शृङ्गारप्रवाहः - सुभाषित ८६१ - ८८०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
७८. मध्यम्
निहिता मणिमेखला नितम्बे
तरला हारलता कुचद्वये च ।
अनयाहमलङ्कृतो न कस्मा
दिति तस्यास्तनुतामियाय मध्यम् ॥८६१॥
कुञ्जस्य ।
अहं तनीयानतिकोमलश्च
स्तनद्वयं वोढुमलं न तावत।
इतीव तत्संवहनार्थमस्या
वलित्रयं पुष्यति मध्यभागः ॥८६२॥
धोयीकस्य ।
लावण्यपुण्यसलिलौघमहार्घतीर्थे
तस्या वलित्रय तरङ्गिणि मध्यदेशे ।
निर्वाणं ऋच्छति मनः सहजैकतान
मस्मिन्मुहुः किमनुभावयतीव दृष्टिः ॥८६३॥
हरेः ।
तनुत्वरमणीयस्य मध्यस्य च भुजस्य च ।
अभवन्नितरां तस्या वलयः कान्तिबद्धये ॥८६४॥
कस्यचित। (स.क.आ. २.१५९, सूक्तिमुक्तावलि ५३.६४)
कुचकलशमहिम्ना श्रोणिभारप्रथिम्ना
विहितनिविडपीडास्तां द्वयीमुद्विषन्तः ।
चिरमुदरतरङ्गश्रेणिमार्गेण यासां
भ्रुकुटिमिव वहन्ति क्रोधतो मध्यभागाः ॥८६५॥
राजशेखरस्य ।
७९. नायिकाक्रीडनम्
अमन्दमणिनूपुरप्रचुरचारुचारक्रमं
झणज्झणितमेखलास्खलिततारहारच्छटम् ।
इदं तरलकङ्कणावलिविशेषवाचालितं
मनो हरति सुभ्रुवः किमपि कन्दुकक्रीडितम् ॥८६६॥
राजशेखरस्य । (वि.शा.भ. २.६, सु.र. ५२६, सूक्तिमुक्तावलि ६६.६)
अस्याः स्वेदाम्बुबिन्दुच्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेः
पर्यायात्कन्दुकस्य प्रहणनगणना केलिवाचालितायाः ।
उत्पातोत्तालतालक्रमनमितदृशस्ताडनोत्तालताली
लीलाख्या मौनिताः स्म प्रतिपदममुना कन्दुकक्रीडितेन ॥८६७॥
तस्यैव । (वि.शा.भ. २.८)
चेलाञ्चलेन चलहारलताप्रकाण्डै
र्वेणीगुणेन च बलाद्वलयीकृतेन ।
स्वेच्छाहितभ्रमरकभ्रमिमण्डलीभि
रन्यं रसं रचयतीव चिरं नतभ्रूः ॥८६८॥
तस्यैव । (वि.शा.भ. २.९, सु.र. ५२८)
शिखामणिरितोरुणस्तिलकयत्ययं मेदिनी
मितो गलितगुम्फनास्तरलवेणिवान्ताः स्रजः ।
इतश्छुरितमन्तरा त्रुटितहारमुक्ताफलै
रितः श्रवणपाशतः कमलपत्रमास्ते च्युतम् ॥८६९॥
तस्यैव । (वि.शा.भ. २.१३)
च्युतकर्णशिरोरुहावतंसै
र्निविडस्वेदजलार्द्रगण्डलेखैः ।
असकृन्मणिकुट्टिमोदरे सा
दिवसं कन्दुककेलिभिर्निनाय ॥८७०॥
मुञ्जस्य ।
८०. अनुकूलनायकः
सदा चाटून्जल्पन्सततमुपहारार्पितमना
मुखं पश्यन्नित्यं सततमविभिन्नाञ्जलिपुटः ।
अनिच्छन्निच्छन्वा क्षणमपि न पार्श्वं त्यजति यः
स किं कामी स्त्रीणामयमशरणो भृत्यपुरुषः ॥८७१॥
श्रीमल्लक्ष्मणसेनदेवस्य ।
सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥८७२॥
[अमरु ३०, सु.र. ४८१, Sभ्१३४६, SK ३.४२]
सालक्तकेन नवपल्लवकोमलेन
पादेन नूपुरवता मदनालसेन ।
यस्ताड्यते दयितया प्रणयाराधात्
सोऽङ्गीकृतो भगवता मकरध्वजेन ॥८७३॥
[अमरु ५२; सूक्तिमुक्तावलि ८५.१]
सामन्तमौलिमणिरञ्जितपादपीठम्
एकातपत्रमवनेर्न तथाधिपत्यम् ।
अस्याः सखे चरणयोरहमद्य कान्तम्
आज्ञाकरत्वमधिगम्य यथा कृतार्थः ॥८७४॥
कस्यचित। (Vइक्. ३.४७)
हारो यत्र व्यवधिरचना त्वं तु येनापराद्धो
रोमोद्भेदोऽप्यशिथिलतरालिङ्गनेष्वन्तरायः ।
यस्मिन्वाञ्छा विरमति मिथो नार्धनारीश्वरत्वे
तद्दाम्पत्यं विभजतु कथंकारमन्या मृगाक्षी ॥८७५॥
गोवर्धनस्य ।
८१. दक्षिणनायकः
सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया
भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् ।
कान्तस्याप्रियकारिणीति भवती तं वक्ति दोषाबिलं
किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया ॥८७६॥
रुद्रटस्य । (शृ.ति. १.२६अ)
स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुर्
द्यूतैः रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरसुन्दरीभिरसकृद्विज्ञापितेन क्रमाद्
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥८७७॥
कस्यचित। (स.क.आ. ५.३६४, द.रू.. उन्देर्२.७, सा.द. उन्देर्३.४२)
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥८७८॥
कालिदासस्य । (सूक्तिमुक्तावलि ४२.६, Sःअक्. ६.५)
प्रणयि वचनं दीना दृष्टिः शिरोनिहितोऽञ्जलिश्
चरणपतनं देव्याः सन्ति प्रसादनहेतवः ।
कुसुमविशिखज्वालातापस्फुटन्मृदुमानसा
वरतनुरसौ येन प्राप्या स एव तु नास्ति मे ॥८७९॥
उमापतिधरस्य ।
वाचः परं भजन्त्येता देवि प्रणयचातुरीम् ।
हृदयस्य तु सर्वस्वं त्वमेवैकप्रिया मम ॥८८०॥
तस्यैव ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP