शृङ्गारप्रवाहः - सुभाषित १२०१ - १२२०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१४६. सन्ध्या
निशाकरकर—स्पर्शहर्षोन्मीलिततारका ।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥१२०१॥
युवराजस्य ।
दिक्कामिनीवदनकुङ्कुमपङ्कचर्चा
चकाङ्गनाहृदयदावदवानलार्चिः ।
सन्ध्या रराज गगनान्तरतोयराशि
बालप्रवालविटपाङ्कुरकन्दलश्रीः ॥१२०२॥
कस्यचित।
कौसुम्भवसरुचिरां सन्ध्यां परिणीय मन्दमनुयान्तीम् ।
वासालयमिव जलधिं रागी पुरतो रविर्विशति ॥१२०३॥
उमापतिधरस्य ।
आकृष्टश्चक्रवाकैर्नयनकलनया बन्धकीभिर्निरस्तो
नास्तं द्रागेति भानुर्निवसति नलिनीबोधनिद्रान्तराले ।
सन्ध्यादीपप्ररोहं बहुलतिलरसव्याप्तपत्रान्तरालं
वासागारे दिशन्ती हसति नववधूक्रोधदृष्टा भुजिष्या ॥१२०४॥
तस्यैव ।
अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः ॥१२०५॥
कस्यचित। (Kउवल्. प्. १०८, स.क.आ. ३.४४, सा.द. उन्देर्१०.१२८)
१४७. अन्धकारः
अक्ष्णोर्मञ्जुलमञ्जनं चरणयोर्नीलाश्मजौ नूपुरा
वङ्गे नीलपटः स्फुटं मृगमदन्यासः कपोलस्थले ।
यत्प्रीत्या परिशीलितं परदृशां रोधाय तत्सांप्रतं
नेपथ्यस्य विधावपीदमसतीजातस्य जातं तमः ॥१२०६॥
वापीकस्य ।
उत्सारितो हसितदीधितिभिः कपोलाद्
एकावलीभिरवधूत इव स्तनेभ्यः ।
अङ्गेष्वलब्धपरिभोगसुखोऽन्धकारो
गृह्णाति केशरचनासु रुषेव नारीः ॥१२०७॥
गणपतेः । (सु.र. ८९२)
अद्रिष्वञ्जनपुञ्जकान्ति जलदप्रायं च मूले दिशां
ऊर्ध्वं नीलवितानकल्पभवनौ जम्बाललेपोपमम् ।
तीरे नीरनिधेस्तमालविटपिच्छायां च सायं शनैर्
उद्गच्छत्यभिसारिकाप्रियतमप्रेमानुकूलं तमः ॥१२०८॥
झञ्झानिलस्य ।
यत्र तत्र रतिसज्जबन्धकी
प्रीतये मदनशासनादिव ।
नीलकाण्डपटतामुपाययौ
सूचिभेद्यनिविडं निशातमः ॥१२०९॥
धोयीकस्य ।
उद्धूता धूमधारा विरहिजनमनोमाथिनो मन्मथाग्नेः
कस्तूरीपत्रमाला तिमिरततिरहो दिक्पुरन्ध्रीमुखानाम् ।
निर्वाणाङ्गारलेखा दिवसहुतभुजः संचरच्चञ्चरीक
श्रेणीयं भाति भास्वत्करलुलितनभःकन्दरेन्दीवरस्य ॥१२१०॥
गोवर्धनस्य ।
१४८. दीपः
वदनविधुसुधाभिषेकशीतान्
सपरिभावनयेव लोलमौलिः ।
त्वदधरमरुतो निपीय हास्यत्य्
अपि सहजक्षणभङ्गितां प्रदीपः ॥१२११॥
तैलपाटीयगाङ्गोकस्य ।
निर्वाणगोचरगतोऽपि मुहुर्निशायां
किं चेष्टितं तरुणयोः सुरतावसाने ।
इत्येवमाकलयितुं सकलं कलाविद्
उद्ग्रीविकामिव ददाति रतिप्रदीपः ॥१२१२॥
कस्यचित। (सु.र. ८५६)
बालां कृशाङ्गीं सुरतानभिज्ञां
गाढं नवोढामुपगूढवन्तम् ।
विलोक्य जामातरमेष दीपो
वातायते कम्पमुपैति भीतः ॥१२१३॥
कस्यचित। (सु.र. ८५७)
हनूमानिव दीपोऽयं दूरमुल्लासिताञ्जनः ।
किं च राम इवाभाति विनिर्धूतदशाननः ॥१२१४॥
कस्यचित।
अतिपीतां तमोराजीं तनीयान्वोढुमक्षमः ।
वमतीव शनैरेष प्रदीपः कज्जलच्छलात॥१२१५॥
कस्यचित। (सु.र. ८५५)
१४९. चन्द्रोदयः
अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः
परिणतविमलिम्नि व्योम्नि कर्पूरगौरः ।
ऋजुरजतशलाकास्पर्धिभिर्यस्य पादैर्
जगदमलमृणालीपञ्जरस्थं विभाति ॥१२१६॥
मधोः ।
यस्त्रैलोक्यजितः स्मरस्य किमपि क्रीडातडागं महद्
यश्चाभोगभृतो भुवः प्रकटिताकारार्पणो दर्पणः ।
सोऽयं सुन्दरि मन्दराद्रिमथितक्षीरोदसारोच्चयश्
चन्द्रः कुङ्कुमपङ्कपिण्डलडहच्छायः समुद्गच्छति ॥१२१७॥
राजशेखरस्य ।
असावेकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन्
कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।
पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां
कटाक्षेभ्यो बिभ्यन्निभृत इव चन्द्रोऽभ्युदयते ॥१२१८॥
तस्यैव । (सु.र. ९०९)
देवः प्राचीमिदानीमयमुपचिनुते पञ्चबाणस्य सोऽयं
बिभ्राणः शाणलीलाममृतरुचिरिमां लाक्षिकीभिः प्रभाभिः ।
किं चामुष्य प्रसङ्गान्निशितशरशिखाविस्फुरद्भिः स्फुलिङ्गैः
संध्यारागच्छलेन च्छुरितमिव तटव्योमचक्रं चकास्ति ॥१२१९॥
हरेः ।
आशाः संतमसोपलेपमलिनाः पीयूषगौरैः करैर्
आलिम्पन्नयमुद्गतैर्दिवमिमां कर्पूरपूरं सृजन।
चन्द्रश्चन्द्रशिलैककुट्टिममयं क्षोणीतलं कल्पयन्
पश्योद्गच्छति पाकपाण्डुरशरच्छायोपमेयच्छविः ॥१२२०॥
अनङ्गस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP