शृङ्गारप्रवाहः - सुभाषित १२२१ - १२४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१५०. प्रदोषः
हंसाः संप्रति पक्षतौ सुनिभृतं कृत्वा शिरः शेरते
ज्योत्स्नाभिस्तृषिताः समं सहचरैः सुप्ताश्चकोरस्त्रियः ।
घूर्णद्भिः कुमुदोदरेष्वपि मधुक्षीवैः स्थितं षट्पदैर्
अप्युच्चैर्गिरिशृङ्गमूर्धनि भृशं निर्यान्त्यमी बर्हिणः ॥१२२१॥
उमापतिधरस्य ।
सैरन्ध्रीकरकृष्टपट्टकसरत्तारध्वनिर्दूरतो
दूतीसूत्रितसन्धिविग्रहविधिः सोल्लासलीलाचयः ।
वारस्त्रीजनसज्ज्यमानशयनः संनद्धपुष्पायुध
श्रीखण्डद्रवधौतसौधमलिनो रम्यः क्षणो वर्तते ॥१२२२॥
कस्यचित। (वि.शा.भ. २.२३, शा.प. ३५९१, सूक्तिमुक्तावलि ६८.२)
दिक्सरागमुखसंनिधापित
स्फीतचन्द्रचषका शतक्रतोः ।
क्षीवभावमिव बिभ्रती रतौ
विश्लथोच्चतिमिरांशुकोच्चया ॥१२२३॥
अभिनन्दस्य ।
बाष्पैर्मानवती जनस्य कुलटासंकेतचिन्तोर्मिभिः
संप्राप्ता प्रियसंगमैकमनसामाकल्पनोपक्रमैः ।
दूतीसंचरणैरपि प्रणयिनोः संदेशवक्रोक्तिभिः
कुत्रायं कुरुते न मन्मथमनस्तोषं प्रदोषागमः ॥१२२४॥
जलचन्द्रस्य ।
उपरि गूढहिमांशुमरीचिभिस्
तमसि दूरमितः प्रतिसारिते ।
अलकसंयमनादिव लोचने
हरति मे हरिवाहनदि मुखम् ॥१२२५॥
कालिदासस्य । (Vइक्३.६)
१५१. वसन्तारम्भः
गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा
वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः ।
किं च त्रीणि जगन्ति जिष्णुदिवसैर्द्वित्रैर्मनोजन्मनो
देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ॥१२२६॥
(राजशेखरस्य; वि.शा.भ. १.२३, सु.र. १६६)
अतीता श्रीतार्तिः प्रसरति शनैरुष्मकणिका
दिनानि स्फायन्ते रविरपि अथं मन्थरयति ।
हिमानीनिर्मुक्तः स्फुरति नितरां शीतकिरणः
शराणां व्यापारः कुसुमधनुषो न व्यवहितः ॥१२२७॥
(साम्पीकस्य)
निद्राशेषनिमीलितेक्षणतया प्राप्ते वसन्तोद्यमे
हस्तामर्षवशादसौ निजधनुः पञ्चेषुरन्विष्यति ।
चूताः कोरकगर्भनिर्भरदरोद्भिन्नस्फुरद्ग्रन्थयो
यात्यायाति च काकली पिकवधूकण्ठोपकण्ठं मुहुः ॥१२२८॥
प्राज्ञभुतनाथस्य ।
एकद्वेषु रसालशाखिषु मनागुन्मीलितं कुड्मलैः
कर्णाकर्णिकया मिथः कथममी घूर्णन्ति विश्वेध्वगाः ।
द्वित्रैः क्वापि किल श्रुताश्रुतमपि स्पष्टान्यपुष्टारुतं
विष्वङ्मूर्च्छति दुःसहो विरहिणीगेहेषु हाहारवः ॥१२२९॥
भट्टशालीयपीताम्बरस्य ।
यातं मानैर्वधूनामिव दरशिथिलग्रन्थिभिः पूर्वपत्रैर्
जातोऽपि क्वापि बालामदन इव बहिर्नाङ्कुरो व्यक्तिमेति ।
आगारे नागराणामपि विहितबहुप्रार्थनाः कण्ठसीमां
नीत्वा नीत्वा नवोढा इव वचनममूः कोकिलाः कुण्ठयन्ति ॥१२३०॥
(आचार्यगोपीकस्य)
१५२. वसन्तः
जम्बूनां कुसुमोदरेष्वतिरसादाबद्धपानोत्सवाः
कीराः पक्वफलाशया मधुकरीश्चुम्बन्ति मुञ्चन्ति च ।
एतेषामपि पश्य किंशुकतरोः पत्रैरभिन्नत्विषां
पुष्पभ्रान्तिभिरापतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥१२३१॥
(राजशेखरस्य; सु.र. १५७, सूक्तिमुक्तावलि १०९.२३ वसुकस्य)
अङ्कुरिते पल्लविते कोरकिते
विकसिते च सहकरे ।
अङ्कुरितः पल्लवितः कोरकितो
विकसितश्च मदनोऽसौ ॥१२३२॥
(कस्यचित्; सु.र. १८८)
अमीषामारूढप्रसवविवराणां मधुलिहां
ध्वनिः पान्थस्त्रीणां प्रसरति वियोगज्वर इव ।
द्रुमालीनां यूनोर्मन इव सरागं किसलयं
परागः पुष्पाणां पतति मदनस्येव विशिखः ॥१२३३॥
(वसन्तदेवस्य)
लीलास्नानविधिक्षमं मधुलिहां पुष्पेषु जातं मधु
स्थायित्वं कलकण्ठकण्ठकुहरेष्वासेवते पञ्चमः ।
एकच्छत्रजगत्त्रयार्जनरुचेर्देवस्य शृङ्गारिणश्
चैत्रश्चित्रमकाण्ड एव समभूत्त्रैलोक्यमल्लो भटः ॥१२३४॥
(बिल्हणस्य; Vच्७.६४)
वापी दन्तुरितोदरा कमलिनी पत्राङ्कुरग्रन्थिभिश्
चूतानां कलिकामिलन्मधुलिहां कापि स्थितिर्वर्तते ।
किं चान्यत्कुसुमायुधोऽद्य भगवान्धत्ते सगर्वं धनुर्
ज्यामुन्मार्ष्टि च पञ्चभिश्च विशिखैर्जेतुं जगद्वाञ्छति ॥१२३५॥
(वीर्यमित्रस्य; सु.र. १७३ अभिनन्दस्य)
१५३. वसन्तवासरः
आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी
स्तोकोन्मुक्ततुषारमम्बरमणेरीषत्प्रगल्भं महः ।
अप्येते सहकारसौरभमुचो वाचालिताः कोकिलैर्
आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ॥१२३६॥
सङ्घश्रीयः । (सु.र. १५२)
मन्दं दक्षिणमाह्वयन्ति पवनं पुंस्कोकिलव्याहृतैः
संस्कुर्वन्ति वनस्थलीः किसलयोत्तंसिर्निषण्णालिभिः ।
चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नया
वर्धन्ते च विवर्धयन्ति च मुहुस्तेऽमी स्मरं वासराः ॥१२३७॥
(कस्यचित्; सु.र. १६१)
एते सम्प्रति वैमनस्यमनिशं निःशङ्कमातन्वते
कान्तारस्थलपद्मिनीपरिमलैरानन्दितेन्दिन्दिराः ।
उन्मीलत्सहकारकाननतटीवाचालपुंस्कोकिल
ध्वानाकर्णनकान्दिशीकपथिकावस्कन्दिनो वासराः ॥१२३८॥
(योगेश्वरस्य)
धिन्वन्त्यमू# मदमूर्च्छदलिध्वनीनि
धूताध्वनी#हृदयानि मधोर्दिनानि ।
निस्तन्द्रचन्द्रवदनावदनारविन्द
सौरभ्यसौहृदसगर्वसमीरणानि ॥१२३९॥
(कस्यचित्)
स्तोकस्तोकनिवर्तमानतुहिनोन्मीलन्नवाम्भोजिनी
सङ्क्रान्तैरलिभिर्मुखेषु ककुभां क्ÿप्तालकश्रेणयः ।
तत्तन्मन्मथबन्धुवार्तिकपिकप्रारब्धबीजाङ्कुर
व्याख्यातक्षुभिताध्वनीनमनसो धिन्वन्त्यमी वासराः ॥१२४०॥
(हरेः)
N/A
References : N/A
Last Updated : November 11, 2016
TOP