संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ७१

पूर्वभागः - अध्यायः ७१

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


ऋषय ऊचुः ॥
समासाद्विस्तराच्चैव सर्गः प्रोक्तस्त्वया शुभः ॥
कथं पशुपतिश्चासीत्पुरं दग्धुं महेश्वरः ॥१॥

कथं च पशवश्चासन्देवाः सब्रह्मकाः प्रभोः ॥
मयस्य तपसा पूर्वं सुदुर्गं निर्मितं पुरम् ॥२॥

हैमं च राजतं दिव्यमयस्मय मनुत्तमम् ॥
सुदुर्गं देवदेवेन दग्धमित्येव नः श्रुतम् ॥३॥

कथं ददाह भगवान् भगनेत्रनिपातनः ॥
एकेनेषुनिपातेन दिव्येनापि तदा कथम् ॥४॥

विष्णुनोत्पादितैर्भूतैर्न दग्धं तत्पुरत्रयम् ॥
पुरस्य संभवः सर्वो वरलाभः पुरा श्रुतः ॥५॥

इदानीं दहनं सर्वं वक्तुमर्हसि सुव्रत ॥
तेषां तद्वचनं श्रुत्वा सूताः पौराणिकोत्तमः ॥६॥

यथा श्रुतं तथा प्राह व्यासाद्विश्वार्थसूचकात् ॥
सूत उवाच ॥
त्रैलोक्यस्यास्य शापाद्धिमनोवाक्कायसंभवात् ॥७॥

निहते तारके दैत्ये तारपुत्रे सबांधवे ॥
स्कंदेन वा प्रयत्नेन तस्य पुत्रा महाबलाः ॥८॥

विद्युन्माली तारकाक्षः कमलाक्षश्च वीर्यवान् ॥
तपस्तेपुर्महात्मानो महाबलपराक्रमाः ॥९॥

तप उग्रं समास्थाय नियमे परमे स्थिताः ॥
तपसा कर्शयामासुर्देहान् स्वान्दानवोत्तमाः ॥१०॥

तेषां पितामहः प्रीतो वरदः प्रददौ वरम् ॥
दैत्या ऊचुः ॥
अवध्यत्वं च सर्वेषां सर्वभूतेषु सर्वदा ॥११॥

सहिता वरयामासुः सर्वलोकपितामहम् ॥
तानब्रवीत्तदा देवो लोकानां प्रभुरख्ययः ॥१२॥

नास्ति सर्वामरत्वं वै निवर्तध्वमतोसुराः ॥
अन्यं वरं वृणीध्वं वै यादृशं संप्ररोचते ॥१३॥

ततस्ते सहिता दैत्याः संप्रधार्य परस्परम् ॥
ब्रह्माणमब्रुवन्दैत्याः प्रणिपत्य जगद्गुरुम् ॥१४॥

वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ॥
विचरिष्याम लोकेश त्वत्प्रसादाज्जगद्गुरो ॥१५॥

तथा वर्षसहस्रेषु समेष्यामः परस्परम् ॥
एकीभावं गमिष्यंति पुराण्येतानि चानघ ॥१६॥

समागतानि चैतानि यो हन्याद्भगवंस्तदा ॥
एकेनैवेषुणा देवः स नो मृत्युर्भविष्यति ॥१७॥

एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ॥
ततो मयः स्वतपसा चक्रे वीरः पुराण्यथ ॥१८॥

कांचनं दिवि तत्रासीदंतरिक्षे च राजतम् ॥
आयसं चाभवद्भूमौ पुरं तेषां महात्मनाम् ॥१९॥

एकैकं योजनशतं विस्तारायामतः समम् ॥
कांचनं तारकाक्षस्य कमलाक्षस्य राजतम् ॥२०॥

विद्युन्मालेश्चायसं वै त्रिविधं दुर्गमुत्तमम् ॥
मयश्च बलवांस्तत्र दैत्यदानवपूजितः ॥२१॥

हैरण्ये राजते चैव कृष्णायसमये तथा ॥
आलयं चात्मनः कृत्वा तवास्ते बलवांस्तदा ॥२२॥

एवं बभूवुर्दैत्यानामतिदुर्गाणि सुव्रताः ॥
पुराणि त्रीणी विप्रेंद्रास्त्रैलोक्यमिव चापरम् ॥२३॥

पुरत्रये तदा जाते सर्वे दैत्या जगत्त्रये ॥
पुरत्रयं प्रविश्यैव बभूवुस्ते बलाधिकाः ॥२४॥

कल्पद्रुमसमाकीर्णं गजवाजिसमाकुलम् ॥
नानाप्रसादसंकीर्णं मणिजालैः समावृतम् ॥२५॥

सूर्यमंडलसंकाशैर्विमानैर्विश्वतोमुखैः ॥
पद्मरागमयैः शुभ्रैः शोभितं चंद्रसंन्निभैः ॥२६॥

प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः ॥
शोभितं त्रिपुरं तेषां पृथक्पृथगनुत्तमैः ॥२७॥

दिव्यस्त्रीभिः सुसंपूर्णं गंधर्वैः सिद्धचारणैः ॥
रुद्रालयैः प्रतिगृहं साग्निहोत्रैर्द्विजोत्तमाः ॥२८॥

वापीकूपतडागैश्च दीर्घिकाभिस्तु सर्वतः ॥
मत्तमातंगयूथैश्च तुरंगैश्च सुशोभनैः ॥२९॥

रथैश्च विविधाकारैर्विचित्रैर्विश्वतोमुखैः ॥
सभा प्रपादिभिश्चैव क्रीडास्थनैः पृथक्पृथक् ॥३०॥

वेदाध्ययनशालाभिर्विविधाभिः समंततः ॥
अधृष्यं मनसाप्यन्यैर्मयस्यैव च मायया ॥३१॥

पतिव्रताभिः सर्वत्र सेवितं मुनिपुंगवाः ॥
कृत्वापि सुमहत्पापामपापैः शंकरार्चनात् ॥३२॥

दैत्येश्वरैर्महाभागैः सदारैः ससुतैर्द्विजाः ॥
श्रौतस्मार्तार्थधर्मज्ञैस्तद्धर्मनिरतैः सदा ॥३३॥

महादेवेतरं त्यक्त्वा देवं तस्यार्चनं स्थितैः ॥
व्यूढोरस्कैर्वृषस्कंधैः सर्वायुधधरैः सदा ॥३४॥

सर्वदा क्षुधितैश्चैव दावाग्निसदृशेक्षणैः ॥
प्रशांतैः कुपितैश्चैव कुब्जैर्वामनकैस्तथा ॥३५॥

नीलोत्पल दलप्रख्यैर्नीलकुंचितमूर्धजैः ॥
नीलाद्रिमेरुसंकाशैर्नीरदोपमनिःस्वनैः ॥
मयेन रक्षितैः सर्वैः शिक्षितैर्युद्धलालसैः ॥३६॥

अथ समररतैः सदा समंताच्छिवपदपूजनया सुलब्धवीर्यैः ॥
रविमरुदमरेंद्रसन्निकाशैः सुरमथनैः सुदृढैः सुसेवितं तत् ॥३७॥

सेंद्रा देवा द्विजश्रेष्ठा द्रुमा दावाग्निना यथा ॥
पुरत्रयाग्निना दग्धा ह्यभवन्दैत्यवैभवात् ॥३८॥

अथैवं ते तदा दग्धा देवा देवेश्वरं हरिम् ॥
अभिवंद्य तदा प्राहुस्तप्रतिमवर्चसम् ॥३९॥

सोपि नारायणः श्रीमान् चिंतयामास चेतसा ॥
किं कार्यं देवकार्येषु भगवानिति स प्रभुः ॥४०॥

तदा सस्मार वै यज्ञं यज्ञमूर्तिर्जनार्दनः ॥
यज्वा यज्ञभुगीशानो यज्वनां फलदः प्रभुः ॥४१॥

ततो यज्ञः स्मृतस्तेन देवकार्यार्थसिद्धये ॥
देवं ते पुरुषं चैव प्रणेमुस्तुष्टुवुस्तदा  ॥४२॥

भगवानपि तं दृष्ट्वा यज्ञं प्राह सनातनम् ॥
सनातनस्तदा सेन्द्रान्देवां नालोक्य चाच्युतः ॥४३॥

श्रीविष्णुरुवाच ॥
अनेनोपसदा देवा यजध्वं परमेश्वरम् ॥
पुरत्रयविनाशाय जगत्त्रयविभूतये ॥४४॥

सूत उवाच ॥
अथ तस्य वचः श्रुत्वा देवदेवस्य धीमतः ॥
सिंहनादं महत्कृत्वा यज्ञेशं तुष्टुवुः सुराः ॥४५॥

ततः संचिंत्य भगवान् स्वयमेव जनार्दनः ॥
पुनः प्राह स सर्वांस्तांस्त्रिदशांस्त्रिदशेश्वरः ॥४६॥

हत्वा दग्ध्वा च भूतानि भुक्त्वा चान्यायतोऽपि वा ॥
यजेद्यदि महादेवमपापो नात्र संशयः ॥४७॥

अपापा नैव हंतव्याः पापा एव न संशयः ॥
हंतव्याः सर्वयत्नेन कथं वध्याः सुरोत्तमाः ॥४८॥

असुरा दुर्मदाः पापा अपि देवैर्महाबलैः ॥
तस्मान्न वध्या रुद्रस्य प्रभावत्परमेष्ठिनः ॥४९॥

कोहं ब्रह्माथवा देवा दैत्या देवारिसूदनाः ॥
मुनयश्च महात्मानः प्रसादेन विना प्रभोः ॥५०॥

यः सप्तविंशको नित्यः परात्परतरः प्रभुः ॥
विश्वामरेश्वरो वंद्यो विश्वाधारो महेश्वरः ॥५१॥

स एव सर्वदेवेशः सर्वेषामपि शंकरः ॥
लीलया देवदैत्येंद्रविभागमकरोद्धरः ॥५२॥

तस्यांशमेकं सम्पूज्य देवा देवत्वमागताः ॥
ब्रह्मा ब्रह्मत्वमापन्नो ह्यहं विष्णुत्वमेव च ॥५३॥

तमपूज्य जगत्यस्मिन् कः पुमान् सिद्धिमिच्छति ॥
तस्मात्तेनैव हंतव्या लिंगार्चनविधेर्बलात् ॥५४॥

धर्मनिष्ठाश्च ते सर्वे श्रौतस्मार्तविधौ स्थिताः ॥
तथापि यजमानेन रौद्रेणोपसदा प्रभुम् ॥
रुद्रमिष्ट्वा यथान्यायं जेष्यामो दैत्यसत्तमान् ॥५५॥

सतारकाक्षेण मयेन गुप्तं स्वस्थं च गुप्तं स्फटिकाभमेकम् ॥
को नाम हंतुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवंतमेकम् ॥५६॥

सूत उवाच ॥
एवमुक्त्वा हरिश्चेष्ट्वा यज्ञेनोपसदा प्रभुम् ॥
उपविष्टो ददर्शाथ भूतसंघान्सहस्रशः ॥५७॥

शूलशक्तिगदाहस्तान् टंकोपलशिलायुधान् ॥
नानाप्रहरणोपेतान्नानावेषधरांस्तदा ॥५८॥

कालाग्निरुद्रसंकाशान् कालरुद्रोपमांस्तदा ॥
प्राह देवो हरिः साक्षात्प्रणिपत्यस्थितान् प्रभुः ॥५९॥

विष्णुरुवाच ॥
दग्ध्वा भित्त्वा च भुक्त्वा च गत्वा दैत्यपुरत्रयम् ॥
पुनर्यथागतं वीरा गंतुमर्हथ भूतये ॥६०॥

ततः प्रणम्य देवेशं भूतसंघाः पुरत्रयम् ॥
प्रविश्य नष्टास्ते सर्वे शलभा इव पावकम् ॥६१॥

ततस्तु नष्टास्ते सर्वे भूता देवेश्वराज्ञया ॥
ननृतुर्मुमुदुश्चैव जगुर्दैत्याः सहस्रशः ॥६२॥

तुष्टुवुर्देवदेवेशं परमात्मानमीश्वरम् ॥
ततः पराजिता देवा ध्वस्तवीर्याः क्षणेन तु ॥६३॥

सेन्द्राः संगम्य देवेशमुपेन्द्रं धिष्ठिता भयात् ॥
तान्दृष्ट्वा चिंतयामास भगवान्पुरुषोत्तमः ॥६४॥

किं कृत्यमिति संतप्तः संतप्तान्सेन्द्रकान्क्षणम् ॥
कथं तु तेषां दैत्यानां बलं हत्वा प्रयत्नतः ॥६५॥

देवकार्य्यं करिष्यामि प्रसादात्परमेष्ठिनः ॥
पापं विचारतो नास्ति धर्मिष्ठानां न संशयः ॥६६॥

तस्माद्दैत्या न वध्यास्ते भूतैश्चोपसदोद्भवैः ॥
पापं नुदति धर्मेण धर्में सर्वं प्रतिष्ठितम् ॥६७॥

धर्मादैश्वर्यमित्येषा श्रुतिरेषा सनातनी ॥
दैत्याश्चैते हि धर्मिष्ठाः सर्वे त्रिपुरवासिनः ॥६८॥

तस्मादवध्यतां प्राप्ता नान्यथा द्विजपुंगवाः ॥
कृत्वापि सुमहत्पापं रुद्रमभ्यर्चयंति ये ॥६९॥

मुच्यंते पातकैः सर्वैः पद्मपत्रमिवांभसा ॥
पूजया भोगसंपत्तिरवश्यं जायते द्विजाः ॥७०॥

तस्मात्ते भोगिनो दैत्या लिंगार्चनपरायणाः ॥
तस्मात्कृत्वा धर्मविघ्नमहं देवाः स्वमायया ॥७१॥

दैत्यानां देवाकार्यार्थं जेष्येहं त्रिपुरं क्षणात् ॥
सूत उवाच ॥
विचार्यैनं ततस्तेषां भगवान्पुरुषोत्तमः ॥
कर्तुं व्यवसितश्चाभूद्धर्मविघ्नं सुरारिणाम् ॥७२॥

असृजच्च महातेजाः पुरुषं चात्मसंभवम् ॥
मायी मायामयं तेषां धर्मविघ्नार्थमच्युतः ॥७३॥

शास्त्रं च शास्ता सर्वेषामकरोत्कामरूपधृक् ॥
सर्वसंमोहनं मायी दृष्टप्रत्ययसंयुतम् ॥७४॥

एतत्स्वांगभवायैव पुरुषायोपदिश्य तु ॥
मायी मायामयं शास्त्रं ग्रंथषोडशलक्षकम् ॥७५॥

श्रौतस्मार्तविरुद्धं च वर्णाश्रमविवर्जितम् ॥
इहैव स्वर्गनरकं प्रत्ययं नान्यथा पुनः ॥७६॥

तच्छास्त्रमुपदिश्यैव पुरुषायाच्युतः स्वयम् ॥
पुरत्रयविनाशाय प्राहौनं पुरुषं हरिः ॥७७॥

गंतुमर्हसि नाशाय भो तूर्णं पुरवासिनाम् ॥
धर्मास्तथा प्रमश्यंतु श्रौतस्मार्ता न संशयः ॥७८॥

ततः प्रणम्य तं मायी मायाशास्त्रविशारदः ॥
प्रविश्य तत्पुरं तूर्णं मुनिर्मायां तदाकरोत् ॥७९॥

मायया तस्य ते दैत्याः पुरत्रयनिवासिनः ॥
श्रैतं स्मार्तं च संत्यज्य तस्य शिष्यास्तदाभवन् ॥८०॥

तत्यजुश्च महादेवं शंकरं परमेश्वरम् ॥
नारदोपि तदा मायी नियोगान्मायिनः प्रभोः ॥८१॥

प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः ॥
मुनिः शिष्यैः प्रशिष्यैश्च संवृतः सर्वतः स्वयम् ॥८२॥

स्त्रीधर्मं चाकरोत्स्त्रीणां दुश्चारफलसिद्धिदम् ॥
चक्रुस्ताः सर्वदा लब्ध्वा सद्य एव फलं स्त्रियः ॥८३॥

जनासक्ता बभूवुस्ता विनिंद्य पतिदेवताः ॥
अद्यापि गौरवात्तस्य नारदस्य कलौ मुनेः ॥८४॥

नार्यश्चरंति संत्यज्य भर्तॄन्स्वैरं वृथाधमाः ॥
स्त्रीणां माता पिता बंधुः सखा मित्रं च बांधवः ॥८५॥

भर्ता एव न संदेहस्तथाप्यासहमायया ॥
कृत्वापि सुमहत्पापं या भर्तुः प्रेमसंयुता ॥८६॥

प्रप्नुयात्परमं स्वर्गं नरकं च विपर्ययात् ॥
पुरैकामुनिशार्दूलाः सर्वधर्मान् सदा पतिम् ॥८७॥

संत्यज्यापूजयन्साध्व्यो देवानन्याञ्जगद्गुरून् ॥
ताः स्वर्गलोकमासाद्य मोदंते विगतज्वराः ॥८८॥

नरकं च जगामान्या तस्माद्भर्ता परा गतिः ॥
तथापि भर्तॄन्स्वांस्त्यक्त्वा बभूवुः स्वैरवृत्तयः ॥८९॥

मायया देवदेवस्य विष्णोस्तस्याज्ञया प्रभोः ॥
अलक्ष्मीश्च स्वयं तस्य नियोगात्त्रिपुरं गता ॥९०॥

या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वरादजात् ॥
बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः ॥९१॥

बुद्धि मोहं तथामूतं विष्णुमायाविनिर्मितम् ॥
तेषां दत्त्वा क्षणं देवस्तासां मायी च नारदः ॥९२॥

सुखासीनौ ह्यसंभ्रांतौ धर्मविघ्नार्थमव्ययौ ॥
एवं नष्टे तदा धर्मे श्रौतस्मार्ते सुशोभने ॥९३॥

पाषंडे ख्यापिते तेन विष्णुना विश्वयोनिना ॥
त्यक्ते महेश्वरे दैत्यैस्त्यक्ते लिंगार्चने तथा ॥९४॥

स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते ॥
कृतार्थ इव देवेशो देवैः सार्धमुमापतिम् ॥९५॥

तपसा प्राप्य सर्वज्ञं तुष्टाव पुरुषोत्तमः ॥
श्रीभगवानुवाच ॥
महेश्वराय देवाय नमस्ते परमात्मने ॥९६॥

नारायणाय शर्वाय ब्रह्मणे ब्रह्मरूपिणे ॥
शाश्वताय ह्यनंताय अव्यक्ताय च ते नमः ॥९७॥

सूत उवाच ॥
एवं स्तुत्वा महादेवं दंडवत्प्रणिपत्य च ॥
जजाप रुद्रं भगवान्कोटिवारं जले स्थितः ॥९८॥

देवाश्च सर्वे ते देवं तुष्टुवुः परमेश्वरम् ॥
सेंद्राः ससाध्याः सयमाः सरुद्राः समरुद्गणाः ॥९९॥

देवा ऊचुः ॥
नमः सर्वात्मने तुभ्यं शंकरायार्तिहारिणे ॥
रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥१೦०॥

गतिर्नः सर्वदास्माभिर्वंद्यो देवारिमर्दनः ॥
त्वमादिस्त्वमनंतश्च अनंतश्चाक्षयः प्रभुः ॥१೦१॥

प्रकृतिः पुरुषः साक्षात्स्रष्टा हर्ता जगद्गुरो ॥
त्राता नेता जगत्यस्मिन्द्विजानां द्विजवत्सल ॥१೦२॥

वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः ॥
याज्यो मुक्त्यर्थमीशानो योगिभिर्योगविभ्रमैः ॥१೦३॥

हृत्पुंडरीकसुषिरे योगिनां संस्थितः सदा ॥
वदंति सूरयः संतं परं ब्रह्मस्वरूपिणम् ॥१೦४॥

भवंतं तत्त्वमित्यार्यस्तेजोराशिं परात्परम् ॥
परमात्मानमित्याहुरस्मिञ्जगति तद्विभो ॥१೦५॥

दृष्टं श्रुतं स्थितं सर्वं जायमानं जगद्गुरो ॥
अणोरल्पतरं प्राहुर्महतोपि महत्तरम् ॥१೦६॥

सर्वतः पाणिपादं त्वां सर्वतोक्षिशिरोमुखम् ॥
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि ॥१೦७॥

महादेवमनिर्देश्यं सर्वज्ञं त्वामनामयम् ॥
विश्वरूपं विरुपाक्षं सदाशिवमनामय्म् ॥१೦८॥

कोटिभास्करसंकाशं कोटिशीतांशुसन्निभम् ॥
कोटिकालाग्निसंकाशं षड्विंशकमनीश्वरम् ॥१೦९॥

प्रवर्तकं जगत्यस्मिन्प्रकृतेः प्रपितामहम् ॥
वदांति वरदं देवं सर्वावासं स्वयंभुवम् ॥११०॥

श्रुतयः श्रुतिसारं त्वां श्रुतिसारविदोजनाः ॥१११॥

अदृष्टमस्माभिरनेकमूर्ते विना कृतं यद्भवताथ लोके ॥
त्वमेव दैत्यासुरभूतसंघान्देवान्नरान्स्थावरजंगमांश्च ॥११२॥

पाहि नान्या गतिः शंभो विनिहत्यासुरोत्तमान् ॥
मायया मोहिताः सर्वे भवतः परमेश्वर ॥११३॥

यथा तरंगा लहरीसमूहा युध्यंति चान्योन्यमपांनिधौ च ॥
जलाश्रयादेव जडीकृताश्च सुरासुरास्तद्वदजस्य सर्वम् ॥११४॥

सूत उवाच ॥
य इदं प्रातरुत्थाय सुचिर्भूत्वा जपेन्नरः ॥
श्रृणुयाद्वा स्तवं पुण्यं सर्वकामवाप्नुयात् ॥११५॥

स्तुतस्त्वेवं सुरैर्विष्णोर्जपेन च महेश्वरः ॥
सोमः सोमामथालिंग्य नंदी दत्तकरः स्मयन्  ॥११६

प्राह गंभीरया वाचा देवानालोक्य शंकरः ॥
ज्ञातं मयेदमधुना देवकार्यं सुरेश्वराः ॥११७॥

विष्मोर्मायाबलं चैव नारदस्य च धीमतः ॥
तेषामधर्मनिष्ठानां दैत्यानां देवसत्तमाः ॥११८॥

पुरत्रयविनाशं च करिष्येहं सुरोत्तमाः ॥
सूत उवाच ॥
अथ सब्रह्मका देवाः सेंद्रपेंद्राः समागताः ॥११९॥

श्रुत्वा प्रभोस्तदा वाक्यं प्रणेमुस्तुष्टुवुश्च ते ॥
अप्येतदंतरं देवी देवमालोक्य विस्मिता ॥१२०॥

लीलांबुजेन चाहत्य कलमाह वृषध्वजम् ॥
देव्युवाच ॥
क्रीडमानं विभो पश्य षण्मुखं रविसन्निभम् ॥१२१॥

पुत्रं पुत्रवतां श्रेष्ठं भूपितं भूषणैः शुभैः ॥
मुकुटैः कटकैश्चैव कुंडलैर्वलयैः शुभैः ॥१२२॥

नूपुरैश्छन्नवारैश्च तथा ह्युदरबन्धनैः ॥
किंकिणीभिरनेकाभिर्हैमैरस्वत्थपत्रकैः ॥१२३॥

कल्पकद्रुमजैः पुष्पैः शोभितैरलकैः शुभैः ॥
हारैर्वारीजरागादिमणिचित्रैस्तथांगदैः ॥१२४॥

मुक्ताफलमयैर्हारैः पूर्णचंद्रसमप्रभैः ॥
तिलकैश्च महादेव पश्य पुत्रं सुशीभनम् ॥१२५॥

अंकितं कुंकुमाद्यैश्च वृत्तं भसितरनिर्मितम् ॥
वक्रवृंदं च पश्येश वृंदं कामलकं यथा ॥१२६॥

नेत्राणि च विभो पश्य शुभानि त्वं शुभानि च ॥
अंजनानि विचित्राणि मंगलार्थं च मातृभिः ॥१२७॥

गंगादीभीः कृत्तिकाद्यैः स्वाहया च विशेषतः ॥
इत्येवं लोकमातुश्च वाग्भिः संबोधितः शिवः ॥१२८॥

न ययौ तृप्तिमीशानः पिबन्स्कंदाननामृतम् ॥
न सस्मार च तान्देवान्दैत्यशस्त्रनिपीडितान् ॥१२९॥

स्कंदमालिंग्य चाघ्राय नृत्य पुत्रेत्युवाच ह ॥
सोपि लीलालसो बालो ननर्तार्तिहरः प्रभुः ॥१३०॥

सहैव ननृतुश्चान्वे सह तेन गणेश्वराः ॥
त्रैलोक्यमखिलं तत्र ननर्तेशाज्ञया क्षणम् ॥१३१॥

नागाश्च ननृतुः सर्वे देवाः सेंद्रपुरोगमाः ॥
तुष्टुवुर्गणपाः स्कंदं मुमोदांबा च मातरः ॥१३२॥

ससृजुः पुष्पवर्षाणि जगुर्गंधर्वकिन्नराः ॥
नृत्यामृतं तदा पीत्वा पार्वतीपरमेश्वरौ ॥
अवापतुस्तदा तृप्तिं नंदिना च गणेश्वराः ॥१३३॥

ततः स नंदी सह षण्मुखेन तथा च सार्धं गिरिराजपुत्र्या ॥
विवेश दिव्यं भवनं भवोपि यथां बुदोऽन्यांबुदमंबुदाभः ॥१३४॥

द्वारस्य पार्श्वे ते तस्थुर्देवा देवस्य धीमतः ॥
तुष्टुवुश्च महादेवं किञ्चिदुद्विग्नचेतसः ॥१३५॥

किंतु किंत्विति चान्योन्यं प्रेक्ष्य चैतत्समाकुलाः ॥
पापा वयमिति ह्यन्ये अभाग्याश्चेति चापरे ॥१३६॥

भाग्यवंतश्च दैत्येंद्रा इति चान्ये सुरेश्वराः ॥
पूजाफलमिमं तेषामित्यन्ये नेति चापरे ॥१३७॥

एतस्मिन्नंतरे तेषां श्रुत्वा शब्दाननेकशः ॥
कुंभोदरो महातेजा दंडेनाताडयत्सुरान् ॥१३८॥

दुद्रुवुस्ते भयाविष्टा देवा हाहेतिवादिनः ॥
अपतन्मुनयश्चान्ये देवाश्च धरणीतले ॥१३९॥

अहो विधेर्बलं चेति मुनयः कश्यपादयः ॥
दृष्ट्वापि देवदेवेशं देवानां चासुरद्विषाम् ॥१४०॥

अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः ॥
प्रोचुर्नमः शिवायेति पूज्य चाल्पतरं हृदि ॥१४१॥

ततः कपर्दि नंदीशो महादेवाप्रियो मुनिः ॥
शूली माली तथा हाली कुंडली वलयी गदी ॥१४२॥

वृषमारुह्य सुश्वेतं ययौ तस्याज्ञया तदा ॥
ततो वै नंदिनं दृष्ट्वा गणः कुंभोदरोपि सः ॥१४३॥

प्रणम्य नंदिनं मूर्ध्ना सह तेन त्वरन्ययौ ॥
नंदी भाति महातेजा वृषपृष्टे वृषध्वजः ॥१४४॥

सगणो गणसेनानीर्मेघपृष्ठे यथा भवः ॥
दशयोजनविस्तीर्णं मुक्ताजालैरलंकृतम् ॥१४५॥

सितातपत्रं शैलादेराकाशमिव भाति तत् ॥
तत्रांतर्बद्धमाला सा मुक्ताफलमयी शुभा ॥१४६॥

गंगाकाशान्निपतिता भाति मूर्ध्नि विभोर्यथा ॥
अथ दृष्ट्वा गणाध्यक्षं देवदुंदुभयः शुभाः ॥१४७॥

नियोगाद्वज्रिणः सर्वे विनेदुर्मुनिपुंगवाः ॥
तुष्टुवुश्च गणेशानं वाग्भिरिष्टप्रदं शुभम् ॥१४८॥

यथा देवा भवं दृष्ट्वा प्रीतिकंट कितत्वचः ॥
नियोगाद्वज्रिणो मूर्ध्नि पुष्पवर्षं च खेचराः ॥१४९॥

ववृषुश्च सुगंधाढ्य नंदिनो गगनोदितम् ॥
वृष्ट्या तुष्टस्तदा रेजे तुष्ट्या पुष्ट्या यथार्थया ॥१५०॥

नंदी भवश्चांद्रया तु स्नातया गंधवारिणा ॥
पुष्पैर्नानाविधैस्तत्र भाति पृष्ठं वृषस्य तत् ॥१५१॥

संकीर्णं तु दिवः पृष्ठं नक्षत्रैरिव सुव्रताः ॥
कुसुमैः संवृतो नंदी वृषपृष्ठे रराज सः ॥१५२॥

दिवः पृष्ठे यथा चंद्रो नक्षत्रैरिव सुव्रताः ॥
तं दृष्ट्वा नंदिनं देवाः सेंद्रोपेंद्रास्तथाविधम् ॥१५३॥

तुष्टुवुर्गणपेशानं देवदेवमिवापरम् ॥
देवा ऊचुः ॥
नमस्ते रुद्रभक्ताय रुद्रजाप्यरताय च ॥१५४॥

रुद्रभक्तार्तिनाशाय रौद्रकर्मरताय ते ॥
कूष्मांडगणनाथाय योगिनां पतये नमः ॥१५५॥

सर्वदाय शरण्याय सर्वज्ञायार्तिहारिणे ॥
वेदानां पतये चैव वेदवेद्याय ते नमः ॥१५६॥

वज्रिणे वज्रदंष्ट्राय वज्रिवज्रनिवारिणे ॥
वज्रालंकृतदेहाय वज्रिणाराधिताय ते ॥१५७॥

रक्ताय रक्तनेत्राय रक्तांबरधराय ते ॥
रक्तानां भवपादाब्जे रुद्रलोकप्रदायिने ॥१५८॥

नमः सेनाधिपतये रुद्राणां पतेय नमः ॥
भूतानां भुवने शानां पतये पापहारिणे ॥१५९॥

रुद्राय रुद्रपतये रौद्रपापहराय ते ॥
नमः शिवाय सौम्याय रुद्रभक्ताय ते नमः ॥१६०॥

सूत उवचा ॥
ततः प्रीतो गणाध्यक्षः प्राह देवांश्छिलात्मजः ॥
रथं च सारथिं शंभोः कार्मुकं शरमुत्तमम् ॥१६१॥

कर्तुमर्हथ यत्नेन नष्टं मत्वा पुरत्रयम् ॥
अथ ते ब्रह्मणा सार्धं तथा वै विश्वकर्मणा ॥१६२॥

रथं चक्रुः सुसंरब्धा देवदेवस्य धीमतः ॥१६३॥

इति श्रीलिंगमहापुराणे पूर्वभागे पुरदाहे नंदिकेश्वरवाक्यं नाम एकसप्ततितमोध्यायः ॥७१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP