संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ६८१ - ७००

शृङ्गारप्रवाहः - सुभाषित ६८१ - ७००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४२. कलहान्तरितासखीवचनम्

अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्
त्वयाकाण्डे मानः किमिति सरले प्रेयसि कृतः ।
समाकृष्टा ह्येते विरहदहनोद्भासुरशिखाः
स्वहस्तेनाञ्गारास्तदलमधुनारण्यरुदितैः ॥६८१॥

अमरोः (अमरु ६६; Sभ्व्११७०; सूक्तिमुक्तावलि ५६.९, सु.र. ६५९)

मया प्रागेवोक्तं कलहवति मा त्याजय गुणं
भयेस्तु प्रेयांस्ते स्वकरवशगं मुञ्चसि मुधा ।
अवाप्तो वैलक्ष्यं शर इव पुनर्नैति तदयं
स्वयं गत्वानेयः प्रियसखि कराकर्षविधिना ॥६८२॥

आचार्यगोपीकस्य ।

श्रवसि न कृतास्ते तावन्तः सखीवचनक्रमा
श्चरणपतितोङ्गुष्ठाग्रेणाप्ययं न हतो जनः ।
कठिनहृदये मिथ्यामौनव्रतव्यसनादयं
परिजनपरित्यागोपायो न मानपरिग्रहः ॥६८३॥

कस्यचित। (सु.र. ६८७)

जघनमुन्नतमाकुलमेखलं
मुखमपाङ्गविसर्पिततारकम् ।
इदमपास्य गतो यदि निर्घृणो
ननु वोरोरु स एव हि वञ्चितः ॥६८४॥

कस्यचित। (स्व११६८)

सखि न गणिता मानोन्मेषात्प्रियप्रणयक्षतिः
परमिह सखीवर्गस्येदं वचो न पुरस्कृतम् ।
उदयशिखरारूढे नायं कलानिधिना बलात्
किमिति शिथिलो मानग्रन्थिः करैर्न करिष्यते ॥६८५॥

जलचन्द्रस्य ।
४३. गोत्रस्खलितम्

पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो
गता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥६८६॥

अमरोः (अमरु ४६)

कृथा मैवं चेतः कथमपि मनागस्खलदितः
प्रमादाद्वाणीयं किमिह करवाणि प्रणयिनि ।
वृथैवायं ग्रन्थिर्झणझणितमञ्जीररणितं
ततस्त्वत्पादाब्जं यदिदमवतंसो भवतु मे ॥६८७॥

नरसिंहस्य ।

अर्धोक्ते भयमागतोऽसि किमिदं कण्ठश्च किं गद्गदश्
चाटोरस्य न च क्षणोऽयमनुपक्षिप्तेयमास्तां कथा ।
ब्रूहि प्रस्तुतमस्तु संप्रति महत्कर्णे सखीनां मुखैस्
तृप्तिर्निर्भरमेभिरक्षरपदैः प्रागेव मे संभृता ॥६८८॥

अभिनन्दस्य । (सूक्तिमुक्तावलि ५७.२६)

कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे  
विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम् ।
असहनसखीश्रोत्रप्राप्तिं विशङ्क्य ससंभ्रमं  
विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥६८९॥

कस्यचित। (आस्६३)

दूरादेत्य दृशा निवार्य च सखीरुत्क्षिप्तदोःकङ्कण
श्रोणिः सप्रणया पिधाय नयनद्वन्द्वं तवावस्थिता ।
ज्ञातासीति विपक्षनाम गदता सम्भाविता सा त्वया
जीवत्येव यदि त्वरां त्यज ननु त्वामेव याचिष्यते ॥६९०॥

आचार्यगोपीकस्य ।

४४. मानिनी

बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥६९१॥

अमरोः (अमरु ५३; द.रू. २.१७; स्व१६१४, शा.प. ३५५४, सूक्तिमुक्तावलि ५७.१, सु.र. ६५३)

एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद्दूरतस्
ताम्बूलानयनच्छलेन रभसाशेल्षोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥६९२॥

तस्यैव (अमरु १७, सु.र. ६३९, स्व१५८३, शा.प. ३५३४, सूक्तिमुक्तावलि ५५.६, द.रू. २.१९, ऱस्क्२.६७ग्)

आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्
व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
मय्यालापवति प्रतीपवचनं सख्या सहाभाषते
तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥६९३॥

तस्यैव (स्व. १५९०, शा.प. ३५३७, सूक्तिमुक्तावलि ५५.११)

धूमायते मनसि मूर्च्छति चेष्टितेषु
संदीप्यते वपुषि चेतसि जाज्वलीति ।
वक्त्रे परिस्फुरति वाचि विजृम्भतेऽस्याः
कान्तावमानजनितो बहुमानवह्निः ॥६९४॥

कस्यचित।

बाष्पासारः कथयति भृशं गण्डयोः पाण्डिमानं
श्वासो भूम्ना स्तनकलसयोः पीनतामातनोति ।
चित्तौत्सुक्यं किमपि कुरुते क्षाममङ्गं तदस्यास्
तारुण्यस्य प्रसमधिकं मन्युराविष्करोति ॥६९५॥

कस्यचित।
४५. उदात्तमानिनी

न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलतां
न नेत्राब्जं रज्यत्यनुषजति न भ्रूरपि भिदाम् ।
इदं तु प्रेयस्याः प्रथयति रुषोऽन्तर्विलसितं
शतेऽपि प्रश्नानां यदभिदुरमुद्रोधरपुटः ॥६९६॥

वैद्यधन्यस्य । (सु.र. ६८८)

ईर्ष्याप्रस्फुरिताधरोष्ठरुचिरं वक्त्रं न मे दर्शितं
साधिक्षेपपदा मनागपि गिरो न श्राविता मुग्धया ।
मद्दोषैः सरसैः प्रतापितमनोवृत्त्यापि कोपोऽनया
काञ्च्या गाढतरावबद्धवसनग्रन्थ्या समावेदितः ॥६९७॥

काश्मीरनारायणस्य । (स्व१५९१)

भ्रूबेधो न कृतः कृता मुखशशिच्छायापि नायादृशी
कालुष्येण न लम्भिताः कलगिरः कोपस्त्वतो लक्ष्यते ।
यत्प्रागल्भ्यमपास्य सम्प्रति नवीभूतं पुनर्लज्जया
यश्चायं विनयादरः प्रणयितां मुक्त्वा महान्वर्तते ॥६९८॥

कस्यचित।

आमृद्यन्ते श्वसितमरुतो यत्कुचोत्सेधकम्पैर्
अन्तर्ध्यानात्त्रुटति च दृशोर्यद्बहिर्लक्ष्यलाभः ।
पक्ष्मोत्क्षेपव्यतिकरहतो यच्च बाष्पस्तदेते  
भावाश्चण्डि त्रुटितहृदयं मन्युमावदेयन्ति ॥६९९॥

कस्यचित।

यद्यपि श्रियमाधत्ते भूषणानादरस्तव ।
तथाप्यन्तर्गतं मन्युमयं कथयतीव मे ॥७००॥

कस्यचित।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP