पूर्वभागः - अध्यायः ७६
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.
सूत उवाच ॥
अतः परं प्रवक्ष्यामि स्वेच्छाविग्रहसंभवम् ॥
प्रतिष्ठायाः फलं सर्वं सर्वलोकहिताय वै ॥१॥
स्कंदोमासहितं देवमासीनं परमासने ॥
कृत्वा भक्या प्रतिष्ठाप्य सर्वान्कामानवाप्नुयात् ॥२॥
स्कंदोमासहितं देवं संपूज्य विधिना सकृत् ॥
यत्फलं लभते मर्त्यस्तद्वदामि यथाश्रुतम् ॥३॥
सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकैः ॥
रुद्रकन्यासमाकीर्णैर्गेयनाट्यसमन्वितैः ॥४॥
शिववत्क्रीडते योगी यावदाभूतसंप्लवम् ॥
तत्र भुक्त्वा महाभोगान् विमानैः सार्वकामिकैः ॥५॥
औमं कौमारमैशानं वैष्णवं ब्राह्ममेव च ॥
प्राजापत्यं महातेजा जनलोकं महस्तथा ॥६॥
ऐंद्रमासाद्य चैद्रत्वं कृत्वा वर्षायुतं पुनः ॥
भुक्त्वा चैव भुवर्लोके भोगान् दिव्यान् सुशोभनान् ॥७॥
मेरुमासाद्य देवानां भवनेषु प्रमोदते ॥
एकपादं चतुर्बाहुं त्रिनेत्रं शूलसंयुतम् ॥८॥
सृष्ट्वा स्थितं हरिं वामे दक्षिणे चतुराननम् ॥
अष्टाविंशतिरुद्राणां कोटिः सर्वांगसुप्रभम् ॥९॥
पंचविंशतिकं साक्षात्पुरुषं हृदयात्तथा ॥
प्रकृतिं वामतश्चैव बुद्धिं वै बुद्धिदेशतः ॥१०॥
अहंकारमहंकारात्तन्मात्राणि तु तत्र वै ॥
इंद्रियाणींद्रियादेव लीलया परमेश्वरम् ॥११॥
पृथिवीं पादमूलात्तु गुह्यदेशाज्जकं तथा ॥
नाबिदेशात्तथा वह्निं हृदयाद्भास्करं तथा ॥१२॥
कंठात्सोमं तथात्मानं भ्रूमध्यान्मस्तकाद्दिवम् ॥
सृष्टैवं संस्थितं साक्षाज्जगत्सर्वं चराचरम् ॥१३॥
सर्वज्ञं सर्वगं देवं कृत्वा विद्याविधानतः ॥
प्रतिष्ठाप्य यथान्यायं शिवसायुज्यमाप्नुयात् ॥१४॥
त्रिपादं सप्तहस्तं च चतुःश्रृंगं द्विशीर्षकम् ॥
कृत्वा यज्ञेशमीशानं विष्णुलोके महीयते ॥१५॥
तत्र भुक्त्वा महाभोगान्कल्पलक्षं सुखीनरः ॥
क्रमादागत्य लोकेऽस्मिन्सर्वयज्ञांतगो भवेत् ॥१६॥
वृषारूढं तु यः कुर्यात्सोमं सोमार्धभूषणम् ॥
हयमेधायुतं कृत्वा यत्पुण्यं तदवाप्य सः ॥१७॥
कांचनेन विमानेने किंकिणीजालमालिना ॥
गत्वा शिवपुरं दिव्यं तत्रैव स विमुच्यते ॥१८॥
नंदिना सहितं देवं सांबं सर्वगणैर्वृतम् ॥
कृत्वा यत्फलमाप्नोति वक्ष्ये तद्वै यथाश्रुतम् ॥१९॥
सूर्यमंडलसंकाशैर्विमानैवृषसंयुतैः ॥
अप्सरो गणसंकीर्णैर्देवदानवदुर्लभैः ॥२०॥
नृत्याद्भिरप्सरः संघैः सर्वतः सर्वशोभितैः ॥
गत्वा शिवपुरं दिव्यं गाणपत्यमवाप्नुयात् ॥२१॥
नृत्यंतं देवदेवेशं शैलजासहितं प्रभुम् ॥
सहस्रबाहुं सर्वज्ञं चतुर्बाहुमथापि वा ॥२२॥
भृग्वाद्यैर्भूतसंघैश्च संवृतं परमेश्वरम् ॥
शैलजासहितं साक्षाद्वृषभध्वजमीश्वरम् ॥२३॥
ब्रह्मेंद्रविष्णुसोमाद्यैः सदा सर्वैर्नमस्कृतम् ॥
मातभिर्मुनिभिश्चैव संवृतं परमेश्वरम् ॥२४॥
कृत्वा भक्त्या प्रतिष्ठाप्य यत्फलं तद्वदाम्यहम् ॥
सर्वयज्ञतपोदानतीर्थदेवेषु यत् फलम् ॥२५॥
तत्फलं कोटिगुणितं लब्ध्वा याति शिवं पदम् ॥
तत्र भुक्त्वा महाभोगान् यावदाभूतसंप्लवम् ॥२६॥
सृष्ट्यंतरे पुनः प्राप्ते मानवं पदमाप्नुयात् ॥
नग्नं चतुर्भुजं श्वेतं त्रिनेत्रं सर्पमेखलम् ॥२७॥
कपालहस्तं देवेशं कृष्णकुंचितमूर्धजम् ॥
कृत्वा भक्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात् ॥२८॥
इभेंद्रदारकं देवं सांबं सिद्धार्थदं प्रभुम् ॥
सुधूम्रवर्णं रक्ताक्षं त्रिनेत्रं चंद्रभूषणम् ॥२९॥
काकपक्षधरं मूर्ध्ना नागटंकधरं हरम् ॥
सिंहाजिनोत्तरीयं च मृगचर्मांबरं प्रभुम् ॥३०॥
तीक्ष्णदंष्ट्रं गदाहस्तं कपालोद्यतपाणिनम् ॥
हुंफट्कारे महाशब्दशब्दिताखिलदिङ्मुखम् ॥३१॥
पुंडरीकाजिनं दोर्भ्यां बिभ्रंतं कंबुकं तथा ॥
हसंतं च नदंतं च पिबंतं कृष्णसागरम् ॥३२॥
नृत्यंतं भूतसंघैश्च गणसंघैस्त्वलंकृतम् ॥
कृत्वा भक्त्या प्रतिष्ठाप्य यथाविभव विस्तरम् ॥३३॥
सर्वविघ्नातिक्रम्य शिवलोके महीयते ॥
तत्र भुक्त्वा महाभोगान् यावदाभूतसंप्लवम् ॥३४॥
ज्ञानं विचारतो लब्ध्वा रुद्रेभ्यस्तत्र मुच्यते ॥
अर्धनारीश्वरं देवं चतुर्भुजमनुत्तमम् ॥३५॥
वरदाभयहस्तं च शूलपद्मधरं प्रभुम् ॥
स्त्रीपुंभावेन संस्थानं सर्वाभरणभूषितम् ॥३६॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते ॥
तत्र भुक्त्वा महाभोगानणिमादिगुणैर्युतः ॥३७॥
आचंद्रतारकं ज्ञानं ततो लब्ध्वा विमुच्यते ॥
यः कुर्याद्देवदेवेशं सर्वज्ञं लकुलीश्वरम् ॥३८॥
वृतं शिष्यप्रशिष्यैश्च व्याख्यानोद्यतपाणिनम् ॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोकं स गच्छति ॥३९॥
भुक्त्वा तु विपुलांस्तत्र भोगान् युगशतं नरः ॥
ज्ञानयोगं समासाद्य तत्रैव च विमुच्यते ॥४०॥
पूर्वदेवामराणां च यत्स्थानं सकलेप्सितम् ॥
कृतमुद्रस्य देवस्य चिताभस्मानुलेपिनः ॥४१॥
त्रिपुंड्रधारिणस्तेषां शिरोमालाधरस्य च ॥
ब्रह्मणः केशकेनैकमुपवीतं च बिभ्रतः ॥४२॥
बिभ्रतो वामहस्तेन कपालं ब्रह्मणो वरम् ॥
विष्णोः कलेवरं चैव बिभ्रतः परमेष्ठिनः ॥४३॥
कृत्वा भक्त्या प्रतिष्ठाप्य मुच्यते भवसागरात् ॥
ओंनमो नीलकंठाय इति पुण्याक्षराष्टकम् ॥४४॥
मंत्रमाह सकृद्वा यः पातकैः स विमुच्यते ॥
मंत्रेणानेन गंधाद्यैर्भक्त्या वित्तानुसारतः ॥४५॥
संपूज्य देवदेवेशं शिवलोके महीयते ॥
जालंधरांतकं देवं सुदर्शनधरं प्रभुम् ॥४६॥
कृत्वा भक्त्या प्रतिष्ठाप्य द्विधाभूतं जलंधरम् ॥
प्रयाति शिवसायुज्यं नात्र कार्या विचारणा ॥४७॥
सुदर्शनप्रदं देवं साक्षात्पूर्वोक्तलक्षणम् ॥
अर्चमानेन देवेन चार्चितं नेत्रपूजया ॥४८॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते ॥
तिष्ठतोथ निकुंभस्य पृष्ठतश्चरणांबुजम् ॥४९॥
वामेतां सुविन्यस्य वामे चालिंग्य चाद्रिजाम् ॥
शूलाग्रे कूर्परं स्थाप्य किंकिणी कृतपन्नगम् ॥५०॥
संप्रेक्ष्य चांधकं पार्श्वे कृतांजलिपुटं स्थितम् ॥
रूपं कृत्वा यथान्यायं शिवसायुज्यमाप्नुयात् ॥५१॥
यः कुर्याद्देवदेवेशं त्रिपुरांतकमीश्वरम् ॥
धनुर्बाणसमायुक्तं सोमं सोमार्धभूषणम् ॥५२॥
रथे सुसंस्थितं देवं चतुराननसारथिम् ॥
तदाकारतया सोपि गत्वा शिवपुरं सुखी ॥५३॥
क्रीडते नात्र संदेहो द्वितीय इव शंकरः ॥
तत्र भुक्त्वा महाभोगान्यावदिच्छ द्विजोत्तमाः ॥५४॥
ज्ञानं विचारितं लब्ध्वा तत्रैव स विमुच्यते ॥
गंगाधरं सुखासीनं चंद्रशेखरमेव च ॥५५॥
गंगया सहितं चैव वामोत्संगेंबिकान्वितम् ॥
विनायकं तथा स्कंदं ज्येष्ठं दुर्गां सुशोभनाम् ॥५६॥
भास्करं च तथा सोमं ब्रह्माणीं च महेश्वरीम् ॥
कौमारीं वैष्णवीं देवीं वाराहीं वारदां तथा ॥५७॥
इंद्राणीं चैव चामुंडां वीरभद्रसमन्विताम् ॥
विघ्नेशेन च यो धीमान् शिवसायुज्यमाप्नुयात् ॥५८॥
लिंगमूर्तिं महाज्वालमालासंवृतमव्ययम् ॥
लिंगस्य मध्ये वै कृत्वा चंद्रशेखरमीश्वरम् ॥५९॥
व्योम्निकुर्यात्तथा लिंगं ब्रह्माणं हंसरूपिणम् ॥
विष्णुं वराहरूपेण लिंगस्याधस्त्वधोमुखम् ॥६०॥
ब्रह्माणं दक्षिणे तस्य कृतांजलिपुटं स्थितम् ॥
मध्ये लिंगं महाघोरं महाम्भसि च संस्थितम् ॥६१॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात् ॥
क्षेत्रसंरक्षकं देवं तथा पाशुपतं प्रभुम् ॥६२॥
कृत्वा भक्त्या यथान्यायं शिवलोके महीयते ॥६३॥
इति श्रीलिंगमहापुराणे पूर्वभागे शिवमूर्तिप्रतिष्ठाफलकथनं नाम षट्सप्ततितमोऽध्यायः ॥७६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP