शृङ्गारप्रवाहः - सुभाषित ८०१ - ८२०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
६६. दुर्दिनाभिसारिका
पङ्के नूपुरशिञ्जितस्य गरिमा मग्नः क्वणन्मेखला
जल्पाकी जघनस्थली जलमुचां नादैर्निषिद्धाधिकम् ।
दोर्वल्लीवलयांशवश्च शमिताः सौदामिनीविभ्रमैर्
वर्षारात्रिविभूषितिभिस्तव सखि क्षीणोऽन्तरायः क्षणात॥८०१॥
सुभटस्य ।
असूचीसंचारे तमसि नभसि प्रौढजलद
ध्वनिप्राज्ञंमन्ये पतति पृषतानां निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥८०२॥
तस्यैव ।
धावति चेतो न तनुर्धाराधौतोऽधरो हृदि न रागः ।
इह रमणमभिसरन्त्याः स्खलति गतिर्न त्ववष्टम्भः ॥८०३॥
अमरोः ।
प्राणेशमभिसरन्ती मुग्धा पथि पङ्किले स्खलन्तीव ।
अवलम्बनाय वारां धारासु करं प्रसारयति ॥८०४॥
धरणीधरस्य । (शा.प. ३६१२)
मत्पाणावपसव्यमर्पय करं सव्यं च काञ्च्यां कुरु
प्रोत्कुञ्चाग्रममू निधेहि चरणावुत्पङ्किले वर्त्मनि ।
मा पुत्रि त्रस पश्य वर्त्म कतिचिद्विस्फार्य चक्षुः क्षणान्य्
आवल्लेढि तडिल्लता तत इतः पिण्डावलेह्यं तमः ॥८०५॥
चन्द्रज्योतिषः ।
६७. स्वैरिणीप्रलापः
देवो रविर्वा प्रणिपत्य याच्यः
कालक्रमान्मण्डलमागतस्य ।
परः सहस्राः शरदो विधेयास्
त्वयातिथेयी मृगलाञ्छनस्य ॥८०६॥
कस्यचित।
शीतमधुरमपि गलितं
वमति विधुं व्याधिना येन ।
शमयति यस्तं राहोः सखि
भिषजस्तस्य दासी स्याम् ॥८०७॥
धर्मपालस्य ।
अस्मिन्करीन्द्रकरनिर्गलितारविन्द
कन्दानुकारिणि चिरं रुचिचक्रवाले ।
कस्मै फलाय कुलटाकुलकोटिहोमं
हंहो मृगाङ्क कुरुषे करुणामपास्य ॥८०८॥
सुभटस्य ।
निष्पीयांशुपयः पयोरुहरिपोश्चक्रुश्चकोरा इमे
यन्नाद्यापि कलङ्कपङ्किलकलाकङ्कालशेषं वपुः ।
सैषा किं कविकल्पना सखि किमु स्वैराङ्गनादुष्कृतैर्
एभ्यः कान्तिकलापपानपटिमव्युत्पत्तिरुद्वासिता ॥८०९॥
तस्यैव ।
यन्मृत्युञ्जयमौलिरत्नममृतप्रस्यन्दिसान्द्रच्छविर्
ज्यायान्मन्त्रविदां महार्णवमणिश्रेणिसकुल्याग्रणीः ।
प्रेयानोषधिमण्डलस्य वहति क्षीणं वपुर्यः क्षणात्
तत्रैते विलसन्ति पुत्रि कुलटासत्कर्मणां मूर्तयः ॥८१०॥
जलचन्द्रस्य ।
६८. स्त्रीरूपम्
यत्त्रैलोक्यमनोरथस्य परमं पात्रं मनोजन्मना
यच्चास्त्रं हरनिर्जितेन जगतीं जेतुं चिरादर्जितम् ।
यन्मे श्रोत्ररसायनं कथमहो प्राप्तं तदेतन्मया
रूपं लोचनपीयमानविगलल्लावण्यपूरं वपुः ॥८११॥
कालिदासस्य ।
दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः
संक्षिप्तं निविडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली
छन्दो नर्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः ॥८१२॥
तस्यैव । (ंआलविकाग्निमित्र २.३, द.रू.. ४.४८, Sद्३.१६)
बिम्बोष्ठाय नमस्करोति चकिता बन्धूकपुष्पद्युतिः
कार्पण्यं तनुते न किं स्मरधनुर्दीनं भ्रुवोरग्रतः ।
आज्ञां मूर्धभिरुद्वहन्ति कमलान्यक्ष्णोर्मृगाक्ष्याः स्फुटं
किं चान्यद्वदनस्य धावति पुरो बद्धाञ्जलिश्चन्द्रमाः ॥८१३॥
पुरुषोत्तमदेवस्य ।
लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः
स्वच्छन्दं वसतो जनस्य हृदये चिन्ताज्वरो निर्मितः ।
एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥८१४॥
धर्मकीर्तेः (Kउवल्. १००, सु.र. ४५४)
लावण्यद्रवकल्पमेव कनकं वक्त्रस्य नीराजना
पिण्डश्रीः शशभृद्दृगेव नयनद्वन्द्वस्य नीलोत्पलम् ।
भ्रूवल्लीं किमुदाहरामि यदवच्छेदो धनुर्मान्मथं
तत्पीयूषभुजामरोचकचमत्कारि स्मितं सुभ्रुवः ॥८१५॥
करञ्जमहादेवस्य ।
६९. भ्रूः
असङ्गतेनोन्नतिमागतेन
चलेन वक्रेण मलीमसेन ।
सा दुर्जनेनैव समस्तमेतं
प्रबाधते भ्रूयुगलेन लोकम् ॥८१६॥
यज्ञघोषस्य ।
अकौसुमी मन्मथचापयष्टि
रनंशुका विभ्रमवैजयन्ती ।
ललाटरङ्गाङ्गणनर्तकीय
मनञ्जना भूरनुयाति दृष्टिम् ॥८१७॥
कस्यचित।
विरमतु रतिजाने लोलरोलम्बकीट
व्रणविवरसहस्रक्षुण्णमेतद्धनुस्ते ।
यदिह कुसुमकेतो भ्रूलता काप्य्यूना
मुपरि जयपताका सुभ्रुवो विश्वजेत्री ॥८१८॥
वासुदेवज्योतिषः ।
इन्दोः कान्तिं जडतरकरान्मत्तनागाद्गतिं वा
त्रस्तान्नेत्रे हरसि हरिणात्तत्र किं नाम चित्रम् ।
एतच्चित्रं पुनरिह जगज्जैत्रकन्दर्पचाप
श्रीसर्वस्वं यदपहरसि प्रेयसि भ्रूविलासैः ॥८१९॥
नान्यदेवस्य ।
भ्रूलेखायुगलं भाति
तस्याश्चटुलचक्षुषः ।
पत्रद्वयीव हरिता
नासावंशस्य निर्गता ॥८२०॥
बिल्हणस्य । (Vच्२.७९, शा.प. ३२९७, सूक्तिमुक्तावलि ५३.७)
N/A
References : N/A
Last Updated : November 11, 2016
TOP