शृङ्गारप्रवाहः - सुभाषित १२६१ - १२८०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१५८.
ग्रीष्मवेशः
जलार्द्रं संव्यानं बिसकिसलयैः केलिवलयाः
शिरीषैरुत्तंस्प्विचकित्लमयी हाररचना ।
शुचावेणाक्षीणां मलयजरसार्द्राश्च तनवो
विना तन्त्रं मन्त्रं रतिरमणमृत्युञ्जयविधिः ॥१२६१॥
कस्यचित। (वि.शा.भ. ४.३, सु.र. २१२, राजशेखरस्य)
तोयोत्तीर्णा श्रयति कवरी शेखरं सप्तलानां
शैत्यं सिञ्चत्युपरि कुचयोः पाटलाकण्ठदाम ।
कान्तं कर्णावभिनिविशते कोमलाग्रं शिरीषं
स्त्रीणामङ्गे विभजति तपस्तत्र तत्रात्मचिह्नम् ॥१२६२॥
मधुरशीलस्य । (सु.र. २०९, मधुशीलस्य)
कर्णोत्तंसः शिशुशुकवधूपिच्छलीलं शिरीषं
सान्तःसूत्राः परिमलमुचो मल्लिकानां च हाराः ।
मुक्तागौरैर्वलयरचनाकन्दलाग्रैर्बिसानां
ग्रीष्मारम्भे रमयति नवं मण्डनं कामिनीनाम् ॥१२६३॥
कस्यचित।
अभिनवकुशसूत्रस्पर्धि कर्णे शिरीषं
कुरवकपरिधानं पाटलादाम कण्ठे ।
तनुसरसजलार्द्रोन्मीलितः सुन्दरीणां
दिनपरिणतिजन्मा कोऽपि वेशश्चकास्ति ॥१२६४॥
कमलायुधस्य ।
सद्यश्चम्पककञ्चुका कुचतटी वैकक्षके मल्लिकाः
काञ्च्र्वैचकिली बिसालिवलयाग्रैवेयकं केशरैः ।
चाम्पेयोत्तरपाटला च कवरी कर्णः शिरीषाञ्चितो
वेशश्चेदयमङ्गनासु न तदानङ्गस्य के किङ्कराः ॥१२६५॥
कस्यचित।
१५९. शृङ्गारत्मकग्रीष्मः
तदात्वस्नातानां मलयजरसैरार्द्रवपुषां
कुचान्बिभ्राणानां दरविकचमल्लीमुकुलिनः ।
निदाघार्कप्रोषग्लपितमहिमानं मृगदृशां
परिष्वङ्गोऽनङ्गं पुनरपि शनैरङ्कुरयति ॥१२६६॥
मङ्गलार्जुनस्य । (सु.र. १९२, शा.प. ३८३४)
अपां मूले लीनं क्षणपरिचितं चन्दनरसे
मृणालीहारादौ कृतलघुपदं चन्द्रमसि च ।
मुहूर्तं विश्रान्तं सरसकदलीकाननतटे
प्रियाकण्ठाश्लेषे निविशति पदं शैत्यमधुना ॥१२६७॥
कस्यचित। (सु.र. २०१)
एतस्मिन्घनचन्दनार्द्रवपुषो निद्राकषायेक्षणा
लीलालोलमृदूल्लसद्भुजलताव्याजृम्भमाणा मुहुः ।
निर्गच्छन्ति शनैरहःपरिणतौ मन्दा लतामन्दिरात्
स्वेदाम्भःकणदन्तुरस्तनतटाभोगाः कुरङ्गीदृशः ॥१२६८॥
कालिदासनन्दिनः ।
हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो
यदर्घति करम्बिता शिशिरवारिणा वारुणी ।
भवन्ति च हिमोपमाः स्तनभुवो यदेणीदृशां
शुचेरुपरि संस्थितो रतिपतेः प्रसादो गुरुः ॥१२६९॥
राजशेखरस्य । (वि.शा.भ. ४.४, सु.र. २११)
शुचौ तप्ताङ्गानां बहलमकरन्दद्रवमुचः
कदम्बप्रालम्बाः स्तनपरिसरे पक्ष्मलदृशाम् ।
हठाल्लूनोष्माणः कमपि महिमानं विदधते
जलक्रीडातीर्णप्रियतमभुजाबन्धशिशिराः ॥१२७०॥
कस्यचित।
१६०. दावानलः
आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धते
खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते ।
अन्तर्भ्राम्यति कोटरस्य विरमत्यालम्बते वीरुधः
किं तद्यन्न करोति मारुतवशं यातः कृशानुर्वने ॥१२७१॥
योगेश्वरस्य । (स.क.आ. १.८२, सूक्तिमुक्तावलि ३४.७, वसुन्धरस्य)
विध्वस्ता मृगपक्षिणो विवशतां नीताः स्थलीदेवता
धूमैरन्तरिताः स्वभावमलिनैराशा महीतापिताः ।
भस्मीकृत्य सपुष्पपल्लवफलांस्तांस्तान्महापादपान्
निर्वृत्तेन दवानलेन विहितं वल्मीकशेषं वनम् ॥१२७२॥
तस्यैव (शा.प. ११५९, सूक्तिमुक्तावलि ३४.५, सु.र. १११४. आल्लनोन्य्मोउस्.)
अस्मिन्नीषद्वितत्तवलितस्तोकविच्छिन्नभुग्नः
किञ्चिल्लीलोपचितविनतः पुञ्जितश्चोत्थितश्च ।
धूमोद्गारस्तरुणमहिषस्कन्धोअनीलो दवाग्नेः
स्वैरं सर्पन्सृजति गगने गत्वरान्पत्रभङ्गान॥१२७३॥
बाणस्य । (स.क.आ. १.८५, सु.र. ११७४. Bोथनोन्य्मोउस्.)
बाले मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां
किं तत्पक्ष्मान्तपातैर्मलिनयसि मुधा वक्त्रमश्रुप्रवाहैः ।
एषा प्रोद्धृत्तमत्तद्विपकषणक्षुण्णविन्ध्योपलाभा
दावाग्नेः सम्प्रवृद्धा मलिनयति दिशां मण्डलं धूमलेखा ॥१२७४॥
कस्यचित। (स.क.आ. २.२०३, शा.प. ३८२९ धाराकदम्बस्य)
दिशः प्रोद्यत्संध्यागगनतलमुद्रक्तकुसुमं
तरूनाबद्धोरुस्तवकविकसत्किंशुकलतान।
विलोलत्कौसुम्भध्वजपटसमाश्लिष्टशिखराः
प्रकुर्वन्वंशालीर्विकसति महीध्रेषु दहनः ॥१२७५॥
कस्यचित।
१६१. वर्षारम्भः
नेतुं वाञ्छति नीड एव दिवसं गर्भालसा वायसी
रक्तो नीपलतासु भुक्तविरसामुज्झत्यलिः पाटलम् ।
तेजः सम्प्रति संहरन्ति शिखिनो दग्धव्यापारं गता
जम्बूमाम्रवनादुपैत्शनकैरासन्नपाकां पिकः ॥१२७६॥
अभिनन्दस्य ।
स्थलीभूमिर्निर्यन्नवकतृणरोमाञ्चनिचय
प्रपञ्चैः प्रोन्मीलत्कुटजकलिकाजृम्भितशतैः ।
घनारम्भे प्रेयस्युपगिरि गलन्निर्झरजल
प्रणालप्रस्वेदैः कमपि मृदुभावं प्रथयति ॥१२७७॥
नरसिंहस्य ।
वातोद्धूर्तरजोमिलज्जललवैरुच्चित्रिताः शाखिनश्
छत्रीकृत्य मृदां त्वचः स्थलभुवो निर्यन्ति शष्पाङ्कुराः ।
स्निग्धश्यामलकण्ठनालवलनव्यालोकिताम्भोमुचः
केकाभिः ककुभां मुखानि शिखिनो वाचालयन्त्युत्सुकाः ॥१२७८॥
अरविन्दस्य ।
किंचिन्मुद्रितपांशवः शिखिकुलैः सानन्दमालोकिता
भग्नावासरुदहरिद्रगृहिणी श्वासानिलजर्जराः ।
एते ते निपतन्ति नूतनघनात्प्रावृड्भवारम्भिणो
विच्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः ॥१२७९॥
कस्यचित। (शा.प. ३८७२)
वर्षारम्भसमुन्नमद्घनघटागर्जाभिरुत्त्रस्यता
ग्रीष्मेणापसृतं क्वचित्क्वचिदपि न्यस्तानि वस्तून्यपि ।
धूलिः केतककुड्मले विरहिणीचेतःसु दावानलः
खद्योतभ्रमिषूडुचक्रमरुणज्योतिस्तडिद्वल्लिषु ॥१२८०॥
कस्यचित।
N/A
References : N/A
Last Updated : November 11, 2016
TOP