शृङ्गारप्रवाहः - सुभाषित ६०१ - ६२०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
२६. विरहिणी
श्वासास्ताण्डवितालकाः करतले सुप्ता कपोलस्थली
नेत्रे बाष्पतरङ्गिते परिणतः कण्ठे कलः पञ्चमः ।
अङ्गेषु प्रथमप्रबुद्धफलिनी लावण्यसंवादिनी
पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथाशेषताम् ॥६०१॥
शधोकस्य । (सु.र. ७२९)
कस्मान्म्लायसि मालतीव मृदितेत्यालीजने पृच्छति
व्यक्तं नोदितमार्तयापि विरहे शालीनया बालया ।
अक्ष्णोर्बाष्पभरं निगृह्य कथमप्यालोकितः केवलं
किञ्चित्कुड्मलकोटिभिन्नशिखरश्चूतद्रुमः प्राङ्गणे ॥६०२॥
बाह्वटस्य । (सु.र. ७४१)
सा चन्द्रादपि मन्मथादपि जलद्रोणीसमीरादपि
त्रस्ता मन्मथमत्तसिन्धुरकरक्रीडाविहारस्थली ।
क्रीडा कल्पितकालकण्ठकपटस्वर्भानुचक्षुःश्रवः
श्रेणी सम्भृतदुष्प्रवेशशिविरक्रीडान्न निष्क्रामति ॥६०३॥
महादेवस्य ।
निःशेषा मणिपञ्जरावलिरसौ दात्यूहशून्या कृता
श्येना केलिवनेषु कोकिलकुलोच्छेदाय संचारिताः ।
किं कुर्मः पुनरत्र रात्रिमखिलां कल्यक्वणत्कोकिला
केलीय्पञ्चमहुङ्कृतेः स्वयमियं यन्मृत्युमाकाङ्क्षति ॥६०४॥
शिल्हणस्य ।
प्रयातेस्तं भानौ श्रितशकुनिनीडेषु तरुषु
स्फुरत्सन्ध्यारागे शशिनि शनकैरुल्लसति च ।
प्रियप्रत्याख्यानद्विगुणविरहोत्कण्ठितदृशा
तदारब्धं तन्व्या मरणमपि यत्रोत्सवपदम् ॥६०५॥
लडूकस्य । (स्व१०९०, शा.प. ३४०४)
२७. विरहिणीवचनम्
जलार्द्रां चार्द्रां वा मलयजरसैर्मा मम कृथा
वृथा सद्यः पद्मच्छदनशयनं मापि च विधाः ।
अतीवार्द्रेणायं प्रियसखी शिखी वाडवनिभः
परीतापं प्रेयश्चिरविरहजन्मा जनयति ॥६०६॥
नरसिंहस्य ।
वृथा गाथाश्लोकैरलमलमलीकां मम रुजं
कदाचिद्धूर्तोऽसौ कविवचनमित्याकलयति ।
इदं पार्श्वे तस्य प्रहिणु सखि लग्नाञ्जनलव
स्रवद्बाष्पोत्पीडग्रथितलिपि ताडङ्कयुगलम् ॥६०७॥
शिल्हणस्य । (सूक्तिमुक्तावलि ४१.६)
गच्छामि कुत्र विदधामि किमत्र कस्मिंस्
तिष्ठामि कः खलु ममात्र भवेदुपायः ।
कर्तव्यवस्तुनि न मे सखि निश्चयोऽस्ति
त्वां चेतसा परमनन्यगतिः स्मरामि ॥६०८॥
कालिदासनन्दिनः ।
सखि मलयजं मुञ्च क्षारं क्षते किमिवार्प्यते
कुसुममशिवं कामस्यैतत्किलायुधमुच्यते ।
व्यजनपवनो मा भूच्छ्वासान्करोति ममाधिकान्
उपचितबले व्याधावस्मिन्मुधा भवति श्रमः ॥६०९॥
तस्यैव ।
विरमत विरमत सख्यो
नलिनीदलतालवृन्तपवनेन ।
हृदयगतोऽयं वह्निर्धगिति
कदाचिज्ज्वलत्येव ॥६१०॥
कस्यचित। (शा.प. ३४३२)
२८. विरहिणीरुदितम्
वल्ली पादपमोचितेव सुतनुः प्रम्लायति प्रत्यहं
निःश्वासाकुटिलालकं करतलोत्सङ्गे मुखं सीदति ।
नासाग्रातिथयो मुहूर्तमरुणोच्छूनान्तयोर्नेत्रयोर्
विश्राम्यन्ति न सिन्दुवारमुकुलस्थूलाः पयोबिन्दवः ॥६११॥
बलभद्रस्य ।
कोऽसौ धन्यः कथय सुभगे कस्य गङ्गासरय्वो
स्तोयास्फालव्यतिकरखणत्कारि कङ्कालमास्ते ।
यं ध्यायन्त्याः सुमुखि नियतं कज्जलच्छेदभाञ्जि
व्यालुम्पन्ति स्तनकलसयोः पत्रमश्रूण्यजस्रम् ॥६१२॥
कस्यचित। (सु.र. ७३५)
मुक्तानङ्गः कुसुमविशिखान्पञ्च चूर्णीकृताग्रान्
मन्ये मुग्धां प्रहरति हठात्पत्रिणा वारुणेन ।
वारां पूरः कथमितरथा स्फारनेत्रप्रणाली
वक्रोद्वाहस्त्रिवलिविपिने सारणीसाम्यमेति ॥६१३॥
राजशेखरस्य ।
पक्ष्मान्ते स्खलिताः कपोलफलके लोलं लुठन्तः क्षणं
धारालास्तरलोच्छलत्तनुकणाः पीनस्तनास्फालनात।
कस्माद्ब्रूहि तवाद्य कण्ठविगलन्मुक्तावलीविभ्रमं
बिभ्राणा निपतन्ति बास्बाष्पपयसां प्रस्यन्दिनो बिन्दवः ॥६१४॥
तस्यैव । (सु.र. ६६३)
कपोलं पक्ष्मभ्यः कलयति कपोलान्स्तनतटं
स्तनान्नाभिं नाभेर्घनजघनमेत्य प्रतिमुहुः ।
न जानीमः किं नु क्व नु कृतमनेन व्यवसितं
यदस्याः प्रत्यङ्गं नयनजलबिन्दुर्विहरति ॥६१५॥
नरसिंहस्य । (सु.र. ६८३)
२९. दूतीवचनम्
वक्त्रेन्दोर्न हरन्ति बाष्पपयसां धारामनोज्ञां श्रियं
निःश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् ।
तन्व्यास्त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी
छाया कापि कपोलयोरनुदिनं तस्याः परं शुष्यति ॥६१६॥
धर्मकीर्तेः । (सु.र. ५३९)
लावण्येन पिधीयतेङ्गतनिमा संधार्यते जीवितं
त्वद्ध्यानैः सततं कुरङ्गकदृशः किन्त्वेतदास्ते नवम् ।
निःश्वासैः कुचकुम्भपीठलुठनप्रत्युद्गमान्मांसलैः
श्यामीभूतकपोलमिन्दुरधुना यत्तन्मुखं स्पर्धते ॥६१७॥
शृङ्गारस्य । (सु.र. ५३५)
त्वदर्थिनी चन्दनभस्मदिग्ध
ललाटलेखाश्रुजलाभिषिक्ता ।
मृणालचीरं दधती स्तनाभ्यां
स्मरोपदिष्टं चरति व्रतं सा ॥६१८॥
कस्यचित। (स्व१३९३, सु.र. ५४५)
श्रोत्रं त्वद्गुणजालपूरितमभूद्बाष्पाम्बुपूरे दृशौ
किंचास्या मुखमन्धकारितमभून्निःश्वासवातोर्मिभिः ।
चण्डालस्तव शोकवह्निरभितो धन्वी जिघांसुः स्मरस्
तस्याः कण्ठगतागतानि दधति प्राणाः कुरङ्गोपमाः ॥६१९॥
दनोकस्य ।
कण्ठे जीवितमानने तव गुणाः पाणौ कपोलस्तनौ
संतापस्त्वयि मानसं नयनयोरच्छिन्नधारं पयः ।
सर्वं निष्करुण त्वदीयविरहे सालम्बनं किं पुनस्
तस्याः संप्रति जीविते बत सखीवर्गो निरालम्बनः ॥६२०॥
जलचन्द्रस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP