संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ५२१ - ५४०

शृङ्गारप्रवाहः - सुभाषित ५२१ - ५४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१०. गर्भिणी

आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थली
सव्यापारपरिश्लथे च नयनेऽनुत्साहमुग्धं वपुः ।
श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितो
जातान्यैव मनोहराकृतिरहो गर्भोदये सुभ्रुवः ॥५२१॥

कालिदासनन्दिनः ।

हारिद्रमम्बरमुपान्तनिबद्धचक्रम्
एकं कुलस्थितिवशाद्दधती प्रियासौ ।
तत्कालमङ्गलसमाचरणप्रयत्न
व्यासिद्धकेलिरपि मङ्गमातनोति ॥५२२॥

तस्यैव ।

मृदासक्ता हृद्यं स्थगयति मुखं चुम्बति मयि
स्तनौ पाण्डुश्यामौ मम करतलादाक्षिपति च ।
कृते गर्भालापे विशदहसितं रक्षति रुषा
प्रिया सर्वाकारं विशति हृदयं वल्लभतया ॥५२३॥

कर्णाटदेवस्य ।

अलसमधुरा स्निग्धा दृष्टिर्घनत्वमुपागता
किसलयरुचिर्निस्ताम्बूलस्वभावधरोधरः ।
त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः
प्रकृतिसुभगा गर्भेणासौ किमप्युपपादिता ॥५२४॥

तस्यैव ।

परिणतशरकाण्डा पाण्डुरा गण्डभित्तिः
कुचकलसमुखश्रीः कालिमानं दधाति ।
व्यपनतकृशभावं पीनतामेति मध्यं
वपुरतिशयगौरं गर्भमाविष्करोति ॥५२५॥

पशुपतिधरस्य ।

११. कुलस्त्री

कुर्वीथाः श्वशुरस्य भक्तिमधिकां श्वश्र्वाश्च पादानतिं
स्नेहं भृत्यजने प्रतीच्छ रभसाद्द्वारागतान्बान्धवान।
भर्तारं सुखदुःखयोरविकृतप्रेमानुबन्धोदया
गेहे वा विपिनेऽपि वा सहचरीवृत्तेन नित्यं भज ॥५२६॥

कालिदासनन्दिनः ।

न नयति बहुमानस्यास्पदं स्निग्धबन्धून्
न च गुणिनि समृद्धेऽप्यादरं याति ताते ।
न भजति धृतिमन्तर्नन्दनेऽप्यन्तरात्मा
भवति हि पतिनिष्ठं प्रेम साध्वीजनस्य ॥५२७॥

उमापतिधरस्य ।

अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता
तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् ।
सुप्ते तत्र शयीत तत्प्रथमतो  जह्याच्च शय्यामिति
प्राच्यैः पुतिर्निवेदिताः कुलवधूसिद्धान्तधर्मा अमी ॥५२८॥

राजशेखरस्य । (बा.रा. ४.४३)

शिरो यदवगुण्ठितं सहजरूढलज्जानतं
गतं च परिमन्थरं चरणकोटिलग्ने दृशौ ।
वचः परिमितं च यन्मधुरमन्दमन्दाक्षरं
निजं तदियमङ्गना वदति नूनमुच्चैः कुलम् ॥५२९॥

क्षेमीश्वरस्य ।

शुश्रूषस्व गुरून्कुरु प्रियसखिवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥५३०॥

कालिदासस्य । (Sःअक्. ४.१८, सूक्तिमुक्तावलि ११८.१)

१२. असती

सिकतिलतलाः सान्द्रच्छायास्तटान्तविलम्बिनः
शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः ।
अविनयवतीनिर्विच्छेदस्मरव्ययदायिनः
कथय मुरले केनामी ते कृता निचुलद्रुमाः ॥५३१॥

विद्यायाः । (सु.र. ८०९)

पत्युः केलिभिरस्थिषु च्छिदुरता मर्मक्षतिर्नर्मणा
शृङ्गारेण गुरुव्यथा समुदयत्युच्चाटनं चाटुभिः ।
ध्यायन्त्याः सततोत्सुकेन मनसा नीरन्ध्रवानीरिणीर्
आकौमारमुपास्यमानमुरलासीमाभुवः सुभ्रुवः ॥५३२॥

उमापतिधरस्य ।

यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्
ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कणंहते ॥५३३॥

कस्यचित। (सु.र. ८१५; शा.प. ३७६८; सूक्तिमुक्तावलि ८७.९; Sद्१.२, पद्या. ३८२, CःCः २.१.५८, २.१३.१२१, ३.१.७८.)

दावालीढकलेवरे विटपिनि प्राप्तोद्गमानङ्कुरान्
अग्रे पल्लवितैर्मनोभिरचिराच्चेतोभुवा नर्तिताः ।
सानन्दाश्रु विलोकयन्ति कलितस्वेदं स्पृशन्त्यादराद्
उत्कम्पाङ्गुलि दर्शयन्ति मदनक्रीडामहस्मारिणः ॥५३४॥

जलचन्द्रस्य ।

तस्याः सम्प्रति वासरक्रमनमत्तोये तमालातटे
साकूतं निपतन्ति वेतसलताकुञ्जोदरे दृष्टयः ।
सोत्कम्पस्खलितांशुकस्तनतटं सोल्लासकाञ्चीगुण
ग्रन्थिन्यस्तचलाङ्गुलीकिसलयं स्वेदार्द्रहस्ताम्बुजम् ॥५३५॥

चण्डालचन्द्रस्य ।

१३. कुलटोपदेशः

वयं बाल्ये बालांस्तरुणिमनि यूनः परिणताव्
अपीच्छामो वृद्धांस्तदिह कुलरक्षा समुचिता ।
त्वयारब्धं जन्म क्षपयितुमनेनैकपतिना
न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत॥५३६॥

विद्यायाः । (स.क.आ. ३.१६३, शा.प. ३७६१)

उन्मीलद्यौवनासि प्रियसखि विषमाः श्रेणयो नागराणां
तस्मात्कोऽपि त्वयाद्य प्रभृति न सहसा संमुखं वीक्षणीयः ।
यावच्चन्द्रार्कमेकः पतिरतिशयितश्रद्धया सेवितव्यः
कर्तव्या रूपरक्षा वचसि न हृदयं देयमस्मद्विधानाम् ॥५३७॥

शरणस्य ।

आराध्यः पतिरेव तस्य च पदद्वन्द्वानुवृत्तिर्व्रतं
केनैताः सखि शिक्षितासि विपथप्रस्थानदुर्वासनाः ।
किं रूपेण न यत्र मज्जति मनो यूनां किमाचार्यकैर्
गूढानङ्गरहस्ययुक्तिषु फलं येषां न दीर्घं यशः ॥५३८॥

तस्यैव ।

अस्माकं व्रतमेतदेव यदयं कुञ्जोदरे जागरः
शुश्रूषा मदनस्य वक्त्रमधुभिः सन्तर्पणीयोऽतिथिः ।
निस्त्रिंशाः शतशः पतन्तु शिरसश्छेदोऽथवा जायताम्
आत्मीयं कुलवर्त्म पुत्रि न मनागुल्लङ्घनीयं त्वया ॥५३९॥

वैद्यगदाधरस्य ।

कुलोत्कर्षात्स्नेहात्कमितुरथवा पातकभयात्
सखि श्रद्धा ते स्याद्यदि विनयमालम्बितुमपि ।
किमेभिर्दातव्यं परिकलयं शिप्रातटरुहां
करञ्जानां कुञ्जैरविनयवतीनर्मनिपुणैः ॥५४०॥

डिम्बोकस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP