शृङ्गारप्रवाहः - सुभाषित ९४१ - ९६०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
९४. चित्रम्
प्रिया संनिहितैवेयं संकल्पस्थापिता पुरः ।
दृष्ट्वा दृष्ट्वा लिखाम्येनां यदि तत्कोऽत्र विस्मयः ॥९४१॥
प्रभाकरदत्तस्य । (ण्न्२.९)
रहसि सततोत्सङ्गन्यासादजस्र
मर्षान्नित्यस्तनार्पणकेलिभिः ।
अनिशचरणोपान्तस्पर्शान्निरन्तरचुम्बनैर्
अपि खलु तया लेख्यैः स चित्रपटीकृतः ॥९४२॥
उमापतिधरस्य ।
मसीयं तूलीयं फलकमिदमेष त्वमधुना
जडोऽसि स्विन्नोऽसि स्खलसि खलु पाणे कथमिव ।
अमुष्य प्रावीण्यं कलयसि न किं हन्त मनसो
विना यत्सामग्रीं सुभगशतमग्रे विलिखति ॥९४३॥
कस्यचित।
चित्रं चित्रगतोऽप्येष ममालि मदनोपमः ।
समुन्मूल्य बलाल्लज्जामुत्कण्ठयति मानसम् ॥९४४॥
रुद्रटस्य । (शृ.ति. १.५१ब्)
तवालेख्ये कौतूहलतरलतन्वीविरचिते
न्धायैका चक्रं रचयति सुपर्णासुतमपि ।
अथ स्विद्यत्पाणिस्खलितमपमृज्यैतदपरा
करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥९४५॥
कस्यचित। (स.क.आ. ३.१६७)
९५. स्वप्नः
जाने सा गगनप्रसूनकलिकेलिकेवात्यन्तमेवासती
तत्सम्भोगरसाश्च तत्परिमलोल्लासा इवासत्तमाः ।
स्वप्नेन द्विषतेन्द्रजालमिव मे सन्दर्शिता केवलं
चेतस्तत्परिरम्भणाय तदपि स्फीतस्पृहं ताम्यति ॥९४६॥
कस्यचित। (सु.र. ७६३)
स्वप्नैर्प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः
श्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये ।
नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरितेषु चित्तं
तन्नस्तन्वङ्गि कैश्चिन्न करणहरिणैर्वागुरालङ्घितासि ॥९४७॥
कविपण्डितश्रीहर्षस्य (ण्च्८.१०७)
स्वप्न प्रसीद भगवन्पुनरेकवारं
सन्दर्शय प्रियतमां क्षणमात्रमेव ।
दृष्ट्वा सती निविडबाहुनबन्धलग्नं
तत्रैव मां नयति सा यदि वा न याति ॥९४८॥
कालिदासस्य । (सु.र. ८०६)
क्व पेयं ज्योत्स्नाम्भो वदत विसवल्लीसरणिभिर्
मृणालीतन्दूभ्यः सिचयरचना कुत्र भवतु ।
क्व वा पारीमेयो बत बकुलदाम्नां परिमलः
कथं स्वप्नः साक्षात्कुवलयदृशं कल्पयतु ताम् ॥९४९॥
राजशेखरस्य । (स.क.आ. २.६०, सु.र. ५२८)
तत्तादृक्कुचकुम्भभङ्गुरमुरस्तच्च त्रपामन्थरं
चक्षुः प्रेमगुरुर्मनोभवसमुद्भेदः स वामभ्रुवः ।
रे स्वप्नः प्रलभापनीतदयितादोर्वल्लीबन्धस्य किं
सर्वं नीतवतोऽहमेव भवतो दैवादभूवं गुरुः ॥९५०॥
आचार्यगोपीकस्य ।
९६. नायकाभिलाषः
शिखरिणि क्व नु नाम कियच्चिरं
किमभिधानमसावकरोत्तपः ।
तरुणि येन तवाधरपाटलं
दशति बिम्बफलं शुकशावकः ॥९५१॥
धर्मकीर्तेः । (स्व२०३०, सा.द. उन्देर्४.९, सु.र. ४३९)
आर्यानङ्ग महाव्रतं विदधता विन्ध्यानिलैः पारणां
कृत्वा साङ्गमकारि केन मुरलाकूले कठोरं तपः ।
येनास्या रतिखेदमेदुरमृदुश्वासाधिवासस्पृशः
पीयन्तेऽधरसीधवो विहसितज्योत्स्नोपदंशं रहः ॥९५२॥
योगोकस्य ।
ध्यायन्किं दनुजद्विषं क्व नु महातीर्थे क्व पुण्ये क्षणे
कैर्वा निर्मलकर्मभिः करिपतिः प्राणव्ययं लम्भितः ।
द्यूते यद्दशनांशुपाशकयुगं हाराभिरामोल्लसन्
नीरन्ध्रस्तनमण्डलद्वयमिदं मृदङ्गि मृद्गाति ते ॥९५३॥
आचार्यगोपीकस्य ।
अधीराक्ष्याः पीनस्तनकलसमास्कन्दसि मुहुः
क्रमादूरुद्वन्द्वं कलयसि च लावण्यललितम् ।
भुजाश्लिष्टो हर्षादनुभवसि हस्ताहृतिकलाम्
अये वीणादण्ड प्रकटय फलं कस्य तपसः ॥९५४॥
वाचस्पतेः । (सु.र. ४२२)
न नीलाब्जं चक्षुः सरसिरुहमेतन्न वदनं
न बन्धूकस्येदं मुकुलमधरस्तद्द्युतिधरः ।
ममाप्येषा भ्रान्तिः प्रथममभवद्भृङ्ग किमु ते
कृतं यत्नैरेभ्यो विरम विरमेत्यञ्जलिरयम् ॥९५५॥
राजशेखरस्य । (सु.र. ४०९)
९७. नायिकाभिलाषः
तिर्यग्वर्तितगात्रयष्टिविषमोद्वृत्तस्तनास्फालन
त्रुट्यन्मौक्तिकमालया सपुलकस्वेदोल्लसद्गण्डया ।
दूरादेव विलोकयेत्यभिमते तद्वक्त्रदत्तेक्षणं
दुर्वारस्मरया तया सहचरी गाढं समालिङ्गिता ॥९५६॥
रुद्रटस्य । (शृ.ति. १.५६अ)
अभिमुखगते यस्मिन्नेव प्रिये बहुशो वदत्य्
अवनतमुखं तूष्णीमेव स्थितं मृगनेत्रया ।
अथ किल वलल्लीलालोकं स एष तथेक्षितः
कथमपि यथा दृष्टा मन्ये कृतं श्रुतिलङ्घनम् ॥९५७॥
तस्यैव । (शृ.ति. १.५६अ)
व्याजृम्भणोन्नमितदन्तमयूखजाल
व्यालम्बिमौक्तिकगुणं रमणे मुदेव ।
ऊर्ध्वं मिलद्भुजलतावलयप्रपञ्च
सत्तोरणं हृदि विशत्यपरा व्युदासे ॥९५८॥
तस्यैव । (शृ.ति. १.५७ब्)
प्रविशति यथा गेहेऽकस्माद्बहिश्च विचेष्टते
वदति च यथा सख्या सार्धं सहासमिहोत्सुका !
दयितवदनालोके मन्दं यथा च चलत्यसौ
मृगदृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥९५९॥
तस्यैव । (शृ.ति. २.७अ)
न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सर्वाण्यङ्गानि मे यान्ति श्रोत्रतां किमु नेत्रताम् ॥९६०॥
अमरोः (अमरु ६३, पद्या.. २३४, स्व. २०३८, शा.प.. ३५२२)
N/A
References : N/A
Last Updated : November 11, 2016
TOP