पूर्वभागः - अध्यायः ९८
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.
ऋषय ऊचुः ॥
कथं देवेन वै सूत देवदेवान्महेश्वरात् ॥
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥१॥
सूत उवाच ॥
देवानामसुरेंद्राणामभवच्च सुदारुणः ॥
सर्वेषामेव भूतानां विनाशकरणो महान् ॥२॥
ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः ॥
प्रभिद्यमानाः कुंतैश्च दुद्रुवुर्भयविह्वलाः ॥३॥
पराजितास्तदा देवा देवदेवेश्वरं हरिम् ॥
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥४॥
तान् समीक्ष्याथ भगवान् देवदेवेश्वरो हरिः ॥
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत् ॥५॥
वत्साः किमिति वै देवाश्चयुतालंकारविक्रमाः ॥
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ॥६॥
तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः ॥
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥७॥
भगवन्देवदेवेश विष्णो जिष्णो जनार्दन ॥
दानवैः पीडिताः सर्वे वयं शरणमागताः ॥८॥
त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम ॥
त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥९॥
त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन ॥
हंतुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥
दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ॥
कौबेरैश्चैव सौम्यैश्च नैर्ऋत्यैर्वारुणैर्दृढैः ॥११॥
वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः ॥
सौरै रौद्रौस्तथा भीमैः कंपनैर्जृंभणैर्दृढैः ॥१२॥
अवध्या वरलाभात्ते सर्वे वारिजलोचन ॥
सूर्यमंडलसंभूतं त्वदीयं चक्रमुद्युतम् ॥१३॥
कुंठितं हि दधीचेन च्यावनेन जगद्गुरो ॥
दंडंशार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥१४॥
पुरा जलंधरं हंतुं निर्मितं त्रिपुरारिणा ॥
रथांगं सुशितं घोरं ते तान् हंतुमर्हसि ॥१५॥
तस्मात्तेन निहंतव्या नान्यैः शस्त्रशतैरपि ॥
ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥१६॥
वाचस्पतिमुखानाह स हरिश्चक्रभृत् स्वयम् ॥
श्रिविष्णुरुवाच ॥
भोभो देवा महादेवं सर्वै र्देवैः सनातनैः ॥१७॥
संप्राप्य सांप्रतं सर्वं करिष्यामि दिवौकसाम् ॥
देवा जलंधरं हंतुं निर्मितंहि पुरारिणा ॥
लब्ध्वा रथांगं तेनैव निहत्य च महासुरान् ॥
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान् सुरान् ॥१९॥
सबांधवान्क्षणादेव युष्मान् संतारयाम्यहम् ॥
सूत उवाच ॥
एवमुक्ता सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥२०॥
सुश्रेष्ठस्तदा श्रेष्ठं पूजयामास शंकरम् ॥
लिंगं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥२१॥
मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा ॥
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥२२॥
स्नाप्य संपूज्य गंधाद्यैर्ज्वालाकारं मनोरमम् ॥
तुष्टाव च तदा रुद्रं संपूज्याग्नौ प्रणम्य च ॥२३॥
देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् ॥
पूजयामास च शिवं प्रणवाद्यं नमोंतकम् ॥२४॥
देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् ॥
प्रतिनाम सपद्मेन पूजयामास शंकरम् ॥२५॥
अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ॥
स्वाहांतैर्विधिवद्धृत्वा प्रत्येकमयुतं प्रभुम् ॥२६॥
तुष्टाव च पुनः शंभुं भवाद्यैर्भवमीश्वरम् ॥
श्रीविष्णुरुवाच ॥
भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥२७॥
अर्थितव्यः सदाचार सर्वशंभुर्महेश्वरः ॥
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥२८॥
वरीयान् वरदो वंध्यः शंकरः परमेश्वरः ॥
गंगाधरः शूलधरः परार्थैकप्रयोजनः ॥२९॥
सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः ॥
चंद्रापीडश्चंद्रमौलिर्विद्वान्विश्वामरेश्वरः ॥३०॥
वेदांतसारसंदोहः कपाली नीललोहितः ॥
ध्यानाधारोपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥३१॥
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥३२॥
वामदेवो महादेवः पांडुः परिदृढो दृढः ॥
विश्वरूपो विरूपाक्षो वागीशः शुचिरंतरः ॥३३॥
सर्वप्रणयसंवादी वृषांको वृषवाहनः ॥
ईशः पिनाकी खट्वांगी चित्रवेषश्चिरंतनः ॥३४॥
तमोहरो महायोगी गोप्ता ब्रह्मांगहृज्जटि ॥
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥३५॥
उन्मत्तवेषश्चश्रुष्यो दुर्वासाः स्मरशासनः ॥
दृढायुधः स्कंदगुरुः परमेष्ठी परायणः ॥३६॥
अनादिमध्यनिधनो गिरिशो गिरिबांधवः ॥
कुबेरबंधुः श्रीकंठो लोकवर्णोत्तमोत्तमः ॥३७॥
सामान्यदेवः कोदंडी नीलकंठः परश्वधी ॥
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥३८॥
धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् ॥
उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः ॥३९॥
दाता दयाकरो दक्षः कपर्दी कामशासनः ॥
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥४०॥
लोककर्ता भूतपतिर्महाकर्ता महौषधी ॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥४१॥
नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी ॥
सोमपोमृतपः सोमो महानीतिर्महामतिः ॥४२॥
अजातशत्रुरालोकः संभाव्यो हव्यवाहनः ॥
लोककारो वेदकारः सूत्रकारः सनातनः ॥४३॥
महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ॥
पिनाकपाणिभूर्देवः स्वस्तिदः स्वस्तिकृत्सदा ॥४४॥
त्रिधामा सौभगः शर्वः सवज्ञः सर्वगोचरः ॥
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः ॥४५॥
शाखो विशाखो गोशाखः शिवो नैकः क्रतुः समः ॥
गंगाप्लवोदको भावः सकलस्थपतिस्थिरः ॥४६॥
विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥
सगणो गणकार्यश्च सुकीर्ति श्छिन्नसंशयः ॥४७॥
कामदेवः कामपालो भस्मोद्धूलितविग्रहः ॥
भस्मप्रियो भस्मशायी कामी कांतः कृतागमः ॥४८॥
समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः ॥
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ॥४९॥
दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः ॥
अध्यात्मयोगनिलयः सुतंतुस्तंतुवर्धनः ॥५०॥
सुभांगो लोकसारंगो जगदीशोऽमृताशनः ॥
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥५१॥
हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ॥
महाह्रदो महागर्भः सिद्धवृंदारवंदितः ॥५२॥
व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ॥
अमृतांगोऽमृतवपुः पंचयज्ञः प्रभंजनः ॥५३॥
पंच विंशतितत्त्वज्ञः पारिजातः परावरः ॥
सुलभः सुव्रतः शुरो वाङ्मयैकनिधिर्निधिः ॥५४॥
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥
आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः ॥५५॥
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ॥५६॥
अनंतदृष्टिरानंदो दंडो दमयिता दमः ॥
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ॥५७॥
वीतरागो विनीतात्मा तपस्वी भूतभावनः ॥
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥५८॥
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ॥
तपस्स्वी तारको धीमान् प्रधान प्रभुरव्ययः ॥५९॥
लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः ॥
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ॥६०॥
चंद्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ॥
भक्तिगस्यः परंब्रह्ममृगबाणार्पणोऽनघः ॥६१॥
अद्रिराजालयः कांतः परमात्मा जगद्गुरुः ॥
सर्वकर्माचलस्त्वष्टा मंगल्यो मंगलावृतः ॥६२॥
महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ॥
अहः संवत्सरो व्याप्तिः प्रमाणं परम तपः ॥६३॥
संवत्सरकरो मंत्रः प्रत्ययः सर्वदर्शनः ॥
अजः सर्वेश्वरः स्निग्धो महोरेता महाबलः ॥६४॥
योगी योग्यो महोरेताः सिद्धः सर्वदिरग्निदः ॥
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥६५॥
अमृतः शाश्वतः शांतो बाणहस्तः प्रतापवान् ॥
कमंडलुधरो धन्वी वेदांगो वेदविन्मुनिः ॥६६॥
भ्रजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ॥
अतींद्रियो महामायः सर्वावासश्चतुष्पथः ॥
कालयोगी महानादो महोत्साहो महाबलः ॥
महाबुद्धिर्महावीर्यो भूतचारी पुरंदरः ॥६८॥
निशाचरः प्रेतचारिमहाशक्तिर्महाद्युतिः ॥
अनिर्देश्यवपुः श्रीमान् सर्वहार्यमितो गतिः ॥६९॥
बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः ॥
ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः ॥७०॥
नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः ॥
बुद्धस्पष्टाक्षरो मंत्रः सन्मानः सारसंप्लवः ॥७१॥
युगादिकृद्युगावर्तो गंभीरो वृषवाहनः ॥
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ॥७२॥
अपां निधिरधिष्ठानं विजयो जयकालवित् ॥
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥७३॥
विरोचनः सुरगणो विद्येशो विबुधाश्रयः ॥
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ॥७४॥
करणं कारणं कर्ता सर्वबंधविमोचनः ॥
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ॥७५॥
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥
दुंदुभो ललितो विश्वो भवात्मात्मनि संस्थितः ॥७६॥
वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट् ॥
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ॥७७॥
आज्ञाधरस्त्रिशूली च शिपिविष्टः शिवालयः ॥
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः ॥७८॥
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥
मघवान्कौशिको गोमान् विश्रामः सर्वशासनः ॥७९॥
ललाटाक्षो विश्वदेहः सराः संसारचक्रभृत् ॥
अमोघदंडी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ॥८०॥
परमार्थः परमयः शंबरो व्याघ्रकोऽनलः ॥
रुचिर्वररुचिर्वंद्यो वाचस्पतिरहर्पतिः ॥८१॥
रविर्विरोचनः स्कंधः शास्ता वैवस्वतो जनः ॥
युक्तिरुन्नतकीर्तिश्च शांतरागः पराजयः ॥८२॥
कैलासपतिकामारिः सविता रविलोचनः ॥
विद्वत्तमो वीतभयो विश्वहर्ता निवारितः ॥८३॥
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥८४॥
उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ॥
अनादिर्भूर्भुवोलक्ष्मीः किरीटित्रिदशाधिपः ॥८५॥
विश्वगोप्ता विश्वभर्ता सुधीरो रुचिरांगदः ॥
जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः ॥८६॥
विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः ॥
प्रणवः सप्तधाचारो महाकायो महाधनुः ॥८७॥
जन्माधिपो महादेवः सकलागमपारगः ॥
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः ॥८८॥
ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः ॥
यज्ञो यज्ञपतिर्यज्वा यज्ञांतोऽमोघविक्रमः ॥८९॥
महेंद्रो दुर्भरः सेनी यज्ञांगो यज्ञवाहनः ॥
पंचब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः ॥९०॥
आत्मयोनिरनाद्यंतो षड्विंशत्सप्तलोकधृक् ॥
गायत्रीविल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥९१॥
शिशुर्गिरिरतः साम्राट्सुषेणः सुरशत्रुहा ॥
अमोघरिष्टमथनो मुकुंदो विगतज्वरः ॥९२॥
स्वयंज्योतिरनुज्योतिरात्मज्योतिरचंचलः ॥
पिंगलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ॥९३॥
ज्ञानस्कंधो महाज्ञानी निरुत्पत्तिरुपप्लवः ॥
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ॥९४॥
उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः ॥
नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः ॥९५॥
पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः ॥
हृत्पुंडरीकमासीनः शुक्लः शांतो वृषाकपिः ॥९६॥
विष्णुर्ग्रहपतिः कृष्णः समर्थोऽनर्थनाशनः ॥
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥९७॥
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ॥
जगद्धितैपिसुगतः कुमारः कुशलागमः ॥९८॥
हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः ॥
अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः ॥९९॥
बृहज्ज्योतिः सुधामा च महाज्योतिरनुत्तमः ॥
मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥१००॥
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥
निरावरणधर्मज्ञो विरिंचो विष्टरश्रवाः ॥१०१॥
आत्मभूरनिरुद्धोत्रिज्ञानमूर्तिर्महायशाः ॥
लोकचूडामणिर्वीरः चंडसत्यपराक्रमः ॥१०२॥
व्यालकल्पो महाकल्पो महावृक्षः कलाधरः ॥
अलंकरिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः ॥१०३॥
आशुशब्दपतिर्वेगी पुलवनः शिखिसारथिः ॥
असंसृष्टोऽतिथि शक्रः प्रमाथी पापनाशनः ॥१०४॥
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥
जर्यो रजाधिशमनो लोहितश्च तनूनपात् ॥१०५॥
पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्त्रहा ॥
निदाघस्तपनो मेघः पक्षः परपुरंजयः ॥१०६॥
मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ॥
वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥१०७॥
अंगिरामुनिरात्रेयो विमलो विश्ववाहनः ॥
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः ॥१०८॥
मनो बुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ॥
तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ॥१०९॥
अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः ॥
शैलो नगस्तनुर्देहो दानवारिररिंदमः ॥११०॥
चारुधिर्जनकश्चारुविशल्यो लोकशल्यकृत् ॥
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥१११॥
आम्नायोथ समाम्नायस्तीर्थदेवशिवालयः ॥
बहुरूपो महारूपः सर्वरूपश्चराचरः ॥११२॥
न्यायनिर्वाहको न्यायो न्यायगम्यो निरंजनः ॥
सहस्रमूर्धा देवेंद्राः सर्वशस्त्रप्रभंजनः ॥११३॥
मुंडो विरूपो विकृतो दंडी दांतो गुणोत्तमः ॥
पिंगलाक्षोथ हर्यक्षो नीलग्रीवो निरामयः ॥११४॥
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् ॥
पद्मासनः परंज्योतिः परावरंपरंफलः ॥११५॥
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ॥
परावरज्ञो बीजेशः सुमुखः सुमहास्वनः ॥११६॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥
देवासुरमहामात्रो देवासुरमहाश्रयः ॥११७॥
देवादिदेवो देवर्षिदेवासुरवरप्रदः ॥
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ॥११८॥
सर्वदेवमयोचिंत्यो देवतात्मात्मसंभवः ॥
ईड्योऽनीशः सुख्याघ्रो देवसिंहो दिवाकरः ॥११९॥
विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः ॥
शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ॥१२०॥
जयस्तंभो विशिष्टंभो नरसिंहनिपातनः ॥
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥१२१॥
नंदी नंदीश्वरो नग्नो नग्नव्रतधरः शुचिः ॥
लिंगाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः ॥१२२॥
स्ववशः सवशः स्वर्गः स्वरः स्वरमयस्वनः ॥
बीजाध्यक्षो बीजकर्ता धनकृद्धर्मवर्धनः ॥१२३॥
दंभोऽदंभो महादंभः सर्वभूतमहेश्वरः ॥
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ॥१२४॥
लोकोत्तरस्फुटालोकस्त्र्यंबको नागभूषणः ॥
अंधकारिर्मखद्वेषी विष्णुकंधरपातनः ॥१२५॥
वीतदोषोऽक्षयगुणो दक्षारिः पूषदंतहृत् ॥
धूर्जटिः खंडपरशुः सकलो निष्कलोऽनघः ॥१२६॥
आधारः सकलाधारः पांडुराभो मृडो नटः ॥
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥१२७॥
सामगेयः प्रियकरः पुण्यकीर्तिरनामयः ॥
मनोजवस्तीर्थकरो जटिलो जीवतेश्वरः ॥१२८॥
जीवितांतकरो नित्यो वसुरेता वसुप्रियः ॥
सद्गतिः सत्कृतिः सक्तः कालकंठः कलाधरः ॥१२९॥
मानी मान्यो महाकालः सद्भूतिः सत्परायणः ॥
चंद्रसंजीवनः शास्ता लोकगूढोमराधिपः ॥१३०॥
लोकबंधुर्लोकनाथः कृतज्ञः कृतिभूषणः ॥
अनपाय्यक्षरः कांतः सर्वशास्त्रभृतां वरः ॥१३१॥
तेजोमयो द्युतिधरो लोकमायोग्रणीरणुः ॥
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ॥१३२॥
ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ॥
तुंबवीणी महाकायो विशोकः शोकनाशनः ॥१३३॥
त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धी रथाक्षजः ॥
अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशांपतिः ॥१३४॥
वरशीलो वरतुलो मानो मानधनो मयः ॥
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ॥१३५॥
वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः ॥
कैलासशिखरावासी सर्वावासी सतां गतिः ॥१३६॥
हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता ॥
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ॥१३७॥
संयोगी योगविद्ब्रह्म ब्रह्मण्यो ब्राह्मणप्रियः ॥
देवप्रियो देवनाथो देवज्ञो देवचिंतकः ॥१३८॥
विषमाक्षः कलाध्यक्षो वृषांको वृषवर्धनः ॥
निर्मदो निरहंकारो निर्मोहो निरुपद्रवः ॥१३९॥
दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः ॥
सप्तजिह्वः सहस्रर्चिः स्रिग्धः प्रकृतिदक्षिणः ॥१४०॥
भूतभव्यभवन्नाथः प्रभवो भ्रांतिनाशनः ॥
अर्थोनर्थो महाकोशः परकार्यैकपंडितः ॥१४१॥
निष्कंटकः कृतानंदो निर्व्याजो व्याजमर्दनः ॥
सत्त्ववान् सात्त्विकः सत्यकीर्तिस्तंभकृतागमः ॥१४२॥
अकंपितो गुणग्राही नैकात्मा नैककर्मकृत् ॥
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः ॥१४३॥
स्कंधः स्कंधधरो धुर्यः प्रकटः प्रीतिवर्धनः ॥
अपराजितः सर्वसहो विदग्धः सर्ववाहनः ॥१४४॥
अधृतः स्वधृतः साध्यः पूर्वमूर्तिर्यशोधरः ॥
वराहश्रृंगधृग्वायुर्बलवानेकनायकः ॥१४५॥
श्रुतिप्रकाशः श्रुतिमानेकबंधुरनेकधृक् ॥
श्रीवल्लभशिवारंभः शांतभद्रः समंजसः ॥१४६॥
भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ॥
अकायो भक्तकायस्थः कालज्ञानी कलावपुः ॥१४७॥
सत्यव्रतमहात्यागी निष्ठाशांतिपरायणः ॥
परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः ॥१४८॥
अनिर्विण्णो गुणग्राही कलंकांलः कलंकहा ॥
स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ॥१४९॥
शिखंडी कवची शूली चंदी मुंडी च कुंडली ॥
मेखली कवची खड्गी मायी संसारसारथिः ॥१५०॥
अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥
असंख्येयोप्रमेयात्मा वीर्यवान् कार्यकोविदः ॥१५१॥
वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः ॥
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥१५२॥
सुरेशः शरणं सर्वः शब्दब्रह्मसतांगतिः ॥
कालभक्षः कलंकारिः कंकणीकृतवासुकिः ॥१५३॥
महेष्वासो महीभर्ता निष्कलंको विश्रृंखलः ॥
द्युणमिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥१५४॥
निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः ॥
एकज्योतिर्निरातंको नरो नारायणप्रियः ॥१५५॥
निर्लेपो निष्प्रपंचात्मा निर्व्यग्रो व्यग्रनाशनः ॥
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ॥१५६॥
निरवद्यपदोपायो विद्याराशिरविक्रमः ॥
प्रशांतबुद्धिरक्षुद्रः क्षुद्रहानित्यसुंदरः ॥१५७॥
धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ॥
परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः ॥१५८॥
रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलंबनः ॥
सूत उवाच ॥
एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम् ॥१५९॥
स्नापयामास च विभुः पूजयामास पंकजैः ॥
परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः ॥१६०॥
गोपयामास कमलं तदैकं भुवनेश्वरः ॥
हृतपुष्पो हरिस्तत्र किमिदंत्वभ्यचिंतयन् ॥१६१॥
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वाबलंबनम् ॥
पूजयामास भावेन नाम्ना तेन जगद्गुरुम् ॥१६२॥
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् ॥
तस्मादवतताराशु मंडलात्पावकस्य च ॥१६३॥
कोटिभास्करसंकाशं जटामुकुटमंडितम् ॥
ज्वालामालावृतं दिव्यं तीक्ष्णंदंष्ट्रं भयंकरम् ॥१६४॥
शूलटंकगदाचक्रकुंतपाशधरं हरम् ॥
वरादभयहस्तं च दीपिचर्मोत्तरीयकम् ॥१६५॥
इत्थंभूतं तदा दृष्ट्वा भवं भस्मविभूषितम् ॥
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥१६६॥
दुद्रुवुस्तं परिक्रम्य सेंद्रा देवास्त्रिलोचनम् ॥
चचाल ब्रह्मभुवनं चकंपे च वसुंधरा ॥१६७॥
ददाह तेजस्तच्छंभोः प्रांतं वै शतयोजनम् ॥
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥१६८॥
तदा प्राह महादेवः प्रहसन्निव शंकरः ॥
संप्रेक्ष्य प्रणयाद्विष्णुं कृतांजलिपुटं स्थितम् ॥१६९॥
ज्ञातं मयेदमधुना देवकार्यं जनार्दन ॥
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥१७०॥
यद्रूपं भवता दृष्टं सर्वलोकभयंकरम् ॥
हिताय तव यत्नेन तव भावाय सुव्रत ॥१७१॥
शांतं रणाजिरे विष्णो देवानां दुःखसाधनम् ॥
शांतस्य चास्त्रं शांतस्याच्छांतेनास्त्रेण किं फलम् ॥१७२॥
शांतस्य समरे चास्त्रं शांतिरेव तपस्विनम् ॥
योद्धुः शांत्या बलच्छेदः परस्य बलवृद्धिदः ॥१७३॥
देवैरशांतैर्यद्रूपं मदीयं भावयाव्ययम् ॥
किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥१७४॥
क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन ॥
अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ॥१७५॥
अकालिके त्वधर्मे च अनर्थे वारिसूदन ॥
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥१७६॥
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् ॥
तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥१७७॥
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः ॥
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥१७८॥
वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान् ॥
भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम ॥१७९॥
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ॥
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥१८०॥
नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो ॥
तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥१८१॥
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः ॥
प्राह चैवं महादेवः परमात्मानमच्युतम् ॥१८२॥
मयि भक्तश्च वंद्यश्च पूज्यश्चैव सुरासुरैः ॥
भविष्यसि न संदेहो मत्प्रसादात्सुरोत्तम ॥१८३॥
यदा सती दक्षपुत्री विनिंद्यैव सुलोचना ॥
मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥१८४॥
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत ॥
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥१८५॥
नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम् ॥
मत्संबंधी च लोकानां मध्ये पूज्यो भविष्यसि ॥१८६॥
मां दिव्येन च भावेन तदाप्रभृति शंकरम् ॥
द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना ॥१८७॥
इत्युक्त्वांतर्दधे रुद्रो भगवान्नीललोहितः ॥
जनार्दनोपि भगवान् देवानामपि सन्निधौ ॥१८८॥
अयाचत महादेवं ब्रह्माणं मुनिभिः समम् ॥
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥१८९॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥
प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात् ॥१९०॥
अश्वमेधसहस्रेण फलं भवति तस्य वै ॥
घृताद्यौ स्नापयेद्रुद्रं स्ताल्या वै कलशैः शुभैः ॥१९१॥
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम् ॥
सोपि यज्ञसहस्रस्य फलं लब्ध्वासुरेश्वरैः ॥१९२॥
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै ॥
तथास्त्वति तथा प्राह पद्मयोनेर्जनार्दनम् ॥१९३॥
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम् ॥
तस्मान्नाम्नां सहस्रेण पूजयेनदघो द्विजाः ॥१९४॥
जपेन्नाम्नां सहस्रं च स याति परमां गतिम् ॥१९५॥
इति श्रीलिंगमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोऽध्यायः ॥९८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP