शृङ्गारप्रवाहः - सुभाषित १२८१ - १३००
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१६२. वर्षाः
कामं कूले नदीनामनुगिरि महिषीयूथनीडोपकण्ठे
गाहन्ते शष्पराजीरभिनवशलभग्रासलोला बलाकाः ।
अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित्
कापोतं कोद्रवाणां कवलयति कणान्क्षेत्रकोणैकदेशे ॥१२८१॥
योगेश्वरस्य ।
एतस्मिन्मदजर्जरैरुपचिते कम्बूरवाडमबरैः
स्तैमित्यं मनसो दिशत्यनिभृतं धाराधरे मूर्च्छति ।
उत्सङ्गे ककुभो निधाय रसितैरम्भोमुचां घोरयन्
मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते ॥१२८२॥
वातोकस्य । (सु.र. २२९)
स्मरविजयपदाङ्कं मत्तदात्यूहकण्ठ
स्फुटितमधुरकूजा गीतयः संचरन्ति ।
अपि च विततबर्हच्छत्रमुद्भूतपत्रं
नटति घननिनादोत्कण्टितो नीलकण्ठः ॥१२८३॥
भवानन्दस्य ।
व्याप्तं वारिधरैरकाण्डमुदितैः कृत्स्नं वियन्मण्डलं
नाक्ष्णोर्वर्त्मनि शीतदीधितिरसौ नापि त्विषामीश्वरः ।
भग्नावेव मलीमसैः किमधुना निर्मातुमर्थान्तरं
यत्सान्द्रं करकाः पतन्ति यदमी मुञ्चन्ति विद्युच्छटाः ॥१२८४॥
वातोकस्य ।
सामोदा बकुलैः कदम्बमुकुलैः प्रीत्येव रोमाञ्चिता
नीरन्ध्रं पिहिताः प्योदपटलैः श्यामोत्तरीय इव ।
दूरीकृत्य च नूपुराविव रिपून्हंसान्समुत्कूजतो
याताः क्वाप्यभिसारिका इव दिशो मेघागमे सोत्सुकाः ॥१२८५॥
कस्यचित।
१६३. वर्षामेघः
त्रैलोक्याधिपतौ फणीन्द्रशयने निद्राति दैत्यद्रुहि
प्राप्य प्रावृषमन्धकाररजनीं प्रत्याशमायोजिताः ।
विद्युद्दीधितिदीपिकाभिरभितः संशोधयन्तो दिशां
भित्तीर्जाग्रति यामिका इव धनुष्मन्तः स्वनन्तो घनाः ॥१२८६॥
ओंकण्ठस्य ।
क्षपां क्षामीकृत्य प्रसभमपहृत्याम्बुसरितां
प्रताप्योर्वीं वनतरुगहनमुत्साद्य सकलम् ।
क्व सम्प्रत्युष्णांशुर्गत इति समन्वेषणपरास्
तडिद्दीपालोकैर्दिशि दिशि चरन्तीव जलदाः ॥१२८७॥
ओंकण्ठस्य । (सु.र. २५१ कस्यचित्, शा.प. ३८६९, सूक्तिमुक्तावलि ६१.१८ बोथ्पाणिनेः)
निपीय स्वच्छन्दं जलमुदरपूरं भववशाद्
विषण्णोऽतिक्लेशात्क्षितिधरशिलालम्बितवपुः ।
मुहुर्विद्युद्वल्लीवलितरसनो निस्वनमिषाद्
भृशारब्धोद्गारं वमति जलभारं जलधरः ॥१२८८॥
जलचन्द्रस्य ।
व्याप्यान्तरीक्षककुभाव नुभूभृदग्रं
सान्द्रान्धकारगहनासु निशासु गर्जन।
संवीक्षते विरहिणः क इह ध्रियन्ते
वर्षासु विद्युदुरुदीपिकयेव मेघः ॥१२८९॥
लोष्टसर्वज्ञस्य ।
असौ नास्तीवेन्दुः क्वचिदपि रविः प्रोषित इव
ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितमिव ।
अहर्वा रात्रिर्वा द्वयमपि विलुप्तप्रविचयं
घनैर्बद्धव्यूहैः किमिदमिति घोरं व्यवसितम् ॥१२९०॥
कस्यचित। (सु.र. २६२)
१६४. वर्षानदी
दात्यूहध्वनिभाञ्जि वेतसशिखासुप्तोरगाणि ध्वनत्
कादम्बानि कुरङ्गयूथकलितस्तूपान्युदम्भांसि च ।
तीराण्यद्य पिपीलिकासमुदयावर्जज्जटालोलुप
व्याप्तान्युन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः ॥१२९१॥
योगेश्वरस्य । (सु.र. २२१)
एताः पङ्किलकूलरूढनलदस्तम्भाः क्वणत्कम्बवः
क्रीडत्कर्कटचक्रवालविलसज्कम्बालतोयाबिलाः ।
हृल्लेखं जनयन्त्यनूपसरितामुत्तुण्डगण्डूपदो
त्कीर्णोद्गीर्णा मृदर्बुदस्थपुटितप्रान्तास्तटीभूमयः ॥१२९२॥
परमेश्वरस्य । (सु.र. २५४)
विरतरजसां स्फूर्जत्सर्जप्रसूनसुगन्धिनी
मदवशलसत्केकिक्वाणप्रणादितसानुनी ।
अपहृतवनोद्देशोन्मेषास्तरङ्गितरंहसो
विदधति तटे भूभृन्नद्यः क्वणज्जलरङ्कुणी ॥१२९३॥
कापालिकस्य ।
निदाघद्राघीयः क्लमकमठकण्ठाकुलभिदाम्
इदानीमुद्देशाः प्रतिपुलिनमर्घन्ति सरिताम् ।
समन्तादुन्मीलन्नवनिचुलकुज्जेषु रभसा
दवस्फारक्रीडासुखमुखरदात्यूहसुहृदः ॥१२९४॥
हरेः ।
इह गुरुजलभारपूर्णगर्भाः
प्रदरदरीभ्रमभूरिभीमवेगाः ।
तटकटकनियुध्यमानवेणी
द्विगुणमहारवभैरवास्तटिन्यः ॥१२९५॥
त्रिपुरारेः ।
१६५. वर्षादिवसः
तान्येतानि शिखण्डिताण्डवगुरूनम्भोधरानम्बरे
तन्वानानि दिनानि नूनममृतस्यन्दीनि वन्दामहे ।
उद्गाढा नवनीलनीरजदृशामत्यन्तमायासिनो
भिद्यन्ते स्वयमेव येषु विषमा मानग्रहग्रन्थयः ॥१२९६॥
कस्यचित।
हस्तप्राप्यदिशः प्रगाढजलदप्राग्मारसंकोचित
व्योमानः पतयालुभिर्धनरसैराकीर्णभूमण्डलाः ।
अद्योद्दामनदन्नवाम्बुदचयप्रच्छन्नकीर्णोदर
क्रूराः पान्थवधूभिरद्भुतममी सोढाः कथं वासराः ॥१२९७॥
कस्यचित।
एते ते दिवसा वियोगिगुरवः पूरोल्लसत्सिन्धवो
विन्ध्यश्यामपयोदनीलनभसो नीपार्जुनामोदिनः ।
आसन्नप्रसवालसां सहचरीमालोक्य नीडार्थिनीं
चञ्चुप्रान्तकिलिञ्जसंचयपरः काकोऽपि येष्वाकुलः ॥१२९८॥
रन्तिदेवस्य ।
एते कर्बुरितातपास्तत इतः संजायमानाम्बुद
च्छेदैः संप्रति केतकीदलमिलद्दर्भातिथेयोदयाः ।
ग्रामान्तोद्गतशालिबीजयवसाश्लेषप्रहृष्यन्मनो
गोवाहायतगीतिगर्भितदिशो रम्याः सखे वासराः ॥१३००॥
कस्यचित।
N/A
References : N/A
Last Updated : November 11, 2016
TOP