संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ७४१ - ७६०

शृङ्गारप्रवाहः - सुभाषित ७४१ - ७६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


५४. प्रोषितभर्तृकावचनम्

प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।
गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥७४१॥

कस्यचित। (अमरु ३२; Sभ्व्११५१; शा.प. ३४२४; सूक्तिमुक्तावलि ३७.१९; पद्या. ३१४)

आयाता मधुयामिनी विजयते कान्तप्रयाणोत्सवः
प्राणा यान्तु यियासवो यदि पुनर्जन्मग्रहोऽभ्यर्थये ।
व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहोर्गणाः  
कन्दर्पे हरनेत्रपावककणाः प्राणेश्वरे मन्मथः ॥७४२॥

इन्द्रशिवस्य ।

यात्रामङ्गलसंविधानरचनाव्यग्रे सखीनां गणे
बाष्पाम्भःपिहितेक्षणे गुरुजने तद्वत्सुहृन्मण्डले ।
प्राणेशस्य मदीक्षणार्पितदृशः कृच्छादतिक्रामतः
किं व्रीडाहतया मया भुजलतापाशो न कण्ठेऽर्पितः ॥७४३॥

कस्यचित। (स्व११५०, शा.प. ३४३७)

किं चूतैर्न विजृम्भितं स्तवकितं किं तैर्न कङ्केल्लिभिः
सिन्दूरैरिव मुद्रितास्तत इतो जाता न किं किंशुकाः ।
विस्मृत्यापि न कोकिलैः किमु रुतं किं दाक्षिणात्यानिलैर्
वातं तत्र न निर्वृतैकहृदयो यत्रास्ति मे वल्लभः ॥७४४॥

कस्यचित।

मया बद्धा वेणी निवसितमशुक्लं च वसनं
श्रुताः शोचन्तीनां पर्जनसखीनामपि गिरः ।
निवृत्तास्ते दृष्टा गत्मनुगता येऽस्य सुहृदस्
तथाप्येते प्राणा दयितमनुयाता न कृपणाः ॥७४५॥

कस्यचित। (स्व११४२)

५५. सखीं प्रति प्रोषितभर्तृकावचनम्

अवधिदिवसः प्राप्तश्चायं तनोर्विरहस्य वा
रविरयमुपैत्यस्तं सख्यो ममापि च जीवितम् ।
तदलमफलैराशाबन्धैः प्रसीद नमोऽस्तु ते
हृदय सहसा पाकोत्पीडं विडम्बय दाडिमम् ॥७४६॥

अभिमन्योः । (सूक्तिमुक्तावलि ४०१९)

गर्जत्येकः परभृतयुवा पञ्चमध्वानगर्भं
वाति स्वैरं मलयपवनो दूरतो जीवितेशः ।
एह्यालिङ्ग प्रियसखि पुनः क्वावयोर्दर्शनं स्यात्
प्रत्यासन्नं मरणमसवः कण्ठदेशे लुठन्ति ॥७४७॥

कस्यचित।

अवधिदिवसः सोऽयं नात्रागतः किमियत्क्षणं
वितर नयने पश्यैतन्मे पुरः सखि साहसम् ।
इयमियमहं रूढज्वालाकरालितरोदसीं
मलयजरसाभ्यक्तैरङ्गैः पताम्यभि कौमुदीम् ॥७४८॥

गोसकस्य ।

दृष्टं केतकधूलिधूसरमिदं व्योम क्रमाद्वीक्षिताः
कच्चान्ताश्च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः ।
सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान्मुदेवाकुला
एतानप्यधुनास्मि वज्रघटिता नूनं सहिष्ये धनान॥७४९॥

रुद्रटस्य । (शृ.ति. २.६०अ; पद्या. ३२७)

प्रसर शिशिरामोदं कौन्दं समीर समीरय
प्रकटय शशिन्नाशाः कामं मनोज समुल्लस ।
अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कथां
हृदयमधुना किञ्चित्कर्तुं ममान्यदिहेच्छति ॥७५०॥

तस्यैव । (शृ.ति. २.५८ए, सूक्तिमुक्तावलि ४०.१८; पद्या. ३३४)

५६. प्रोषितभर्तृकाप्रियसंवादः

द्वारस्तम्भनिषण्णया दयितया वक्रीकृतग्रीवया
नासाग्रागतवारिबिन्दुविसरैः संसिच्यमानाङ्गया ।
मन्युस्तम्भितकण्ठगद्गदगिरा प्रोच्चारितार्धाक्षरं
संदिष्टं तव कान्तया पथिक तद्वक्तुं न यत्प्रार्थये ॥७५१॥

तुतातितस्य ।

नावस्था वपुषो ममेयमवधेरुक्तस्य नातिक्रमो
नोपालम्भपदानि वाप्यकरुणे तत्राभिधेयानि ते ।
प्रष्टव्यः शिवमालि केवलमसौ कच्चिद्भवद्गोचरे
नायातं मलयानिलैर्मुकुलितं कच्चिन्न चूतैरिति ॥७५२॥

वाक्कूटस्य । (सु.र. ७२५)

कुटजकटवो घ्राता वाताः श्रुतं घनगर्जितं
निशि निशि मुहुः शून्ये तल्पे कृतः शयनश्रमः ।
अवधिगणना रेखा पूर्णाः कृता गृहभित्तयो
न तव सविधं प्राणाः प्राप्ता न वा त्वमिहागतः ॥७५३॥

कस्यचित।

विज्ञप्तिरेषा मम जीवबन्धो
तत्रैव नेया दिवसाः कियन्तः ।
संप्रत्ययोग्यस्थितिरेष देशः
करा हिमांशोरपि तापयन्ति ॥७५४॥

विज्जाया गणपतेः ।

गन्तासि चेत्पथिक हे मम यत्र कान्तस्
तत्त्वं वचो हर शुचौ जगतामसह्यः ।
तापः सगर्जगुरुवारिनिपातभीतस्
त्यक्त्वा भुवं विरहिणीहृदयं विवेश ॥७५५॥

लडहचन्द्रस्य ।
५७. प्रोषितभर्तृकावस्था

अविरलपतद्बाष्पोत्पीडप्रसिक्तकपोलया
वचनविषयः संदेशोऽन्यस्तया विहितो न ते ।
मनसि किमपि ध्यायन्त्या तु क्षणं तव कान्तया
पथिक निहिता दृष्टिः कष्टं नवे करुणाङ्कुरे ॥७५६॥

धर्मपालस्य ।

पक्ष्माग्रस्खलिताश्रुधौतवलया निष्पन्दतारेक्षणा
बिभ्राणा करपल्लवेन सततं क्षामं कपोलस्थलम् ।
सेदानीं लिखितेव कामपि गतावस्थां सखीभिश्चिराद्
आसन्नावधिवासरप्रकटितप्रत्याशयाश्वास्यते ॥७५७॥

कस्यचित।

विच्छिन्नेऽवधिवासरे क्षणमथ त्वद्वर्त्मवातायनं
वारं वारमुपेत्य निर्घृणतया निश्चित्य किंचित्ततः ।
सम्प्रत्येव निवेद्य केलिकुररीः सास्रं सखीभ्यः शिशोर्
माधव्याः सहकारकेण करुणः पाणिग्रहः कल्पितः ॥७५८॥

कस्यचित।

निपतति शयने तव स्मरन्ती
पथिकवधूरवधूतजीविताशा ।
जलधरसमयस्य केतुभूतां
वकुललतामवलोक्य पुष्पिताग्राम् ॥७५९॥

कस्यचित।

आदूरात्प्रतिपान्थमाहितदृशः प्रत्याशयोन्मीलति
ध्वान्ते स्वान्तमहर्व्ययेऽपि न परावृत्तं कुरङ्गीदृशः ।
तस्या निःसहबाहुवल्लिविगलद्धम्मिल्लवद्भङ्गुर
ग्रीवं दीर्घमजीववत्प्रियसखीवर्गेण नीतं वपुः ॥७६०॥

कस्यचित।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP