृ.ति. २.३६अ, शा.प. ३५७९, सूक्तिमुक्तावलि ५८.६)
जल्पन्त्याः परुषं रुषा मम बलाच्चुम्बत्यसावाननं
मृद्गात्याशु करं करेण बहुशः सन्ताड्यमानोऽपि सन।
आलीनां पुरतो दधाति शिरसा पादप्रहारांस्ततो
नो जाने सखि साम्प्रतं प्रणयिएन्कुप्यामि तस्मै कथम् ॥८८८॥
रुद्रटस्य । (शृ.ति. १.२८अ)
दृष्टा मुष्टिभिराहता हृदि नखैराचोटिता पार्श्वयोर्
आकृष्टा कवरीषु गाढमधरे शीत्कुर्वती खण्डिता ।
त्वत्कृत्यं त्वदगोचरेऽपि हि कृतं सर्वं मयैवाधुना
मामाज्ञापय किं करोमि सरले भूयः सपत्न्यास्तव ॥८८९॥
कस्यचित। (सु.र. ६७७)
दासे कृतागसि भवेदुचितः प्रभूणां
पादप्रहारिति मानिनि नातिदूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्
यद्भिद्यते पदमिदं तव सा व्यथा मे ॥८९०॥
सत्यबोधस्य । (सा.द. उन्देर्१०.४६, शा.प. ३६५७, सूक्तिमुक्तावलि ५७.११)
८४. ग्राम्यनायकः
स्वैरं कीकटदारकः परिसरे गुन्द्रालतोपाहित
त्वङ्गच्चर्चरको विरूढलशुनश्यामः परिक्रामति ।
विश्रान्तं मुषलैः स्थितं तितौभिर्विश्रब्धमम्भोघटैर्
निर्वाणं ज्वलनैर्मुखैर्विवलितं ग्रामेयिकाणां पुरः ॥८९१॥
योगेश्वरस्य ।
धावति तरुमारोहति कूपं लङ्घयति शकटमुत्क्षिपति ।
तिनवति तिनवति गायति दृष्ट्वा परयोषितं षिङ्गः ॥८९२॥
तस्यैव ।
ब्रीहिः स्तम्बकरिः प्रभूतपयसः प्रत्यागता धेनवः
प्रत्युज्जीवितभिक्षुणा भृशमिति ध्यायन्नपेतान्यधीः ।
सान्द्रोशीरकुटुम्बिनीस्तनभरव्यालुप्तघर्मक्लमो
देवे नीरमुदारमुज्झति सुखं शेते निशाग्रामणीः ॥८९३॥
तस्यैव ।
परिचुम्बनाय घटते पारममिथुनं निशासु चैत्रीषु ।
कवलितपलाण्डु परिमलसंवलदन्योन्यनिःश्वासम् ॥८९४॥
शुभाङ्कस्य ।
व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्यपि व्रीडया
स्वप्नभ्रान्तिपरिप्लुतेन मनसा गाढं समालिङ्गति ।
दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता
तन्व्यङ्ग्या विफलं विचेष्टितमभूद्भावानभिज्ञे जने ॥८९५॥
अमरोः । (सु.र. ५११)
८५. मानिनायकः
स्मृतिस्वप्नावाप्तत्वदखिलविलासैकमनसा
तया तावत्तादृक्त्वदनुनययत्नः शिथिलितः ।
अयं तु द्रष्टव्यस्तव सुभग गर्वस्य गरिमा
स्मृतौ वा स्वप्ने वा यदि भवसि वामः कथमपि ॥८९६॥
कस्यचित।
चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे
निभृतकितवाचारेत्युक्त्वा रुषा पुरुषीकृते ।
व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया
नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥८९७॥ अमरोः ॥
[अमरु १९]
विरहविषमः कामो वामस्तनुं कुरुते तनुं
दिवसगणनादक्षश्चासौ व्यपेतघृणो यमः ।
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किशलयमृदुर्जीवेदेवं कथं प्रमदाजनः ॥८९८॥
[अमरु ६४; Sभ्१६३३, शा.प. ३५७२]
कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीन्
उद्दामध्वनिपण्डितान्परिजने किंचिच्च निद्रायति ।
तस्मिन्कुप्यति यावदस्मि चलिता तावद्विधिप्रेरितः
काश्मीरईकुचकुम्भविभ्रमकरः शीतांशुरभ्युद्गतः ॥८९९॥
कस्यचित। (सूक्तिमुक्तावलि ७०.१३, काश्मीरबिल्हणस्य; सु.र. ८३४)
मुक्तो मानपरिग्रहः सह सखीसार्थेन तन्मन्त्रिणा
शक्ता त्वच्चरणप्रसादरहिता नाहं क्षणं प्राणितुम् ।
पश्य त्वं कृशकं शरीरकमिदं यां यामवस्थां गतं
सैषाहं तव पादयोर्निपतिता नाथ प्रसीदाधुना ॥९००॥
कस्यचित।
N/A
References : N/A
Last Updated : November 11, 2016
TOP