संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ३०

पूर्वभागः - अध्यायः ३०

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


शैलादिरुवाच ॥
एवमुक्तास्तदा तेन ब्रह्मणा ब्राह्मणर्षभाः ॥
श्वेतस्य च कथां पुण्यामपृच्छन्परमर्षयः ॥१॥

पितामह उवाच ॥
श्वेतो नाम मुनिः श्रीमान् गतायुर्गिरिगह्वरे ॥
सक्तो ह्यभ्यर्च्य यद्भक्त्या तुष्टाव च महेश्वरम् ॥२॥

रुद्राध्यायेन पुण्येन नमस्तेत्यादिना द्विजाः ॥
ततः कालो महातेजाः कालप्राप्तं द्विजोत्तमम् ॥३॥

नेतुं संचित्य विप्रेंद्रास्सान्निध्यमकरोन्मुनेः ॥
श्वेतोपि दृष्ट्वा तं कालं कालप्राप्तोपि शंकरम् ॥४॥

पूजयामास पुण्यात्मा त्रियंबकमनुस्मरन् ॥
त्रियंबकं यजेदेवं सुगंधिं पुष्टिवर्धनम् ॥५॥

किं करिष्यति मे मृत्युर्मृत्योर्मृत्युरहं यतः ॥
तं दृष्ट्वा सस्मितं प्राह श्वेतं लोकभयंकरः ॥६॥

एह्येहि श्वेता चानेन विधिना किं फलं तव ॥
रुद्रो वा भगवान् विष्णुर्ब्रह्मा वा जगदीश्वरः ॥७॥

कः समर्थः परित्रातुं मया ग्रस्तं द्विजोत्तम ॥
अनेन मम किं विप्र रौद्रेण विधिना प्रभोः ॥८॥

नेतुं यस्योत्थितश्चाहं यमलोकं क्षणेन वै ॥
यस्माद्गतायुस्त्वं तस्मान्मुने नेतुमिहोद्यतः ॥९॥

तस्य तद्वचनं श्रुत्वा भैरवं धर्ममिश्रितम् ॥
हा रुद्र रुद्ररुद्रेति ललाप मुनिपुंगवः ॥१०॥

तं प्राह च महादेवं कालं संप्रेक्ष्य वै दृशा ॥
नेत्रेण बाष्पमिश्रेण संभ्रांतेन समाकुलः ॥११॥

श्वेत उवाच ॥
त्वया किं काल नो नाथश्चास्ति चेद्धि वृषध्वजः ॥
लिङ्गेऽस्मिन् शंकरो रुद्रः सर्वदेवभवोद्भवः ॥१२॥

अतीव भवभक्तानां मद्विधानां महात्मनाम् ॥
विधिना किं महाबाहो गच्छ गच्छ यथागतम् ॥१३॥

ततो निशम्य कुपितस्तीक्ष्णदंष्ट्रो भयंकरः ॥
श्रुत्वा श्वेतस्य तद्वाक्यं पाशहस्तो भयावहः ॥१४॥

सिंहनादं महत्कृत्वा चास्फाट्य च मुहुर्मुहुः ॥
बबंध च मुनिं कालः कालप्राप्तं तमाह च ॥१५॥

मया बद्धोसि विप्रर्षे श्वेतं नेतुं यमालयम् ॥
अद्य वै देवदेवेन तव रुद्रेण किं कृतम् ॥१६॥

क्व शर्वस्तव भक्तिश्च क्व पूजा पूजया फलम् ॥
क्व चाहं क्व च मे भीतिः श्वेत बद्धोसि वै मया ॥१७॥

लिंगेस्मिन् संस्थितः श्वेत तव रुद्रो महेश्वरः ॥
निश्चेष्टोसौ महादेवः कथं पूज्यो महेश्वरः ॥१८॥

ततः सदाशिवः स्वयं द्विजं निहन्तुमागतम् ॥
निहन्तुमंतकं स्मयन् स्मरारियज्ञहा हरः ॥१९॥

त्वरन् विनिर्गतः परः शिवः स्वयं त्रिलोचनः ॥
त्रियंबकोऽम्बया समं सनंदिना गणेश्वरैः ॥२०॥

ससर्ज जीवितं क्षणाद्भवं निरिक्ष्य वै भयात् ॥
पपात चाशु वै बली मुनेस्तु सन्निधौ द्विजाः ॥२१॥

ननाद चोर्ध्वमुच्चधीर्निरीक्ष्य चांतकांतकम् ॥
निरीक्षणेन वै मृतं भवस्य विप्रपुंगवाः ॥२२॥

विनेदुरुच्चमीश्वराः सुरेश्वरा महेश्वरम् ॥
प्रणेमुरंबिकामुमां मुनीश्वरास्तु हर्षिताः ॥२३॥

ससर्जुरस्य मूर्ध्नि वै मुनेर्भवस्य खेचराः ॥
सुशोभनं सुशीतलं सुपुष्पवर्षमंबरात् ॥२४॥

अहो निरीक्ष्य चांतकं मृतं तदा सुविस्मितः ॥
शिलाशनात्मजोऽव्ययं शिवं प्रणम्य शंकरम् ॥२५॥

उवाच बालधीर्मृतः प्रसीद चेति वै मुनेः ॥
महेश्वरं महेश्वरस्यचानुगो गणेश्वरः ॥२६॥

ततो विवेश भगवाननुगृह्य द्विजोत्तमम् ॥
क्षणाद्गूढशरीरं हि ध्वस्त दृष्ट्वांतकं क्षणात् ॥२७॥

तस्मान्मृत्युंजयं चैव भक्त्या संपूजये द्विजाः ॥
मुक्तिदं भुक्तिदं चैव सर्वेषामपि शंकरम् ॥२८॥

बहुना किं प्रलापेन संन्यस्याभ्यर्च्य वै भवम् ॥
भक्त्या चापरया तस्मिन् विशोका वै भविष्यथ ॥२९॥

शैलादिरुवाच ॥
एवमुक्तास्तदा तेन ब्रह्मणा ब्रह्मवादिनः ॥
प्रसीदभक्तिर्देवेशे भवेद्रुद्रे पिनाकिनि ॥३०॥

केन वा तपसा देव यज्ञेनाप्यथ केन वा ॥
व्रतैर्वा भगवद्भक्ता भविष्यंति द्विजातयः ॥३१॥

पितामह उवाच ॥
न दानेन मुनिश्रेष्ठास्तपसा च न विद्यया ॥
यज्ञैर्होमैर्व्रतैर्वेदैर्योगशास्त्रैर्निराधनैः ॥३२॥

प्रसादे नैव सा भक्तिः शिवे परमकारणे ॥
अथ तस्य वचः शुत्वा सर्वे ते परमर्षयः ॥३३॥

सदारतनयाः श्रांताः प्रणेमुश्च पितामहम् ॥
तस्मात्पाशुपती भक्तिर्धर्मकामार्थसिद्धिदा ॥३४॥

मुनोर्विजयदा चैव सर्वमृत्युजयप्रदा ॥
दधीचस्तु पुरा भक्त्या हरिं जित्वामरैर्विभुम् ॥३५॥

क्षयं जघान पादेन वज्रास्थित्वं च लब्धवान् ॥
मयापि निर्जितो मृत्युर्महादेवस्य कीर्तनात् ॥३६॥

श्वेतेनापि गतेनास्यं मृत्योर्मुनिवरेणतु ॥
महादेवप्रसादेन जितो मृत्युर्यथा मया ॥३७॥

इति श्रीलिंगमहापुराणे पूर्वभागे त्रिंशोध्यायः ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP