शृङ्गारप्रवाहः - सुभाषित १०४१ - १०६०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
११४. नायिकागमनम्
शय्यागारं व्रजन्त्याश्चतुरसहचरीमुग्धोक्तिमिश्रं
प्राणेशायाः स्मरज्यारणितमिव समाकर्ण्य मञ्जीरघोषम् ।
यामिन्याः पूर्वयामे विगलति विततौत्सुक्यमुज्जृम्भमाणो
धन्यो निद्राच्छलेन श्लथयति सुहृदां नर्मगोष्ठीप्रबन्धम् ॥१०४१॥
विक्रमादित्यस्य ।
नितम्बगुर्वी बहुशः श्रमेण
विश्रम्य सोपानपदेषु काचित।
काञ्चीकरालम्बितवामपाणिर्
उत्थाय हर्म्यं कलयारुरोह ॥१०४२॥
राजशेखरस्य ।
एषागतैव निबिरीसनितम्बबिम्ब
भारेण पक्ष्मलदृशः क्रियते तु विघ्नः ।
यान्त्या इतीव दयितान्तिकमेणदृष्टेर्
अग्रे जगाम गदितुं लघुचित्तवृत्तिः ॥१०४३॥
रत्नाकरस्य ।
प्रकामं सुप्रातं तव नयन संपन्नमभितस्
तवाप्याप्तं चेतः फलमिह मनोराज्यलतया ।
स्मरायासप्रोषप्रशमविधिसिद्धौषधिरियं
स्फुरन्ती संप्राप्ता शशधरकलेव प्रियतमा ॥१०४४॥
कस्यचित।
चेतः कातरतां जहीहि सपदि स्थैर्यं समालंव्यताम्
आयाता स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी ।
यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण
क्रीडाचञ्चलपाणिकङ्कणझणत्कारो मुहुर्मूर्च्छति ॥१०४५॥
कस्यचित। (सूक्तिमुक्तावलि ७०.८, सु.र. १६४१)
११५. नायकागमनम्
संकीर्णं शयनीयमर्पय कुरु द्वेधोपधानक्रियाम्
अभ्यासे कुरु तालवृन्तकमिति व्यापारयन्त्या सखीम् ।
आयातस्य पुनर्विलासभवनं कन्दर्पदीक्षागुरोर्
अभुत्थानमपि प्रमोदजडया नाविष्कृतं सुभ्रुवा ॥१०४६॥
जलचन्द्रस्य ।
द्वारागतं काप्यवगम्य कान्तम्
उन्नम्य वक्त्रं सिचयाञ्चलेन ।
विमुञ्चती मण्डनकर्मदीर्घं
यथायथात्मानमलंचकार ॥१०४७॥
राजशेखरस्य ।
काप्यागतं वीक्ष्य मनोधिनाथं
समुत्थिता सादरमासनाय ।
करेण शिञ्जद्वलयेन तल्पं
आस्फालयन्ती कलमाजुहाव ॥१०४८॥
तस्यैव ।
प्रियतममवलोक्य स्वाशरयादुत्पतन्त्याः
सरभसमपरस्याः पादमूले सलीलम् ।
अपतदथ कराग्रादच्छरत्नात्मदर्शः
शशधर इव वक्त्रच्छायया निर्जितश्रीः ॥१०४९॥
कस्यचित।
द्वार्पान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समापादितम् ।
आनीतं पुरतः शिरोंशुकमधः क्ÿप्ते चले लोचने
वाचस्तच्च निवारितं प्रसरणं संकोचिते दोर्लते ॥१०५०॥
कस्यचित।
११६. वाद्यम्
पुरन्ध्रीणां पीनैस्तुलितपरिणाहस्तनतटैर्
द्रुतं संमृज्यन्तां करकिसलयैर्झर्झरपुटाः ।
कलं गुञ्ज मुग्धं पिबतु मधुदिग्धाधरदलं
मुखं नीलो वेणुः कमलमिव माला मधुलिहाम् ॥१०५१॥
विशाखदत्तस्य ।
धत्ते व्यक्तिं रसितमसकृज्जर्जरं झर्झराणां
स्तोकोत्तुङ्गध्वनितलहरीभेरिका नानदीति ।
धीरैः स्निग्धैः करकिसलयैराहताः किन्नराणां
शब्दायन्ते नवघनघटामन्द्रनादं मृदङ्गाः ॥१०५२॥
उमापतिधरस्य ।
नान्तःकर्षन्ति केषां कृतपदरचनैः पामरग्रामनारी
वक्षोजोत्तुङ्गतुम्बीफलनिहतमृदूत्सर्पिगम्भीरशब्दैः ।
उद्गीताः शृङ्गकोटीस्थगितकरशिखालोलकल्लोलवीणा
तन्त्रीक्वाणानुरूपध्वनिभिरभिनयव्याहृताः काव्यबन्धाः ॥१०५३॥
कस्यचित।
वक्षोजाभोगगुर्वोर्मुखरयति युगं कांस्ययोः कापि कान्ता
प्रयोदत्तव्रणालीविधुरितमधुरं वेणवे कापि दत्ते ।
काचित्कृत्वाङ्गभङ्गं प्रसृतमुदमिव स्निग्धमुग्धप्रणादं
वारं वारं कराभ्यां प्रहरति मुरजं गीतसंवादरम्यम् ॥१०५४॥
कालिदासनन्दिनः ।
वीनया च निनदेन च वेणोः
केकया च फलकण्ठगिरा च ।
शीत्कृतैश्च रणितैश्च वधूनां
भुञ्जते श्रुतिसुखानि युवानः ॥१०५५॥
राजशेखरस्य ।
११७. नृत्यम्
रम्यं गायतु वा तरङ्गयतु वा व्यावर्तनैर्भ्रूलते
व्यालोलं नयनं च नर्तयतु वा क्षुण्णः स एष क्रमः ।
शृङ्गारं पुनरातनोति मधुरव्यावर्तना नर्तकी
प्रत्यङ्गं रसपेशलानि करणान्याधाय यन्नृत्यति ॥१०५६॥
प्रियंवदस्य ।
विलोला भ्रूवल्ली मसृणतरला दृष्टिरधरः
स्मितस्निग्धो धीरा गतिरलसमेवाङ्गचलनम् ।
स्वभावप्रव्यक्तोन्नतनतविभागा तनुलता
विभावो लास्येन स्फुरति कतरोऽस्या मृगदृशः ॥१०५७॥
उमापतिधरस्य ।
वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामा विटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृत्यादस्याः स्थितमतितरां कान्तं ऋज्वायतार्घम् ॥१०५८॥
कालिदासस्य । ((ंआलविकाग्निमित्र २.६)
अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ
भावो भावं नुदति विषयाद्रागबन्धः स एव ॥१०५९॥
तस्यैव । (ंआलविकाग्निमित्र २.८; सूक्तिमुक्तावलि १०९.७३)
ननृतुरनतिखेदं कौशिकीवृत्तिचञ्चच्
चटुलचरणचारीचारुचित्राङ्गहावाः ।
निजहृदयनिमज्जन्मारनाराचसाची
कृतवदनविनिद्राम्भोजभाजो युवत्यः ॥१०६०॥
हरेः ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP