पूर्वभागः - अध्यायः ८३
अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.
ऋषय ऊचुः ॥
व्यपोहनस्तवं पुण्यं श्रुतमस्माभिरादरात् ॥
प्रसंगाल्लिंगदानस्य व्रतान्यपि वदस्व नः ॥१॥
सूत उवाच ॥
व्रतानि वः प्रवक्ष्यामि शुभानि मुनिसत्तमाः ॥
नंदिना कथितानीह ब्रह्मपुत्राय धीमते ॥२॥
तानि व्यासादुपश्रुत्य युष्माकं प्रवदाम्यहम् ॥
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥३॥
वर्षमेकं तु भुंजानो नक्तं यः पूजयेच्छिवम् ॥
सर्वयज्ञफलं प्राप्य स याति परमां गतिम् ॥४॥
पृथिवीं भाजनं कृत्वा भुक्त्वा पर्वसु मानवः ॥
अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते ॥५॥
द्वयोर्मासस्य पंचम्योर्द्वयोः प्रतिपदोर्नरः ॥
क्षीरधाराव्रतं कुर्यात्सोश्वमेधफलं लभेत् ॥६॥
कृष्णाष्टम्यां तु नक्तेन यावत्कृष्णचतुर्दशी ॥
भुंजन्भोगानवाप्नोति ब्रह्मलोकं च गच्छति ॥७॥
योब्दमेकं प्रकुर्वीत नक्तं पर्वसु पर्वसु ॥
ब्रह्मचारी जितक्रोधः शिवध्यानपरायणः ॥८॥
संवत्सरांते विप्रेंद्रान् भोजयेद्विधिपूर्वकम् ॥
स याति शांकरं लोकं नात्र कार्या विचारणा ॥९॥
उपवासात् परं भैक्ष्यं भैक्ष्यात्परमयाचितम् ॥
आयाचितात्परं नक्तं तस्मान्नक्तेन वर्तयेत् ॥१०॥
देवैर्भुक्तं तु पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा ॥
अपराह्णे च पितृभिः संध्यायां गुह्यकादिभिः ॥११॥
सर्ववेलामतिक्रम्य नक्तभोजनमुत्तमम् ॥
हविष्यभोजनं स्नांन सत्यमाहारलाघवम् ॥१२॥
अग्निकार्यमधःशय्यां नक्तभोजी समाचरेत् ॥
प्रतिमासं प्रवक्ष्यामि शिवव्रतमनुत्तमम् ॥१३॥
धर्मकामार्थमोक्षार्थं सर्वपापविशुद्धये ॥
पुष्यमासे च संपूज्य यः कुर्यान्नक्तभोजनम् ॥१४॥
सत्यवादी जितक्रोधः शालिगोधूमगोरसैः ॥
पक्षयोरष्टमीं यत्नादुपवासेन वर्तयेत् ॥१५॥
भूमिशय्यां च मासांते पौर्णमास्यां घृतादिभिः ॥
स्नाप्य रुद्रं महादेवं संपूज्य विधिपूर्वकम् ॥१६॥
यावकं चौदनं दत्त्वा सक्षीरं सघृतं द्विजाः ॥
भीजयेद्ब्राह्मणाञ्शिष्टाञ्जपेच्छांतिं विशेषतः ॥१७॥
तथा गोमिथुनं चैव कपिलं विनिवेदयेत् ॥
भवाय देवदेवाय शिवाय परमेष्ठिने ॥१८॥
स याति मुनिशार्दूल वाह्नेयं लोकमुत्तमम् ॥
भुक्त्वा स विपुलान् लोकान् तत्रैव स विमुच्यते ॥१९॥
माघमासे तु संपूज्य यः कुर्यान्नक्तभोजनम् ॥
कृशरं घृतसंयुक्तं भुंजानः संयतेंद्रियः ॥२०॥
सोपवासं चतुर्दश्यां भवेदुभयपक्षयोः ॥
रुद्राय पौर्णमास्यां तु दद्याद्वै घृतकंबलम् ॥२१॥
कृष्णं गोमिथुनं दद्यात्पूजयेच्चैव शंकरम् ॥
भोजयेद्ब्राह्मणांश्चैव यथाविभवविस्तरम् ॥२२॥
याम्यमासाद्य वै लोकं यमेन सह मोदते ॥
फाल्गुने चैव संप्राप्ते कुर्याद्वै नक्तभोजनम् ॥२३॥
श्यामाकान्नघृतक्षीरैर्जितक्रोधो जितेंद्रियः ॥
चतुर्दश्यामथाष्टम्यामुपवासं च कारयेत् ॥२४॥
पौर्णमास्यां महादेवं स्नाप्य संपूज्य शंकरम् ॥
दद्याद्गोमिथुनं वापि ताम्राभं शूलपाणये ॥२५॥
ब्राह्मणान् भोजयित्वा तु प्रार्थयेत्परमेश्वरम् ॥
स याति चंद्रेसायुज्यं नात्र कार्या विचारणा ॥२६॥
चैत्रेपि रुद्रमभ्यर्च्य कुर्याद्वै नक्तभोजनम् ॥
शाल्यन्नं पयसा युक्तं घृतेन च यथासुखम् ॥२७॥
गोष्ठशायी मुनिश्रेष्ठाः क्षितौ निशि भवं स्मरेत् ॥
पौर्णमास्यां शिवं स्नाप्य दद्याद्गोमिथुनं सितम् ॥२८॥
ब्राह्मणान् भोजयेच्चैव निर्ऋतेः स्थानमाप्नुयात् ॥
वैशाखे च तथा मासे कृत्वा वै नक्तभोजनम् ॥२९॥
पौर्णमास्यां भवं स्नाप्यं पंचगव्यघृतादिभिः ॥
श्वेतं गोमिथुनं दत्त्वा सोश्वमेधफलं लभेत् ॥३०॥
ज्येष्ठे मासे च देवेशं भवं शर्वमुमापतिम् ॥
संपूज्य श्रद्धया भक्त्या कृत्वा वै नक्तभोजनम् ॥३१॥
रक्तशाल्यन्नमध्वा च अद्भिः पूतं घृतादिभिः ॥
वीरासनी निशार्धं च गवां शुश्रूषणे रतः ॥३२॥
पौर्णमास्यां तु संपूज्य देवदेवमुमापतिम् ॥
स्नाप्य शक्त्या यथान्यायं चरुं दद्याच्च शूलिने ॥३३॥
ब्राह्मणान् भोजयित्वा च यथाविभवविस्तरम् ॥
धूम्रं गोमिथुनं दत्त्वा वायुलोके महीयते ॥३४॥
आषाढे मासि चाप्येवं नक्तभोजनतत्परः ॥
भूरिखंडाज्यसंमिश्रं सक्तुभिश्चैव गोरसम् ॥३५॥
पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि ॥
ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान् ॥३६॥
दद्याद्गोमिथुनं गौरं वारुणं लोकमाप्नुयात् ॥
श्रावणेच द्विजा मासे कृत्वा वै नक्तभोजनम् ॥३७॥
क्षीरषष्टिकभक्तेन संपूज्य वृषभध्वजम् ॥
पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि ॥३८॥
ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान् ॥
श्वेताग्रपादं पौड्रं च दद्याद्गोमिथुनं पुनः ॥३९॥
स याति वायुसायुज्यं वायुवत्सर्वगो भवेत् ॥
प्राप्ते भाद्रपदे मासे कृत्वैवं नक्तभोजनम् ॥४०॥
हुतशेषं च विप्रेंद्रान्वृक्षमूलाश्रितो दिवा ॥
पौर्णमास्यां तु देवेशं स्नाप्य संपूज्य शंकरम् ॥४१॥
नीलस्कंधं वृषं गां च दत्त्वा भक्त्या यथाविधि ॥
ब्राह्मणान् भोजयित्वा च वेदवेदांगपारगान् ॥४२॥
यक्षलोकमनुप्राप्य यक्षराजो भवेन्नरः ॥
ततश्चाश्वयुजे मासि कृत्वैवं नक्तभोजनम् ॥४३॥
सघृतं शंकरं पूज्य पौर्णमास्यां च पूर्ववत् ॥
ब्राह्मणान् भोजयित्वा च शिवभक्तान् सदा शुचीन् ॥४४॥
वृषभं नीलवर्णाभमुरोदेशसमुन्नतम् ॥
गां च दत्वा यथान्यायमैशानं लोकमाप्नुयात् ॥४५॥
कार्तिके च तथा मासे कृत्वा वै नक्तभोजनम् ॥
क्षीरोदनेन साज्येन संपूज्य च भवं प्रभुम् ॥४६॥
पौर्णमास्यां च विधिवत्स्नाप्य दत्त्वा चरुं पुनः ॥
ब्राह्मणान्भोजयित्वा च यथाविभवविस्तरम् ॥४७॥
दत्त्वा गोमिथुनं चैव कापिलं पूर्ववद्द्विजाः ॥
सूर्यसायुज्यमाप्नोति नात्र कार्या विचारणा ॥४८॥
मार्गशीर्षे च मासेपि कृत्वैवं नक्तभोजनम् ॥
यवान्नेन यथान्यायमाज्यक्षीरादिभिः समम् ॥४९॥
पौर्णमास्यां च पूर्वोक्तं कृत्वा शर्वाय शंभवे ॥
ब्राह्मणान् भोजयित्त्वा च दरिद्रान्वेदपारगान् ॥५०॥
दत्त्वा गोमिथुनं चैव पांडुरं विधिपूर्वकम् ॥
सोमलोकमनुप्राप्य सोमेन सह मोदते ॥५१॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा दया ॥
त्रिःस्नानं चाग्निहोत्रं च भूशय्या नक्तभोजनम् ॥५२॥
पक्षयोरुपवासं च चतुर्दश्यष्टमीषु च ॥
इत्येतदखिलं प्रोक्तं प्रतिमासं शिवव्रतम् ॥५३॥
कुर्याद्वर्षं क्रमेणैव व्युत्क्रमेणापि वा द्विजाः ॥
स याति शिवसायुज्यं ज्ञानयोगमवाप्नुयात् ॥५४॥
इति श्रीलिंगमहापुराणे पूर्वभागे शिवव्रतकथनं नाम त्र्यशीतितमोऽध्यायः ॥८३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP