निर्वाणप्रकरणं - सर्गः १२
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
भुशुण्ड उवाच ।
ख एव व्योम संपन्नमिति संकल्पनं यथा ।
भ्रान्तिमात्रमसद्रूपं तथाहंभावभावनम् ॥१॥
खे खं जातमिति भ्रान्तेरहं कल्पयिता यथा ।
तथा निर्व्यपदेश्यात्म सदस्त्यसदिवाततम् ॥२॥
खे खात्मैवास्ति चिद्रूपं तत्स्वकं बुध्यते वपुः ।
भासते यदिदन्त्वेन नाहमस्मि न चानहम् ॥३॥
ततश्चिद्रूपमस्तीदृग्यत्र स्थूलं खमप्यलम् ।
अणाविव महामेरुस्तत्संवित्तिर्हि खादिता ॥४॥
घनस्ततोऽचिदाभासः खादप्यतितरामणुः ।
जानाति यत्स्वभावं तदेतत्सर्गतया स्थितम् ॥५॥
अहन्ताखादिताद्यात्मविदः प्रसरणं जगत् ।
अम्भोद्रवप्रसरणं यथावर्तादिवेष्टनम् ॥६॥
अचित्प्रसरणं शान्तमस्पन्दीव जलद्रवः ।
निःस्पन्दपवनाकारमाकाशहृदयोपमम् ॥७॥
न देशकालादिजगत्प्रसरेषु च युज्यते ।
घनाच्छून्यान्निराभासाच्चिन्मात्रविसरादृते ॥८॥
चिन्मात्रे प्रसृते काले व्योम्नि नावि जले स्थले ।
निद्रायां जाग्रति स्वप्ने भवेज्जगदिवोदितम् ॥९॥
प्रसरणाप्रसरणे न च संभवतो विदः ।
खादप्यत्यन्तस्वच्छत्वादक्षोभादेः सदैव हि ॥१०॥
ज्ञश्चेतति न भोगादि न चैवात्मन्यसावहम् ।
द्रवत्वमम्भसीवान्तरद्वितीयः परे स्थितः ॥११॥
धीर्ह्रीः श्रीर्भीः स्मृतिः कीर्तिः कान्तिरित्यादिकंगणं ।
न पश्यति विसंकल्पस्तमसीव पदान्यहेः ॥१२॥
ब्रह्मेन्दुबिम्बस्फुरितचिज्ज्योत्स्नांशामृतद्रवः ।
दिक्कालासंभवात्सर्गो नेश्वरादतिरिच्यते ॥१३॥
आधिमान्यः स्फुरत्येवं परे स्फुरति भासुरम् ।
जगदाद्यात्मकं चित्तं चक्रौघत्वमिवाम्भसि ॥१४॥
मज्जनोन्मज्जनारावैर्विवर्तावर्तवेष्टनैः ।
अच्छिन्नानुपदं क्षीणा भाति सर्गसरिच्चिरम् ॥१५॥
यथावर्तैः पयो भाति धूमो भाति यथा घनः ।
तथा जडात्मकतया तृतीयः सर्ग एतयोः ॥१६॥
दारुणि क्रकचच्छेदे यथावर्तादिकं तथा ।
अदिगादौ परे सर्गस्तदतद्रूपवानयम् ॥१७॥
संसारकदलीस्तम्भाद्विना संकल्पपल्लवम् ।
मृदुनोऽपि दृषत्क्रूरान्न किंचिल्लभतेऽन्तरम् ॥१८॥
सहस्रखुरमूर्धाक्षिकरवक्त्रहितोहितम् ।
नानाद्रितनुदिग्देशसरित्प्रादेशमात्रकम् ॥१९॥
अन्तःशून्यमसारात्म बहुरागोपरञ्जितम् ।
स्फुरद्विरागविहितमार्जनामात्रतर्जनम् ॥२०॥
ससुरासुरगन्धर्वविद्याधरमहोरगम् ।
जडात्मपवनस्पन्दि परचेतनचेतितम् ॥२१॥
पटे चित्रमहाराज्यमिव भासुरसुन्दरम् ।
परामर्शासहं चारु विकल्पस्फूर्जितं जगत् ॥२२॥
स्पन्दात्मनि विकल्पांशे पतिताऽसत्यरूपिणि ।
संवित्प्रसरति भ्रान्तौ तैलबिन्दुरिवाम्भसि ॥२३॥
हृल्लेखाजालविसरैः सर्वावर्तविवर्तनैः ।
विसरत्स्नेहसंमिश्रजडानुदयचर्वणैः ॥२४॥
अहमित्यादिचिद्रूपे विकल्पेनोन्मुखी सती ।
न पराद्व्यतिरिक्तैषा जलत्वादिव तोयता ॥२५॥
चिदादित्यः स्व आत्मैव सर्ग इत्यभिधीयते ।
भूत्वाहमिति तेनान्यो न सर्गोऽस्ति न सर्जकः ॥२६॥
स्पन्दात्मिकायां सत्तायां यथा स्पन्दो जलद्रवः ।
तथा चिदात्मा व्योमत्वेनव्योमत्वादि वेत्ति हि॥२७॥
देशकालादिनिर्माणपूर्वकं वेदनं विदः ।
सर्गात्मकत्वात्तेनाम्बुद्रवसाम्यं न दूरगम् ॥२८॥
मनोहंभावबुद्ध्यादि यत्किंचिन्नाम वेदनम् ।
अविद्यां विद्धि यत्नेन पौरुषेणाशु नश्यति ॥२९॥
अर्धं मिथःसंकथया भागः शास्त्रविचारणैः ।
आत्मप्रत्ययतः शिष्टमविद्याया निवर्तते ॥३०॥
चतुर्भागात्मनि कृते इत्यविद्याक्षये क्रमात् ।
समकालाच्च यच्छिष्टं तदनामार्थसन्मयम् ॥३१॥
श्रीराम उवाच ।
अर्धं मिथःसंकथया भागः शास्त्रविचारणैः ।
आत्मप्रत्ययतो भागः कथं तस्या निवर्तते ॥३२॥
समकाले क्रमाच्चेति मुनिनाथ किमुच्यते ।
तदनामार्थसच्चेति सच्चासच्चेति किं वद ॥३३॥
श्रीवसिष्ठ उवाच ।
सुजनेन विरक्तेन संसारोत्तरणार्थिना ।
सह चाप्यात्मविदुषां संसृतिं प्रविचारयेत् ॥३४॥
यतः कुतश्चिदन्विष्य सविरागममत्सरम् ।
जनं सज्जनमात्मज्ञं यत्नेनाराधयेद्बुधः ॥३५॥
संपन्ने संगमे साधोरविद्यार्धं क्षयं गतम् ।
विद्धि वेद्यविदां श्रेष्ठ ज्येष्ठश्रेष्ठदशोदयात् ॥३६॥
अर्धं सज्जनसंपर्कादविद्याया विनश्यति ।
चतुर्भागस्तु शास्त्रार्थैश्चतुर्भागं स्वयत्नतः ॥३७॥
एकोऽभिलाष उत्पन्नो भोगेभ्यश्च निवार्यते ।
तत्क्षये यात्यविद्यायाश्चतुर्थांशः स्वयत्नतः ॥३८॥
साधुसङ्गमशास्त्रार्थस्वयत्नैः क्षीयते मलम् ।
एकैकेनाथ सर्वैश्च तुल्यकालं क्रमादपि ॥३९॥
यदविद्याक्षयैकात्म न किंचित्किंचिदेव च ।
शिष्यते तत्परं प्राहुरनामार्थमसच्च सत् ॥४०॥
ब्रह्मेदं घनमजराद्यनन्तमेकं
संकल्पस्फुरणमविद्यमानमेव ।
बुद्ध्वैवं व्यपगतमानमेयमोहो
निर्वाणं परिविहरन्विशोकमास्स्व ॥४१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० वि० संकल्पसर्गयोरैक्यप्रतिपत्तिर्नाम द्वादशः सर्गः ॥१२॥
N/A
References : N/A
Last Updated : September 26, 2021
TOP