पूर्वभागः - अध्यायः ३६
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.
नंद्युवाच ॥
पूजया तस्य संतुष्टो भगवान्पुरुषोत्तमः ॥
श्रीभूमिसहितः श्रीमाञ्शंखचक्रगदाधरः ॥१॥
किरीटी पद्महस्तश्च सर्वाभरण भूषितः ॥
पीतांबरश्च भगवान्देवैर्दैत्यैश्च संवृतः ॥२॥
प्रददौ दर्शने तस्मै दिव्यं वै गरुडध्वजः ॥
दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम् ॥३॥
तुष्टाव वाग्भिरिष्टाभिः प्रणम्य गरुडध्वजम् ॥
त्वमादिस्त्वमनादिश्च प्रकृतिस्त्वं जनार्दनः ॥४॥
पुरुषस्त्वं जगन्नाथो विष्णुर्विश्वेश्वरो भवान् ॥
योयं ब्रह्मासि पुरुषो विश्वमूर्तिः पितामहः ॥५॥
तत्त्वमाद्यं भवानेव परं ज्योतिर्जनार्दन ॥
परमात्मा परंधाम श्रीपते भूपते प्रभो ॥६॥
त्वत्क्रोधसंभवो रुद्रस्तमसा च समावृतः ॥
त्वत्प्रसादाज्जगद्धाता रजसा च पितामहः ॥७॥
त्वत्प्रसादात्स्वयं विष्णुः सत्त्वेन पुरुषोत्तमः ॥
कालमूर्ते हरे विष्णो नारायण जगन्मय ॥८॥
महांस्तथा च भूतादिस्तन्मात्राणीन्द्रियाणि च ॥
त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥९॥
महादेव जगन्नाथ पितामह जगद्गुरो ॥
प्रसीद देवदेवेश प्रसीदपरमेश्वर ॥१०॥
प्रसीद त्वं जगन्नाथ शरण्यं शरणं गतः ॥
वैकुंठ शौरे सर्वज्ञ वासुदेव महाभुज ॥११॥
संकर्षण महाभाग प्रद्युम्न पुरुषोत्तम ॥
अनिरुद्ध महाविष्णो सदा विष्णो नमोस्तु ते ॥१२॥
विष्णो तवासनं दिव्यमव्यक्तं मध्यतो विभुः ॥
सहस्रफणसंयुक्तस्तमोमूर्तिर्धराधरः ॥१३॥
अधश्च धर्मो देवेश ज्ञानं वैराग्यमेव च ॥
ऐश्वर्यमासनस्यास्य पादरूपेण सुव्रत ॥१४॥
सप्तपातालपादस्त्वं धराजघनमेव च ॥
वासांसि सागराः सप्त दिशश्चैव महाभुजाः ॥१५॥
द्यौर्मूर्धा ते विभो नाभिः खं वायुर्नासिकां गतः ॥
नेत्रे सोमश्च सूर्यश्च केशा वै पुष्करादयः ॥१६॥
नक्षत्रतारका द्यौश्च ग्रैवेयकविभूषणम् ॥
कथं स्तोष्यामि देवेशं पूज्यश्च पुरुषोत्तमः ॥१७॥
श्रद्धया च कृतं दिव्यं यच्छ्रयं यच्च कीर्तितम् ॥
यदिष्टं तत्क्षमस्वेश नारायण नमोस्तु ते ॥१८॥
शैलादिरुवाच ॥
इदं तु वैष्णवं स्तोत्रं सर्वपापप्रणाशनम् ॥
यः पठेच्छृणुयाद्वापि क्षुपेण परिकीर्तितम् ॥१९॥
श्रावयेद्वा द्विजान् भक्त्या विष्णुलोकं स गच्छति ॥२०॥
संपूज्य चैवं त्रिदशेश्वराद्यैः स्तुत्वा स्तुतं देवमजेयमीशम् ॥
विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना ॥२१॥
राजोवाच ॥
भगवन्ब्राह्मणः कश्चिद्दधीच इति विश्रुतः ॥
धर्मवेत्ता विनीतात्मा सखा मम पुराभवत् ॥२२॥
अवध्यः सर्वदा सर्वैः शंकरार्चनतत्परः ॥
सावज्ञं वामपादेन स मां मूर्ध्नि सदस्यथ ॥२३॥
ताडयामास देवेश विष्णो विश्वजगत्पते ॥
उवाच च मदाविष्टो न बिभेमीति सर्वतः ॥२४॥
जेतुमिच्छामि तं विप्रं दधीचं जगदीश्वर ॥
यथा हितं तथा कर्तुं त्वमर्हसि जनार्दन ॥२५॥
शैलादिरुवाच ॥
ज्ञात्वा सोपि दधीचस्य ह्यवध्यत्वं महात्मनः ॥
सस्मार च महेशस्य प्रभावमतुलं हरिः ॥२६॥
एवं स्मृत्वा हरिः प्राह ब्रह्मणः क्षुतसंभवम् ॥
विप्राणां नास्ति राजेंद्र भयमेत्य महेश्वरम् ॥२७॥
विशेषाद्रुद्रभक्तानामभयं सर्वदा नृप ॥
नीचानामपि सर्वत्र दधीचस्यास्य किं पुनः ॥२८॥
तस्मात्तव महाभाग विजयो नास्ति भूपते ॥
दुःखं करोमि विप्रस्य शापार्थं ससुरस्य मे ॥२९॥
भविता तस्य शापेन दक्षयज्ञे सुरैः समम् ॥
विनाशो मम राजेंद्र पुनरुत्थानमेव च ॥३०॥
तस्मात्समेत्य विप्रेंद्रं सर्वयत्नेन भूपते ॥
करोमि यत्नं राजेंद्र दधीचविजयाय ते ॥३१॥
शैलादिरुवाच ॥
श्रुत्वा वाक्यं क्षुपः प्राह तथास्त्विति जनार्दनम् ॥
भगवानपि विप्रस्य दधीचस्याश्रमं ययौ ॥३२॥
आस्थाय रूपं विप्रस्य भगवान् भक्तवत्सलः ॥
दधीचमाह ब्रह्मर्षिमभिवंद्य जगद्गुरुः ॥३३॥
श्रीभगवानुवाच ॥
भोभो दधीच ब्रह्मर्षे भवार्चनरताव्यय ॥
वरमेकं वृणे त्वत्तस्तं भवान्दातुमर्हति ॥३४॥
याचितो देवदेवेन दधीचः प्राह विष्णुना ॥
ज्ञातं तवेप्सितं सर्वं न बिभेमि तवाप्यहम् ॥३५॥
भवान् विप्रस्य रूपेण आगतोसि जनार्दन ॥
भूतं भविष्यं देवेश वर्तमानं जनार्दन ॥३६॥
ज्ञातं प्रसादाद्रुद्रस्य द्विजत्वं त्यज सुव्रत ॥
आराधितोसि देवेश क्षुपेण मधुसूदन ॥३७॥
जाने तवैनां भगवन्भक्तवत्सलतां हरे ॥
स्थाने तवैषा भगवन्भक्तवात्सल्यता हरे ॥३८॥
अस्ति चेद्भगवन् भीतिर्भवार्चनरतस्य मे ॥
वक्तुमर्हसि यत्नेन वरदांबुजलोचन ॥३९॥
वदामि न मृषा तस्मान्न बिभेमि जनार्दन ॥
न बिभेमि जगत्यस्मिन् देवदैत्यद्विजादपि ॥४०॥
नंद्युवाच ॥
श्रुत्वा वाक्यं दधीचस्य तदास्थाय जनार्दनः ॥
स्वरूपं सस्मितं प्राह संत्यज्य द्विजतां क्षणात् ॥४१॥
श्रीभगवानुवाच ॥
भयं दधीच सर्वत्र नास्त्येव तव सुव्रत ॥
भवार्चनरतो यस्माद्भवान् सर्वज्ञ एव च ॥४२॥
बिभेमीति सकृद्वक्तुं त्वमर्हसि नमस्तव ॥
नियोगान्मम विप्रेंद क्षुपं प्रति सदस्यथ ॥४३॥
एवं श्रुत्वापि तद्वाक्यं सांत्वं विष्णोर्महामुनिः ॥
न बिभेमीति तं प्राह दधीचो देवसत्तमम् ॥४४॥
प्रभावाद्देवदेवस्य शंभोः साक्षात्पिनाकिनः ॥
शर्वस्य शंकरस्यास्य सर्वज्ञस्य महामुनिः ॥४५॥
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ॥
चक्रमुद्यम्य भगवान्दिधक्षुर्मुनिसत्तमम् ॥४६॥
अभवत्कुंठिताग्रं हि विष्णोश्चक्रं सुदर्शनम् ॥
प्रभावाद्धि दधीचस्य क्षुपस्यैव हि सन्निधौ ॥४७॥
दृष्ट्वा तत्कुंठिताग्रं हि चक्रं चक्रिणमाह सः ॥
दधीचः सस्मितं साक्षात्सद् व्यक्तिकारणम् ॥४८॥
भगवन् भवता लब्धं पुरातीव सुदारुणम् ॥
सुदर्शनमिति ख्यातं चक्रं विष्णो प्रयत्नतः ॥४९॥
भवस्यैतच्छुभं चक्र न जिघांसति मामिह ॥
ब्रह्मास्त्राद्यैस्तथान्यैर्हि प्रयत्नं कर्तुमर्हसि ॥५०॥
शैलादिरुवाच ॥
तस्य तद्वचनं श्रुत्वा दृष्ट्वा निर्वीर्यमायुधम् ॥
ससर्ज च पुनस्तस्मै सर्वास्त्राणि समंततः ॥५१॥
चक्रुर्देवास्ततस्तस्य विष्णोः साहाय्यमव्ययाः ॥
द्विजेनैकेन योद्धुं हि प्रवृत्तस्य महाबलाः ॥५२॥
कुशमुष्टिं तदादाय दधीचः संस्मरन्भवम् ॥
ससर्ज सर्वदेवेभ्यो वज्रास्थिः सर्वतो वशी ॥५३॥
दिव्यं त्रिशुलमभवत्कालाग्निसदृशप्रभम् ॥
दग्धुं देवान्मतिं चक्रे युगांताग्निरिवापरः ॥५४॥
इंद्रनारायणाद्यैश्च देवैस्त्यक्तानि यानि तु ॥
आयुधानि समस्तानि प्रणेमुस्त्रिशिखं मुने ॥५५॥
देवाश्च दुद्रुवुः सर्वे ध्वस्तवीर्या द्विजोत्तम ॥
ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ॥५६॥
आत्मनः सदृशान्दिव्यांल्लक्षलक्षायुतान् गणान् ॥
तानि सर्वाणि सहसा ददाह मुनिसत्तमः ॥५७॥
ततो विस्मयनार्थाय विश्वमूर्तिरभूद्धरिः ॥
तस्य देहे हरेः साक्षादपश्यद्द्विजसत्तमः ॥५८॥
दधीचो भगवान्विप्रः देवतानां गणान् पृथक् ॥
रुद्राणां कोटयश्चैव गणानां कोटयस्तदा ॥५९॥
अंडानां कोटयश्चैव विश्वमूर्तेस्तनौ तदा ॥
दृष्ट्वैतदखिलं तत्र च्यावनिर्विस्मितं तदा ॥६०॥
विष्णुमाह जगन्नाथं जगन्मयमजं विभुम् ॥
अंभसाभ्युक्ष्य तं विष्णुं विश्वरूपं महामुनिः ॥६१॥
मायां त्यज महाबाहो प्रतिभासा विचारतः ॥
विज्ञानानां सहस्राणि दुर्विज्ञेयानि माधव ॥६२॥
मयि पश्य जगतसर्वं त्वया सार्धमनिन्दित ॥
ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ॥६३॥
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ॥
तं प्राह च हरिं देवं सर्वदेवभवोद्भवम् ॥६४॥
मायया ह्यनया किं वा मंत्रशक्त्याथ वा प्रभो ॥
वस्तुशक्त्याथ वा विष्णो ध्यानशक्त्याथ वा पुनः ॥६५॥
त्यक्त्वा मायामिमां तस्माद्योद्धुमर्हसि यत्नतः ॥
एवं तस्य वचः श्रुत्वा दृष्ट्वा माहात्म्यमद्भुतम् ॥६६॥
देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ॥
वारयामास निश्चेष्टं पद्मयोनिर्जगद्गुरुः ॥६७॥
निशम्य वचनं तस्य ब्रह्मणस्तेन निर्जितः ॥
जगाम भगवान् विष्णुः प्रणिपत्य महामुनिम् ॥६८॥
क्षुपो दुःखातुरो भूत्वा संपूज्य च मुनीश्वरम् ॥
दधीचमभिवंद्याशु प्रार्थयामास विक्लवः ॥६९॥
दधीच क्षम्यतां देव मयाऽज्ञानात्कृतं सखे ॥
विष्णुना हि सुरैर्वापि रुद्रभक्तस्य किं तव ॥७०॥
प्रसीद परमेशाने दुर्लभा दुर्जनैर्द्विज ॥
भक्तिर्भक्तिमतां श्रेष्ठ मद्विधैः क्षत्रियाधमैः ॥७१॥
श्रुत्वानुगृह्य तं विप्रो दधीचस्तपतां वरः ॥
राजानं मुनिसार्दूलः शशाप च सुरोत्तमान् ॥७२॥
रुद्रकोपाग्निना देवाः सदेवेन्द्रा मुनीश्वरैः ॥
ध्वस्ता भवंतु देवेन विष्णुना च समन्विताः ॥७३॥
प्रजापतेरमखे पुण्ये दक्षस्य मुमहात्मनः ॥
एवं शप्त्वा क्षुपं प्रेक्ष्य पुनराह द्विजोत्तमः ॥७४॥
देवैश्च पूज्या राजेंद्रनृपैश्च विविधैर्गणैः ॥
ब्राह्मणा एव राजेंद्र बलिनः प्रभविष्णवः ॥७५॥
इत्युक्त्वा स्वोटजं विप्रः प्रविवेश महाद्युतिः ॥
दधीचमभिवंद्यैव जगाम स्वं नृपः क्षयम् ॥७६॥
तदेव तीर्थमभवत्स्थानेश्वरमिति स्मृतम् ॥
सथानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात् ॥७७॥
कथितस्तव संक्षेपाद्विवादः क्षुब्दधीचयोः ॥
प्रभावश्च दधीचस्य भवस्य च महामुने ॥७८॥
य इदं कीर्तयेद्दिव्यं विवादं क्षुब्दधीचयोः ॥
जित्वापमृत्युं देहांते ब्रह्मलोकं प्रयाति सः ॥७९॥
य इदं कीर्त्य संग्रामं प्रविशेत्तस्य सर्वदा ॥
नास्ति मृत्युभयं चैव विजयी च भविष्यति ॥८०॥
इति श्रीलिंगमहापुराणे पूर्वभागे क्षुपदधीचिसंवादो नाम षट्रत्रिंशोऽध्यायः ॥३६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP