पूर्वभागः - अध्यायः ३७
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.
सनत्कुमार उवाच ॥
भवान्कथमनुप्राप्तो महादेवमुमापतिम् ॥
श्रोतुमिच्छामि तत्सर्वं वक्तुमर्हसि मे प्रभो ॥१॥
शैलादिरुवाच ॥
प्रजाकामः शिलादोभूत्पिता मम महामुने ॥
सोप्यंधः सुचिरं कालं तपस्तेपे सुदुश्चरम् ॥२॥
तपतस्तस्य तपसा संतुष्टो वज्रधृक् प्रभुः ॥
शिलादमाह तुष्टोस्मि वरयस्व वरानिति ॥३॥
ततः प्रणम्य देवेशं सहस्राक्षं सहामरैः ॥
प्रोवाच मुनिशार्दूल कृतांजलिपुटो हरिम् ॥४॥
शिलाद उवाच ॥
भगवन्देवतारिघ्न सहस्राक्ष वरप्रद ॥
अयोनिजं मृत्युहीनं पुत्रमिच्छामि सुव्रत ॥५॥
शक्र उवाच ॥
पुत्रं दास्यामि विप्रर्षे योनिजं मृत्युसंयुतम् ॥
अन्यता ते न दास्यामि मृत्युहीना न संति वै ॥६॥
न दास्यति सुतं तेऽत्र मृत्युहीनमयोनिजम् ॥
पितामहोपि भगवान्किमुतान्ये महामुने ॥७॥
सोपि देवः स्वयं ब्रह्मा मृत्युहीनो न चेश्वरः ॥
योनिजश्च महा तेजाश्चाण्डजः पद्मसंभवः ॥८॥
महेश्वरांगजश्चैव भवान्यास्तनयः प्रभुः ॥
तस्याप्यायुः समाख्यातं परार्धद्वयसंमितम् ॥९॥
कोटिकोटिसहस्राणि अहर्भूतानि यानि वै ॥
समतीतानि कल्पानां तावच्छेषा परत्र ये ॥१०॥
तस्मादयोनिजे पुत्रे मृत्युहीने प्रयत्नतः ॥
परित्यजाशां विप्रेंद्र गृहाणात्मसमं सुतम् ॥११॥
शैलादिरुवाच ॥
तस्य तद्वचनं श्रुत्वा पिता मे लोकविश्रुतः ॥
शिलाद इति पुण्यात्मा पुनः प्राह शचीपतिम् ॥१२॥
शिलाद उवाच ॥
भगवन्नंडयोनित्वं पद्मयोनित्वमेव च ॥
महेश्वरांगयोनित्वं श्रुतं वै ब्रह्मणो मया ॥१३॥
पुरा महेंद्रदायादाद्गदतश्चास्य पूर्वजात् ॥
नारदाद्वै महाबाहो कथमत्राशु नो वद ॥१४ ॥
दाक्षायणी सा दक्षोपि देवः पद्मोद्भवात्मजः ॥
पौजी कनकगर्भस्य कथं तस्याः सुतो विभुः ॥१५॥
शक्र उवाच ॥
स्थाने संशयितुं विप्र तव वक्ष्यामि कारणम् ॥
कल्पे तत्पुरुषे वृत्तं ब्रह्मणः परमेष्ठिनः ॥१६॥
ससर्ज सकलं ध्यात्वा ब्रह्माणं परमेश्वरः ॥
जनार्दनो जगन्नाथः कल्पे वै मेघवाहने ॥१७॥
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धरम् ॥
नारायणो महादेवं बहुमानेन सादरम् ॥१८॥
दृष्ट्वा भावं महादेवो हरेः स्वात्मनि शंकरः ॥
प्रददौ तस्य सकलं स्रष्टुं वै ब्रह्मणा सह ॥१९॥
तदा तं कल्पमाहुर्वै मेघवाहनसंज्ञया ॥
हिरण्यगर्भस्तं दृष्ट्वा तस्य देहोद्भवस्तदा ॥२०॥
जनार्दनसुतः प्राह तपसा प्राप्य शंकरम् ॥
तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥२१॥
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥
जगन्मयोवहद्यस्मान्मेघो भूत्वा दिवानिशम् ॥२२॥
भवंतमवहद्विष्णुर्देवदेवं जगद्गुरुम् ॥
नारायणादपि विभो भक्तोहं तव शंकर ॥२३॥
प्रसीद देहि मे सर्वं सर्वात्मत्वं तव प्रभो ॥
तदाथ लब्ध्वा भगवान् भवात्सर्वात्मतां क्षणात् ॥२४॥
त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥
एकार्णवालये शुभ्रे त्वन्धकारे सुदारुणे ॥२५॥
हेमरत्नचिते दिव्ये मनसा च विनिर्मिते ॥
दुष्प्राप्ये दुर्जनैः पुण्यैः सनकाद्यैरगोचरे ॥२६॥
जगदावासहृदयं ददर्श पुरुषं त्वजः ॥
अनंत भोगशय्यायां शायिनं पंकजेक्षणम् ॥२७॥
शंखचक्रगदापद्मं धारयन्तं चतुर्भुजम् ॥
सर्वाभरणसंयुक्तं शशिमंडलसन्निभम् ॥२८॥
श्रीवत्स लक्षणं देवं प्रसन्नास्यं जनार्दनम् ॥
रमामृदुकरांभोजस्पर्शरक्तपदांबुजम् ॥२९॥
परमात्मानमीशानं तमसा कालरूपिणम् ॥
रजसा सर्वलोकानां सर्गलीलाप्रवर्तकम् ॥३०॥
सत्त्वेन सर्वभूतानां स्थापकं परमेश्वरम् ॥
सर्वात्मानं महात्मानं परमात्मानमीश्वरम् ॥३१॥
क्षीरार्णवेऽमृतमये शायिनं योगनिद्रया ॥
तं दृष्ट्वा प्राह वै ब्रह्मा भगवन्तं जनार्दनम् ॥३२॥
ग्रसामि त्वां प्रसादेन यथापूर्वं भवानहम् ॥
स्मयमानस्तु भगवान् प्रतिबुध्य पितामहम् ॥३३॥
उदैक्षत महाबाहुः स्मितमीषच्चकार सः ॥
विवेश चांडजं तं तु ग्रस्तस्तेन महात्मना ॥३४॥
ततस्तं चासृजद्ब्रह्म भ्रुवोर्मध्येन चाच्युतम् ॥
सृष्टस्तेन हरिः प्रेक्ष्य स्थितस्तस्याथ सन्निधौ ॥३५॥
एतस्मिन्नंतरे रुद्रः सर्वदेवभवोद्भवः ॥
विकृतं रूपमास्थाय पुरा दत्तवरस्तयोः ॥३६॥
आगच्छद्यत्र वै विष्णुर्विश्वात्मा परमेश्वरः ॥
प्रसादमतुलं कर्तुं ब्रह्मणश्च हरेः प्रभुः ॥३७॥
ततः समेत्य तौ देवौ सर्वदेवभवोद्भवम् ॥
अपश्यतां भवं देवं कालाग्निसदृशं प्रभुम् ॥३८॥
तौ तं तुष्टुवतुश्चैव शर्वमुग्रं कपर्दिनम् ॥
प्रणेमतुश्च वरदं बहुमानेन दूरतः ॥३९॥
भवोपि भगवान् देवमनुगृह्य पितामहम् ॥
जनार्दनं जगन्नाथस्तत्रैवांतरधीयत ॥४०॥
इति श्रीलिंगमहापुराणे पूर्वभागे ब्रह्मणो वरप्रदानं नाम सप्तत्रिंशोऽध्यायः ॥३७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP