शृङ्गारप्रवाहः - सुभाषित १२४१ - १२६०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
वसन्ततरवः
मिथः क्रीडालोलभ्रमरभरभग्नाङ्कुररस
प्रेसेकप्रोन्मीलत्परिमलसमालब्धपवनः ।
इतोऽप्येष श्रीमानविरलमिदानीं मुकुलितः
प्रयच्छत्युन्मादानहह सहकारद्रुमयुवा ॥१२४१॥
कस्यचित। (सु.र. १८७)
साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैर्
वाह्लीकीदशनव्रणारुणतरैः पत्रैरशोकोर्चितः ।
भृङ्गीलङ्घितकोटि किंशुकमिदं किंचिद्विवृन्तायते
माञ्जिष्ठैर्मुकुलैश्च पाटलितरोर्वृत्तैव काचिल्लिपिः ॥१२४२॥
राजशेखरस्य । (वि.शा.भ. १.२५, सु.र. १६५)
वह्निर्मन्ये हिमजलभयात्संश्रितः किंशुकेषु
श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः ।
सन्तापार्थं कथमितरथा पान्थसीमन्तिनीनां
पुष्पव्याजाद्विसृजति शिखाश्रेणिमुद्गाढशोणाम् ॥१२४३॥
कस्यचित। (सु.र. १७६ पौतायनेः)
इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः
शिखानामाबन्धः स्फुरति शुकचञ्चूपुटनिभः ।
ततः स्त्रीणां हन्त क्षममधरकान्तिं कलयितुं
समन्तान्निर्याति स्फुटसुभगरागं किसलयम् ॥१२४४॥
वामनस्य ।
परागैरादिग्धाः परिमिलितपिष्टातकनिभैर्
मरुल्लोलच्छाखं मधुपरवगीतं विदधतः ।
पलाशैः काश्मीरारुणवसनकल्पैर्निवसिता
द्रुमा राजन्त्येते मधुदिवसरम्योत्सवभृतः ॥१२४५॥
वसन्तसेनस्य ।
१५५. वसन्तकोकिलः
एते नूतनचूतकोरकघनध्वानातिरेकीभवत्
कण्ठध्वानजुषो हरन्ति हृदयं मध्ये वनं कोकिलाः ।
येषामक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल
ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इव ॥१२४६॥
कस्यचित। (सु.र. १७१)
अद्योन्मीलन्मलयपवनोद्धूतचूतांकुराग्र
ग्रासास्वादादधिकमधुरैरुच्चरद्भिर्निनादैः ।
क्वापि क्वापि स्मरहुतवहोद्दीपनायाध्वगानां
होतुं प्राणानृचमिव पिकः सामिधेनीमधीते ॥१२४७॥
हरेः ।
यश्चूताङ्कुरकन्दलीकवलनात्कर्णामृतस्राविणीं
छायामात्रपरिग्रहेण विदधे पाञ्चेषवीमस्रताम् ।
ताम्यत्तालुविटङ्कसङ्कटदरीसंचारतः पञ्चमः
सोऽयं कोकिलकामिनीगलविलादामूलमुन्मूलति ॥१२४८॥
बिल्हणस्य । (Vच्. ७.७६)
यः शृङ्गाररसायनं मृगदृशां वैरागय्चिन्ताज्वरः
शान्त्युद्वासनडिण्डिमः स्मरगुरोस्तत्त्वोपदेशाक्षरम् ।
उद्भूतस्मरगौरवज्वरभराक्रान्ताध्वनीनाङ्गना
चैतन्यत्रुटिकार्मणं विजयते रागः पिके पञ्चमः ॥१२४९॥
कस्यचित।
ओंकाराः कुसुमायुधोपनिषदां मन्त्रानुवादः स्मर
स्वाध्यायस्य रतेः पुनर्भवविधौ गन्धाभिरामश्रुतिः ।
चित्ताकर्षणसाध्यसिद्धिरसतीनेत्रस्य कर्णज्वरः
पान्थानां सहकारकाननसुधासेकः पिकानां ध्वनिः ॥१२५०॥
ध्वनिः ।
१५६. वसन्तभ्रमरः
आरक्तायतपुष्पबाणनयने स्निग्धाञ्जनश्यामिकां
काश्मीरारुणकर्णिकारकुसुमोत्तंसे महानीलताम् ।
उन्मीलत्तिलकान्तरे मृगमदक्षोदार्द्रबिन्दूपमां
धत्ते मुग्धतमालकान्तिमधुपीवृन्दं वसन्तश्रियः ॥१२५१॥
उमापतिधरस्य ।
पिकत्रोटीदात्रत्रुटितसहकाराग्रमुकुल
स्रुतक्षीरक्षीवप्रसृतपवनान्दोलतरला ।
इदानीं वासन्तीदलितकुसुमामोदमुदित
भ्रमद्भृङ्गश्रेणी रणरणकमन्तर्वितनुते ॥१२५२॥
कालिदासनन्दिनः ।
निरानन्दाः कौन्दे मधुनि परिभुक्तोज्झितरसे
वनेष्वम्भोजानामविकृतसुखेषु प्रतिहताः ।
इदानीं चूतानां मुकुलमधुषु प्रेमसरसा
नवीनेष्वाकूतं दधति परिगाढं मधुलिहः ॥१२५३॥
नवकरस्य ।
मल्लिकामुकुले भाति गुञ्जन्मत्तमधुव्रतः ।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥१२५४॥
कस्यचित। (सा.द. ४.९, शा.प. ३७८६)
अविरलपरागसैकतमकरन्दतरङ्गिणीमनुवनान्तम् ।
पिकयुवतिजानुदध्नीं गाहन्ते मधुपयोषितस्तृषिताः ॥१२५५॥
आवन्तिकजह्नोः ।
१५७. ग्रीष्मः
भुवां घर्मारम्भे पवनचलितं तापहृतये
पटच्छत्राकारं वहति गगनं धूलिपटलम् ।
अमी मन्दाराणां दवदहनसन्देहितधियो
न डौकन्ते पातुः झटिति मकरन्दं मधुलिहः ॥१२५६॥
भवभूतेः (सु.र. २००)
सलिलमखिलं वेशन्तानां लुलापकुलाकुलं
विशति बिसिनीपत्रच्छत्रे रथाङ्गविहङ्गमः ।
निजगजपतिं कुञ्जच्छायां नयन्ति पदे पदे
पृथुवमथुना सिक्त्वा सिक्त्वा करेण करेणवः ॥१२५७॥
कस्यचित।
प्रान्ते पङ्किनि पल्लवस्य विलुठन्पौत्री नयत्यातपांस्
तृष्णालुर्निभृतं ह्रदेषु महिषः शैवालमन्विष्यति ।
आचीर्णौषधिमूलशीतसुरभिश्वासानिलान्दोलयन्
प्रक्षीणोष्मणि लीयते वनगिरिश्वभ्रोदरे शल्लकः ॥१२५८॥
योगेश्वरस्य ।
अम्भोधेर्जलयन्त्रमन्दिरपरिस्पन्देऽपि निद्राणयोः
श्रीनारायणयोर्घनं विघटयन्त्यूष्मा समालिङ्गनम् ।
किं चोत्तप्तवियत्कपालफलके कङ्कालशेषश्रियं
चन्द्रं मर्मरयन्ति पर्पटकरक्रूरा रवेरंशवः ॥१२५९॥
कस्यचित। (सु.र. २१४, नारायणलच्छि)
पाषाणः कुलिशायते पुरपथं संतप्तलोहायते
निर्वातं दहनायते च निविडाङ्गारायते शर्करा ।
एतस्मिंस्तरुणप्रचण्डमहसः प्रौढातपे सर्वतः
क्षोणी शुष्यति बालुका च सरितां वह्निस्फुलिङ्गायते ॥१२६०॥
भवानन्दस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP