पूर्वभागः - अध्यायः ७३
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.
सूत उवाच ॥
गते महेश्वरे देवे दग्ध्वा च त्रिपुरं क्षणात् ॥
सदस्याह सुरेंद्राणां भगवान्पद्मसंभवः ॥१॥
पितामह उवाच ॥
संत्यज्य देव देवेशं लिंगमूर्ति महेश्वरम् ॥
तारपौत्रो महातेजास्तारकस्य सुतो बली ॥२॥
तारकाक्षोपि दितिजः कमलाक्षश्च वीर्यवान् ॥
विद्युन्माली च दैत्येशः अन्ये चापि सबांधवाः ॥३॥
त्यक्त्वा देवं महादेवं मायया च हरेः प्रभोः ॥
सर्वे विनष्टाः प्रध्वस्ताः स्वपुरैः पुरसंभवैः ॥४॥
तस्मात्सदा पूजनीयो लिंगमूर्तिः सदाशिवः ॥
यावत्पूजा सुरेशानां तावदेव स्थितिर्यतः ॥५॥
पूजनीयः शिवो नित्यं श्रद्धया देवपुंगवैः ॥
सर्वलिंगमयो लोकः सर्वं लिंगे प्रतिष्ठितम् ॥६॥
तस्मात्संपूजयेल्लिंगं य इच्छेत्सिद्धिमात्मनः ॥
सर्वे लिंगार्चनादेव देवा दैत्याश्च दानवाः ॥७॥
यक्षा विद्याधराः सिद्धा राक्षसाः पिशिताशनाः ॥
पितरो मुनयश्चापि पिशाचाः किन्नरादयः ॥८॥
अर्चयित्वा लिंगमूर्ति संसिद्धा नात्र संशयः ॥
तस्माल्लिंगं यजेन्नित्यं येन केनापि वा सुराः ॥९॥
पशवश्च वयं तस्य देवदेवस्य धीमतः ॥
पशुत्वं च परित्यज्य कृत्वा पाशुपतं ततः ॥१०॥
पूजनीयो महादेवो लिंगमूर्तिः सनातनः ॥
विशोध्य चैव भूतानि पंचभिः प्रणवैः समम् ॥११॥
प्राणायामैः समायुक्तैः पंचभिः सुरपुंगवाः ॥
चतुर्भिः प्रणवैश्चैव प्राणायामपरायणैः ॥१२॥
त्रिभिश्च प्रणवैर्देवाः प्राणायामैस्तथाविधैः ॥
द्विधा न्यस्य तथोंकारं प्राणायामपरायणः ॥१३॥
ततश्चोंकारमुच्चार्य प्राणापानौ नियम्य च ॥
ज्ञानामृतेन सर्वांगान्यापूर्य प्रणवेन च ॥१४॥
गुणत्रयं चतुर्धाख्यमहंकारं च सुव्रताः ॥
तन्मात्राणि च भूतानि तथा बुद्धींद्रियाणि च ॥१५॥
कर्मेंद्रियाणि संशोध्य पुरुषं युगलं तथा ॥
चिदात्मानं तनुं कृत्वा चाग्निर्भस्मेति संस्पृशेत् ॥१६॥
वायुर्भस्मेति च व्योम तथांभो पृथिवी तथा ॥
त्रियायुषं त्रिसंध्यं च धूलयेद्भसितेन यः ॥१७॥
स योगी सर्वतत्त्वज्ञो व्रतं पाशुपतं त्विदम् ॥
भवेन पाशमोक्षार्थं कथितं देवसत्तमाः ॥१८॥
एवं पाशुपतं कृत्वा संपूज्य परमेश्वरम् ॥
लिंगे पुरा मया दृष्टे विष्णुना च महात्मना ॥१९॥
पशवो नैव जायंते वर्षमात्रेण देवताः ॥
अस्माभिः सर्वकार्याणां देवमभ्यर्च्य यत्नतः ॥२०॥
बाह्ये चाभ्यंतरे चैव मन्ये कर्तव्यमीश्वरम् ॥
प्रतिज्ञा मम विष्णोश्च दिव्यैषा सुरसत्तमाः ॥२१॥
मुनीनां च न संदेहस्तस्मात्संपूजयेच्छिवम् ॥
सा हानिस्तन्महच्छिद्रं स मोहः सा च मूकता ॥२२॥
यत्क्षणं वा मुहूर्तं वा शिवमेकं न चिंतयेत् ॥
भवभक्तिपरा ये च भवप्रणतचेतसः ॥२३॥
भवसंस्मरणोद्युक्ता न ते दुःखस्य भाजनम् ॥
भवनानि मनोज्ञानि दिव्यमाभरणं स्त्रियः ॥२४॥
धनं वा तुष्टिपर्यंतं शिवपूजाविधेः फलम् ॥
ये वांछंति महाभोगान् राज्यं च त्रिदशालये ॥
तेऽर्चयंतु सदा कालं लिंगमूर्तिं महेश्वरम् ॥२५॥
हत्वा भित्त्वा च भूतानि दग्ध्वा सर्वमिदं जगत् ॥२६॥
यजेदेकं विरूपाक्षं न पापैः स प्रलिप्यते ॥
शैलं लिंगं मदीयं हि सर्वदेवनमस्कृतम् ॥२७॥
इत्युक्त्वा पूर्वमभ्यर्च्य रुद्रं त्रिभुवनेश्वरम् ॥
तुष्टाव वाग्भिरिष्टाभि र्देवदेवं त्रियंबकम् ॥२८॥
तदाप्रभृति शक्राद्याः पूजयामासुरीश्वरम् ॥
साक्षात्पाशुपतं कृत्वा भस्मोद्धूलितविग्रहाः ॥२९॥
इति श्रीलिंगमहापुराणे पूर्वभागे ब्रह्मप्रोक्तलिंगार्चनविधिर्नाम त्रिसप्ततितमोध्यायः ॥७३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP