संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ९२१ - ९४०

शृङ्गारप्रवाहः - सुभाषित ९२१ - ९४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


९०. प्रस्थानभङ्गः

प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा
किमुत सकले जाते वाह्निप्रिय त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥९२१॥

[अमरु १२; सु.र. ५३२, Sभ्१०४८, शा.प. ३३८९, सूक्तिमुक्तावलि ३७.७]

लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपिता
नो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः ।
काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठः
तन्व्या बाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः ॥९२२॥

[अमरु ६२, Sभ्१०५७, शा.प. ३३८८, सूक्तिमुक्तावलि ३७.५]

मा याहीति निवारणं न च कृतं नैवावधिर्याचितो
नो बाष्पाखुकणावलीमलिनतां नीता कपोलस्थली ।
अर्घ्यव्याजमुपेतया दयितया संप्रस्थितस्याद्य मे
यात्राभङ्गकरी करे विनिहिता चौती नवा मञ्जरी ॥९२३॥

कस्यचित।

दूरं सुन्दरि निर्गतासि भवनादेष द्रुमः क्षीरवान्
अस्मादेव निवर्त्यतामिति शनैरुक्ताध्वगेन प्रिया ।
तस्या मन्युभरोच्छ्वसत्कुचयुगाभोगस्फुटत्कञ्चुकं
वीक्ष्योरःस्थलमश्रुपूरितदृशा प्रस्थानभङ्गः कृतः ॥९२४॥

तरणिनन्दिनः । (स्व. १०६३, शा.प. ३३९०)

यामीत्युक्तवति व्रजेत्यभिहितं त्रस्तं विमुक्तासने
द्वित्राण्येव पदानि गच्छति गलद्बाष्पान्धमालोकितम् ।
निर्याते दयितेऽश्रुपूरितदृशा तन्मुग्धयानुष्ठितं
व्यासेधस्थितिपत्रकं प्रवसतां यज्जातमाजन्मनः ॥९२५॥

कस्यचित।
९१. विरही

प्रहर्ता क्वानङ्गः स च कुसुमचापोऽल्पविशिखश्
चलं सूक्ष्मं लक्ष्यं व्यवहितममूर्तं क्व च मनः ।
इतीमामुद्भूतां स्फुटमनुपपत्तिं मनसि मे
रुदामाविर्भावादनुभवविरोधः शमयति ॥९२६॥

मृगराजस्य । (सु.र. ७८५)

त्वं तस्यां यदि नाम रागविधुरं जातं विमुच्यैव मां
तत्केनाहमिदं किमप्यनुभवाम्यन्तःसमुत्कण्ठितः ।
स्वस्थीभूय ननु क्षणं हृदय हे सद्भावमाचक्ष्व मां
किं सन्तापविखण्डितस्य भवतो वृत्तिर्द्विधा वर्तते ॥९२७॥

अवन्तिवर्मणः । (स्व. १३४८)

अप्येतद्रजनीमयं जगदथो निद्रामयी सा निशा
निद्रा स्वप्नमयी भवेदथ च स स्वप्नो मृगाक्षीमयः ।
सेयं मानमयी मम प्रियतमा तच्चाटुचेष्टामयो
मादृक्क्वेति समीहितैकविधये संकल्प तुभ्यं नमः ॥९२८॥

गोतिथीयदिवाकरस्य ।

सङ्गमविरहविकल्पे
वरमिह विरहो न तु सङ्गमस्तस्याः ।
सङ्गे सैव तथैका
त्रिभुवनमपि तन्मयं विरहे ॥९२९॥

धर्मकीर्तेः । (पद्या.. २३९, सा.द. उन्देर्१०.५२)

विकल्परचिताकृतिं सततमेव तां वीक्षसे
सहासमभिभाषसे समुपगूहसे सर्वथा ।
प्रमोदमुकुलेक्षणं पिबसि चैतदस्या मुखं
तथापि च दिवानिशं हृदय हे सौमुत्कण्ठसे ॥९३०॥

भर्वोः । (स्व. १३२९)

९२. विरहिप्रियास्मरणम्

ललितललितस्निग्धालापस्मितस्नपिताधरं
दरमुकुलितापाङ्गद्रोणीतरङ्गितलोचनम् ।
इदमित इतः पश्यन्नेव प्रियामुखपङ्कजं
किमपि वदनाद्वैतं साक्षात्करोमि मृगीदृशः ॥९३१॥

अभिमन्योः ।

मुखं ज्योत्स्नालोकप्रसरधवलाक्षं क्व नु मया
पुनर्द्रष्टव्यं तत्स्मितमधुरमुग्धाल्पदशनम् ।
क्व सा श्रव्या वाणी विजितकलहंसीकलरुता
विलासा वीक्ष्यन्तां क्व च सहभुवो धीरललिताः ॥९३२॥

कर्णाटदेवस्य ।

अपि स दिवसः किं स्याद्यत्र प्रियामुखपङ्कजे
मधु मधुकरीवास्मद्दृष्टिर्विकासिनि पास्यति ।
तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः
सुरतसचिवैरङ्गैः सङ्गो ममापि भविष्यति ॥९३३॥

वार्तिककारस्य । (सु.र. ७७७)

भ्रश्यद्विवक्षितमपस्खलदक्षरार्थम्
उत्कम्पमानदशनच्छदमुच्छ्वसन्त्या ।
अद्य स्मरामि परिमृज्य पटाञ्चलेन
नेत्रे तया किमपि यत्पुनरुक्तमुक्तम् ॥९३४॥

सोल्लोकस्य । (सु.र. ७८७)

स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं
स्रवत्स्वेदक्लिन्नं सुरतविरतिक्षामनयनम् ।
कचाकर्षक्रीडासरलधवलश्रोणिसुभगं
कदा तद्द्रष्टव्यं वदनमवदातं मृगदृशः ॥९३५॥

कस्यचित। (सु.र. ७८१)

९३. विलोकनम्

क्रमसरलितकण्ठप्रक्रमोल्लासितोरस्
तरलितबलिरेखासूत्रसर्वाङ्गमस्याः ।
स्थितमतिचिरमुच्चैरग्रपादाङ्गुलीभिः
करकलितसखीकं मां दिदृक्षोः स्मरामि ॥९३६॥

कालिदासस्य । (वि.शा.भ. ३.३, सु.र. ५२३)

तत्तस्य निःश्वासकृतानुयात्रैः
सलीलमाकुञ्चितपक्ष्मपत्रैः ।
नेत्रद्विरेफैर्वदनारविन्दम्
आस्वादयन्त्यो लिलिहुस्तरुण्यः ॥९३७॥

कस्यचित।

भवनभुवि सृजन्तस्तारहारावतारान्
दिशि दिशि विदिशन्तः केतकानां कुटुम्बम् ।
वियति च रचयन्तश्चन्द्रिकां मुग्धमुग्धां
प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति ॥९३८॥

राजशेखरस्य । (वि.शा.भ. ४.१७, सु.र. ५२१)

तरत्तारं तावत्प्रथममथ चित्रार्पितमिव
क्रमादेवापाङ्गं सहजमिव लीलामुकुलितम् ।
ततः किंचित्क्षुण्णं तदनु घनबाष्पाम्बुलहरी
परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः ॥९३९॥

वीर्यमित्रस्य । (सु.र. ४६७, सूक्तिमुक्तावलि ४३.१२)

यद्व्रीडाभरभुग्नमास्यकमलं विन्यस्य जानूपरि
प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः ।
हास्यश्रीलवलाञ्छिता च यदसावस्याः कपोलस्थली
लोलल्लोचनगोचरं व्रजति स स्वर्गादपूर्वो विधिः ॥९४०॥

प्रद्युम्नस्य । (सु.र. ४७०)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP