पूर्वभागः - अध्यायः ५२
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.
सूत उवाच ॥
नद्यश्च बहवः प्रोक्ता सदा बहुजलाः शुभाः ॥
सरोवरेभ्यः संभूतास्त्वसंख्याता द्विजोत्तमाः ॥१॥
प्राङ्मुखा दक्षिणास्यास्तु चोत्तरप्रभवाः शुभाः ॥
पश्चिमाग्राः पवित्राश्च प्रतिवर्षं प्रकीर्तिताः ॥२॥
आकाशांभोनिधिर्योसौ सोम इत्यभिधीयते ॥
आधारः सर्वभूतानां देवानाममृताकरः ॥३॥
अस्मात्प्रवृत्ता पुण्योदा नदी त्वाकाश गामिनी ॥
सप्तमेनानिलपथा प्रवृत्ता चामृतोदका ॥४॥
सा ज्योतिंष्यनुवर्तन्ती ज्योतिर्गणनिषोविता ॥
ताराकोटिसहस्राणां नभसश्च समायुता ॥५॥
परिवर्तत्यहरहो यथा सोमस्तथैव सा ॥
चत्वार्यशीतिश्च तथा सहस्राणां समुच्छ्रितः ॥६॥
योजनानां महामेरुः श्रीकंठाक्रीडकोमलः ॥
तत्रासीनो यतः शर्वः सांबः सह गणेश्वरैः ॥७॥
क्रीडते सुचिरं कालं तस्मात्पुण्यजला शिवा ॥
गिरिं मेरुं नदी पुण्या सा प्रयाति प्रदक्षिणम् ॥८॥
विभज्यमानसलिला सा जवेनानिलेन च ॥
मेरोरंतरकूटेषु निपपात चतुर्ष्वपि ॥९॥
समंतात्समतिक्रम्य सर्वाद्रीन्प्रविभागशः ॥
नियोगाद्देवदेवस्य प्रविष्टा सा महार्णवम् ॥१०॥
अस्या विनिर्गता नद्यः शतशोथ सहस्रशः ॥
सर्वद्वीपाद्रिवर्षेषु बहवः परिकीर्तिताः ॥११॥
क्षुद्रनद्यस्त्वसंख्याता गंगा यद्गां गताम्बरात् ॥
केतुमाले नराः कालाः सर्वे पनसभोजनाः ॥१२॥
स्त्रियश्चोत्पलवर्णाभा जीवितं चायुतं स्मृतम् ॥
भद्राश्वे शुक्लवर्णाश्च स्त्रियश्चन्द्रांशु सन्निभाः ॥१३॥
कालाम्रभोजनाः सर्वे निरातंका रतिप्रियाः ॥
दशवर्षसहस्राणि जीवंति शिवभाविताः ॥१४॥
हिरण्मया इवात्यर्थमीश्वरार्पितचेतसः ॥
तथा रमणके जीवा न्यग्रोधफलभोजनाः ॥१५॥
दशवर्षसहस्राणि शतानि दशपंच च ॥
जीवंति शुक्लास्ते सर्वे शिवध्यानपरायणाः ॥१६॥
हैरण्मया महाभागा हिरण्मयवनाश्रयाः ॥
एकादश सहस्राणि शतानि दशपंच च ॥१७॥
वर्षाणां तत्र जीवंति अश्वत्थाशनजीवनाः ॥
हैरण्मया इवात्यर्थमीश्वरार्पितमानसाः ॥१८॥
कुरुवर्षे तु कुरवः स्वर्गलोकात्परीच्युताः ॥
सर्वे मैथुन जाताश्च क्षीरिणः क्षीरभोजनाः ॥१९॥
अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः ॥
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥२०॥
त्रयोदश सहस्राणि शतानि दशपंच च ॥
जीवंति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥२१॥
सहैव मरणं तेषां कुरूणां स्वर्गवासिनाम् ॥
हृष्टानां सुप्रवृद्धानां सर्वान्नामृतभोजिनाम् ॥२२॥
सदा तु चंद्रकान्तानां सदा योवनशालिनाम् ॥
श्यामांगानां सदा सर्वभूषणास्पददेहिनाम् ॥२३॥
जंबूद्वीपे तु तत्रापि कुरुवर्षं सुशोभनम् ॥
तत्र चन्द्रप्रभं शम्भोर्विमानं चंद्रमौलिनः ॥२४॥
वर्षे तु भारते मर्त्याः पुण्याः कर्मवशायुषः ॥
शतायुषः समाख्याता नानावर्णाल्पदेहिनः ॥२५॥
नानादेवर्चने युक्ता नानाकर्मफलाशिनः ॥
नानाज्ञानार्थसंपन्ना दुर्बलाश्चाल्पभोगिनः ॥२६॥
इंद्रद्वीपे तथा केचित्तथैव च कसेरुके ॥
ताम्रद्वीपं गताः केचित्कोचिद्देशं गभस्तिमत् ॥२७॥
नागद्वीपं तता सौम्यं गांधर्वं वारुणं गताः ॥
केचिन्म्लेच्छाः पुलिंदाश्च नानाजातिसमुद्भवाः ॥२८॥
पूर्वे किरातास्तस्यांते पश्चिमे यवनाः स्मृताः ॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च सर्वशः ॥२९॥
इज्यायुद्धवणिज्याभिर्वर्तयंतो व्यवस्थिताः ॥
तेषां संव्यवहारोयं वर्ततेऽत्र परस्परम् ॥३०॥
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥
संकल्पश्चाभिमानश्च आश्रमाणां यथाविधि ॥३१॥
इह स्वर्गापवर्गार्थं प्रवृत्तिर्यत्र मानुषी ॥
तेषां च युगकर्माणि नान्यत्र मुनिपुंगवाः ॥३२॥
दशवर्षसहस्राणि स्थितिः किंपुरुषे नृणाम् ॥
सुवर्णवर्णाश्च नरास्त्रियश्चाप्सरसोपमाः ॥३३॥
अनामया ह्यशोकाश्च सर्वे ते शिवभाविताः ॥
शुद्धसत्त्वाश्च हेमाभाः सदाराः प्लक्षभोजनाः ॥३४॥
महारजतसंकाशा हरिवर्षेपि मानवाः ॥
देवलोकाच्च्युताः सर्वे देवाकाराश्च सर्वशः ॥३५॥
हरं यजंति सर्वेशं पिबंतीक्षुरसं शुभम् ॥
न जरा बाधते तेन न च जीर्यांति ते नराः ॥३६॥
दशवर्षसहस्राणि तत्र जीवांति मानवाः ॥
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् ॥३७॥
न तत्र सूर्यस्तपति न ते जीर्यंति मानवाः ॥
चंद्रसूर्यौ न नक्षत्रं जीवंति मानवाः ॥३८॥
पद्मप्रभाः पद्म मुखाः पद्मपत्रनिभेक्षणाः ॥
पद्मपत्रसुगंधाश्च जायंते भवभाविताः ॥३९॥
जंबूफलरसाहारा अनिष्पन्दाः सुगंधिनः ॥
देवलोकागतास्तत्र जायंते ह्यजरामराः ॥४०॥
त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः ॥
आयुःप्रमाणं जीवंति वर्षे दिव्ये त्विलावृते ॥४१॥
जंबूफलरसं पीत्वा न जरा बाधते त्विमान् ॥
न क्षुधा न क्लमश्चापि न जनो मृत्यु मांस्तथा ॥४२॥
तत्र जाम्बूनदं नाम कनकं देवभूषणम् ॥
इंद्रगोपप्रतीकाशं जायते भास्वरं तु तत् ॥४३॥
एवं मया समाख्याता नववर्षानुवर्तिनः ॥
वर्णायुर्भोजनाद्यानि संक्षिप्य न तु विस्तरात् ॥४४॥
हेमकूटे तु गंधर्वा विज्ञेयाश्चाप्सरोगणाः ॥
सर्वे नागाश्च निषघे शेषवासुकितक्षकाः ॥४५॥
महाबलास्त्रयस्त्रिंशद्रमंते याज्ञिकाः सुराः ॥
नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयोऽमलाः ॥४६॥
दैत्यानां दानवानां च श्वेतः पर्वत उच्यते ॥
श्रृंगवान् पर्वतश्चैव पितॄणां निलयः सदा ॥४७॥
हिमवान् यक्षमुख्यानां भूतानामिश्वरस्य च ॥
सर्वाद्रिषु महादेवो हरिणा ब्रह्मणांबया ॥४८॥
नंदिना च गणैश्चैव वर्षेषु च वनेषु च ॥
नीलश्वेतत्रिश्रृंगे च भगवान्नीललोहितः ॥४९॥
सिद्धैर्देवैश्च पितृभिर्दृष्टो नित्यं विशेषतः ॥
नीलश्च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः ॥५०॥
मयूरबर्हवर्णस्तु शातकुंभस्त्रिश्रृंगवान् ॥
एते पर्वतराजानो जंबूद्वीपे व्यवस्थिताः ॥५१॥
इति श्रीलिंगमहापुराणे पूर्वभागे भुवनकोशस्वभाववर्णनं नाम द्विपंचाशत्तमोऽध्यायः ॥५२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP