शृङ्गारप्रवाहः - सुभाषित १०२१ - १०४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
११०. दूतीसंवादः
उत्तिष्ठ यदि जीवन्तीं मामिच्छसि तमानय ।
अहं नेतुमशक्यापि सुदूरमिदमन्तरम् ॥१०२१॥
कस्यचित।
कामं निष्करुणं वेत्सि वेत्सि तं बहुवल्लभम् ।
दूति चूताङ्कुरखरा दिशो वेत्सि न वेत्सि किम् ॥१०२२॥
कस्यचित।
जीवितं जलतरङ्गविलोलं
यौवनं त्रिचतुराणि दिनानि ।
शारदभ्रतरला तनुकान्तिः
गच्छ दूति वद सत्वरमेतत॥१०२३॥
कस्यचित।
यस्मिन्बाष्बाष्पतरङ्गिताश्रुकलुषा दृष्टिर्न सिद्धिं गता
नो हस्तेन विवर्तमानवलयेनालिङ्गितो न स्थितः ।
येन स्त्रीहृदयस्य पद्ममृदुनः संभावितो नात्ययस्
तं गत्वा हृदयं किमश्मसदृशं त्वं दूति वक्तुं क्षमा ॥१०२४॥
कस्यचित। (स्व११८७)
दूति त्वं तरुणी युवा स चपलः श्यामास्तमोभिर्दिशः
संकेतः सरहस्य एष विपिने संकेतकावासकः ।
भूयो भूय इमे वसन्तमरुतश्चेतो नयन्त्यन्यथा
गच्छ क्षेमसमागमाय निपुणं रक्षन्तु ते देवताः ॥१०२५॥
शीलाभट्टारिकायाः । (स्व११८८, शा.प. ३४३९, सूक्तिमुक्तावलि ४१.११)
१११. स्त्रीविलोभनम्
प्रियतमभुजपञ्जरोपगूढा
शशितिलकेषु विभावरीमुखेषु ।
अनुभवमदविभ्रमोपदिष्टान्य्
अविनयदुर्ललितानि मन्मथस्य ॥१०२६॥
कस्यचित।
स्तनयुगवहनालसं च मध्यं
चरणयुगं च नितम्बभारखिन्नम् ।
यदि वहसि बिभर्षि किं वृथैकं
हृदयमिदं दयितानुरागशून्यम् ॥१०२७॥
कस्यचित।
सुलभमनृजु जीवितान्यनित्यान्य्
अतिसुभगे व्यतिपाति यौवनं च ।
अनुभवफलमात्मनो गुणानां
दिवि सुखमस्ति न चापरोक्षमेतत॥१०२८॥
कस्यचित।
यदि बृहज्जघनापघना तनुर्
यदि च दीर्घविलोचनमाननम् ।
इदमुपैति रतेरभिधेयतां
वहति कस्य कृते मदनो धनुः ॥१०२९॥
कस्यचित।
स्तनयुगमसिताक्षि सुन्दरीणां
भवति ततः शुभमप्यबन्ध्यशोभम् ।
यदि किल लभते प्रियार्पितानां
रसमुपगूहनपीडनामृतानाम् ॥१०३०॥
कस्यचित।
११२. पुंविलोभनम्
स्मितमधुस्नपिताधरपल्लवाम्
अभिनवोल्लसितस्तनकुड्मलाम् ।
गुणफलां त्वमिमामबलालतां
तरुरिवोद्वह पुष्पवतीं लताम् ॥१०३१॥
कस्यचित।
गृहीतं ताम्बूलं परिजनवचोभिर्न कथमपि
स्मरत्यन्तःशून्या सुभग विगतायामपि निशि ।
ततेवास्ते हस्तः कलितफणिवल्लीकिसलयस्
तथवास्यं तस्याः क्रमुकफलफालीपरिचितम् ॥१०३२॥
बिल्हणस्य । (शा.प. ३४७५, पद्या. १८७ हरिहरस्य, उ.नी. १३.५९)
त्वं शीतलो न व्यजनानुरागी
दूरान्तरस्तापवती च कान्ता ।
कामं न शक्ता शरदं विषोढुं
स्थाने समाकाङ्क्षति सा हि मर्तुम् ॥१०३३॥
शब्दार्णवस्य ।
विकसिताधरमायतलोचनं
पिब रहस्यभिराममिदं मुखम् ।
रुचिरपत्रविलम्बितकेशरं
मधुकरः सरसीव सरोरुहम् ॥१०३४॥
कस्यचित।
नागवल्लिरुधिरोहतु पूगं
रात्रिरेणतिलकेन समेतु ।
त्वामसौ भजति कोकिलकण्ठी
वाचमर्चतु कवेः सुकृतोऽर्थः ॥१०३५॥
राजशेखरस्य ।
११३. दूतिकोपालम्भः
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्र दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥१०३६॥
सुविभोकस्य । (स.क.आ. ४.२३६, Sदुन्देर्२.२३, सूक्तिमुक्तावलि ४८.२, सु.र. ८३७)
स्वकार्यबुद्ध्यैव सदा मदर्थे
दूति प्रवृत्तिं प्रतिपालयन्त्या ।
त्वया फलेनैव विभावितोऽयं
मया सहाभिन्नशरीरवादः ॥१०३७॥
छित्तोकस्य । (सु.र. ८५३)
अधरो वीतरागस्ते कषाये तव लोचने ।
विहारः कण्ठदेशस्ते दूति प्रव्रजितासि किम् ॥१०३८॥
भिक्षोः । (सु.र. ८४०)
साधु दूति पुनः साधु
कर्तव्यं किमतः परम् ।
यन्मदर्थे विरुग्णासि
दन्तैरपि नखैरपि ॥१०३९॥
तस्यैव । (सु.र. ८३९)
किं त्वं निगूहसे दूति
स्तनौ वक्त्रं च पाणिना ।
सव्रणा एव शोभन्ते
वीराधरपयोधराः ॥१०४०॥
कस्यचित। (स्व१४२८, शा.प. ३५१०)
N/A
References : N/A
Last Updated : November 11, 2016
TOP