निर्वाणप्रकरणं - सर्गः ९६
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
पाषाणाख्यानमेतत्ते कथितं कार्यकोविद ।
अनयेमाः स्फुरद्दृष्ट्या सृष्टयो नभसि स्थिताः ॥१॥
न च स्थितं किंचनापि क्वचनापि कदाचन ।
स्थितं ब्रह्मघने ब्रह्म यथास्थितमखण्डितम् ॥२॥
ब्रह्म चिन्मात्रकं विद्धि तद्यथा स्वप्नदृष्टिषु ।
पुरं भवन्निजाद्रूपान्न कदाचन भिद्यते ॥३॥
स्वयंभूत्वसमापत्तौ तथा दृश्यव्यवस्थितौ ।
स्वरूपमजहत्त्वेव चिदाकाशमजं स्थितम् ॥४॥
न स्वयंभूर्न च जगन्न स्वप्नपुरमस्त्यलम् ।
स्थितं संविन्महादृष्ट्या ब्रह्म चिन्मात्रमेतया ॥५॥
यथा पुरं भवत्स्वप्ने चिद्रूपं स्वात्मनि स्थितम् ।
अखण्डमेवमासृष्टेरामहाप्रलयस्थितेः ॥६॥
हेमहेमाश्मनोः स्वप्नपुरचेतनयोर्यथा ।
भेदो न संभवत्येव न भेदश्चितिसर्गयोः ॥७॥
चितिरेकास्ति नो सर्गो हेमास्ति न तदूर्मिका ।
स्वप्नाचले चिदेवास्ति न तु काचन शैलता ॥८॥
चिदेव शैलवद्भाति यथा स्वप्ने निरामया ।
तथा ब्रह्म निराकारं सर्गवद्भाति नेतरत् ॥९॥
चिन्मात्रमिदमाकाशमनन्तमजमव्ययम् ।
महाकल्पसहस्रेषु नोदेति न च शाम्यति ॥१०॥
चिदाकाशो हि पुरुषश्चिदाकाशो भवानयम् ।
चिदाकाशोऽहमजरश्चिदाकाशो जगत्त्रयम् ॥११॥
चिदाकाशं वर्जयित्वा शवमेव शरीरकम् ।
अच्छेद्योऽसावदाह्योऽसौ चिदाकाशो न शाम्यति ॥१२॥
अतो न किंचिन्म्रियते न च किंचन जायते ।
चित्त्वात्ततश्चित्कचनं जगदित्यनुभूयते ॥१३॥
चिन्मात्रपुरुषो जन्तुर्म्रियते यदि नाम वा ।
ततो मरिष्यत्तत्पुत्रो निःसंदेहं पितुर्मृतौ ॥१४॥
एकस्मिन्प्रमृते जन्तावमरिष्यंस्तु सर्वदा ।
सर्व एव जनाः शून्यमभविष्यन्महीतलम् ॥१५॥
न चाद्यापि मृतं राम चिन्मात्रं कस्यचित्क्वचित् ।
न च शून्या स्थिता भूमिस्तस्माच्चित्पुरुषोऽक्षयः ॥१६॥
एकं चिन्मात्रमेवाहं न शरीरादयो मम ।
इति सत्यनुसंधाने क्व जन्ममरणादयः ॥१७॥
अहं चिन्मात्रममलमित्यात्मानुभवं स्वयम् ।
अपहन्त्यात्महन्तारो निमज्जन्त्यापदर्णवे ॥१८॥
चिदहं गगनादच्छा नित्यानन्ता निरामया ।
किं जीवितं मे किं वापि मरणं वा सुखासुखे ॥१९॥
व्योमात्मचेतनमहं के शरीरादयो मम ।
इत्यात्महापह्नुतेऽन्तर्योऽनुभूतं धिगस्तु तम् ॥२०॥
चिदाकाशमहं स्वच्छमनुभूतिरिति स्फुटा ।
यस्यास्तमागता मूढं तं जीवन्तं शवं विदुः ॥२१॥
अहं वेदनमात्रात्मा कानि देहेन्द्रियाणि मे ।
लब्धात्मानमिति स्वच्छं प्रविलुम्पन्ति नापदः ॥२२॥
चिन्मात्रं शुद्धमात्मानं योऽवलम्ब्य स्थिरः स्थितः ।
नाधयस्तं विलुम्पन्ति महोपलमिवेषवः ॥२३॥
चित्त्वं स्वभावं विस्मृत्य बद्धास्था ये शरीरके ।
तैः सुवर्णं परित्यज्य गृहीतं भस्म वस्तुतः ॥२४॥
बलं बुद्धिश्च तेजश्च देहोऽहमिति भावनात् ।
नश्यत्युदेत्येतदेव चिदेवाहमिति स्थितेः ॥२५॥
चिदाकाशमहं शुद्धं के मे मरणजन्मनी ।
एवं स्थिते स्युः किंनिष्ठा लोभमोहमदादयः ॥२६॥
चिदाकाशादृते देहान्योऽन्यत्सारमवाप्नुयात् ।
तस्मै तद्युज्यते वक्तुं सन्ति लोभादयस्त्विति ॥२७॥
न च्छिद्ये न च दह्येऽहं चिन्मात्रं वज्रवच्चिति ।
न देही निश्चयो यस्य तं प्रत्यन्तकरस्तृणम् ॥२८॥
अहो नु मुग्धता ज्ञानदृष्टीनां यद्विदन्त्यलम् ।
शरीरशकलाभावे नश्याम इति मोहिताः ॥२९॥
अहं चिन्नभ एवेति सत्ये भावे स्थिरे सति ।
वज्रपातयुगान्ताग्निदाहाः पुष्पोत्करोपमाः ॥३०॥
चिन्मात्रममरं नाहं यन्नश्यामीति रोदिति ।
अनष्ट एव तद्देहो जातापूर्वा खरोलिका ॥३१॥
इदं चेतनमेवाहं नाहं देहादिदृष्टयः ।
इति निश्चयवान्योऽन्तर्न स मुह्यति कर्हिचित् ॥३२॥
अहं चेतनमाकाशो नाशो मे नोपपद्यते ।
चेतनेन जगत्पूर्णं केव संदेहितात्र वः ॥३३॥
चेतनं वर्जयित्वान्यत्किंचिद्यूयं जना यदि ।
यदुच्यतां महामूढाः स्वात्मा किमपलप्यते ॥३४॥
तच्चेतनं चेन्म्रियते तज्जनाः प्रत्यहं मृताः ।
ब्रूत किं न मृता यूयं तन्मृतं किल चेतनम् ॥३५॥
तस्मान्न म्रियते किंचिन्न च जीवति किंचन ।
जीवामीति मृतोऽस्मीति चिच्चेतति न नश्यति॥३६॥
चिच्चेतति यथा वा यत्तत्तथा साशु पश्यति ।
आबालमेषोऽनुभवो न क्वचित्सा च नश्यति ॥३७॥
परिपश्यति संसारं परिपश्यति मुक्तताम् ।
सुखदुःखानि जानाति स्वरूपात्तन्न भिद्यते ॥३८॥
अपरिज्ञातदेहात्तु धत्ते मोहाभिधां स्वयम् ।
परिज्ञातस्वरूपात्तु धत्ते मोक्षाभिधां स्वयम् ॥३९॥
नास्तमेति न चोदेति न कदाचन किंचन ।
सर्वमेव च चिन्मात्रमाकाशविशदं यतः ॥४०॥
न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ।
यद्यथा येन निर्णीतं तत्तथा तं प्रति स्थितम् ॥४१॥
यद्यद्यथा जगति चेतति चेतनात्मा
तत्तत्तथानुभवतीत्यनुभूतिसिद्धम् ।
दृष्टं विषामृतदृशेव पदार्थजातं
नातोस्ति संविदविधेयमितिप्रसिद्धम् ॥४२॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० अमरत्वप्रतिपादनं नाम षण्णवतितमः सर्गः ॥९६॥
N/A
References : N/A
Last Updated : September 30, 2021
TOP