निर्वाणप्रकरणं - सर्गः २०६
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
यदकारणकं भाति भानं तन्नैव किंचन ।
तत्तथा परमार्थेन परमार्थः स्थितोऽनघ ॥१॥
अत्रेमं केनचित्पृष्टोऽयमहं तं महामते ।
सम्यग्बोधस्य पुष्ट्यर्थं महाप्रश्नं परं श्रृणु ॥२॥
अस्त्यब्धिभ्यामुभयतो व्याप्तं ख्यातं जगत्त्रये ।
कुशद्वीपमिति द्वीपं भूमौ वलयवत्स्थितम् ॥३॥
तत्रास्तीलावती नाम हैमी पूर्वोत्तरे पुरी ।
दीप्तिज्वालामयस्तम्भप्रोतावनिनभस्तला ॥४॥
पूर्वे तस्यामभूद्राजा प्रज्ञप्तिरिति विश्रुतः ।
अनुरक्तजगद्भूतः शक्रः स्वर्ग इवापरः ॥५॥
केनचित्कारणेनाहं कदाचित्तस्य भूपतेः ।
प्राप्तः समीपं नभसः प्रलयार्क इव च्युतः ॥६॥
पुष्पार्घ्याचमनीयैर्मां पूजयित्वोपविश्य सः ।
मध्ये कथायां कस्यांचिदपृच्छत्प्रणयादिदम् ॥७॥
भगवन्सर्वसंहारे जाते शून्यतते स्थिते ।
अवाच्ये परमे व्योम्नि सर्वकारणसंक्षये ॥८॥
सर्गारम्भस्य भूयः स्याद्वद किं मूलकारणम् ।
कानि वा सहकारीणि कारणानि कुतः कथम् ॥९॥
किं जगत्किं च सर्गादि काश्चिन्नित्यं तमोधराः ।
व्योमसंस्थार्णवाः काश्चित्काश्चित्कृमिकुलाकुलाः ॥१०॥
काश्चिदाकाशकोशस्थाः काश्चिच्चोपलकोशगाः ।
किंच वा भूतभूतादि कुतो बुद्ध्यादयः कथम् ॥११॥
कः कर्ता कोऽथ वा द्रष्टा काधाराधेयता कथम् ।
न कदाचिन्महानाशो जगतामिति निश्चयः ॥१२॥
समस्तवेदशास्त्रार्थाविरोधाय समर्थितः ।
यथा संवेदनं नाम तथा नामानुभूतयः ॥१३॥
यतस्ततो वेदनं स्यात्किमनाशमसन्मयम् ।
अन्यच्च जम्बूद्वीपादौ देशेऽद्य मुनिनायक ॥१४॥
मृतानामग्निदग्धानामिह वा देहनाशिनाम् ।
नरकस्वर्गभोगाय विदेहे देहकारणम् ॥१५॥
किं तत्स्यात्सहकारीणि कारणान्यथ कानि वा ।
धर्माधर्मावमूर्तौ द्वौ तस्यामूर्तस्य मूर्तता ॥१६॥
निर्द्रव्यं कुरुते द्रव्यैर्युक्तिरित्यसमञ्जसा ।
मातापित्राद्यभावो हि बीजं किं तत्र कारणम् ॥१७॥
अन्ये वा हेतवः के स्युः कथं द्रव्यादिसंभवः ।
परलोकोऽस्य नास्तीति यथासंवेदनं स्थितेः ॥१८॥
समस्तलोकवेदादिविरोधाच्चासमञ्जसम् ।
अनिच्छितेहितैर्दूरदेशान्तरगतैः फलम् ॥१९॥
प्रजा प्राप्नोत्यसंबन्धैरमूर्तैरत्र कः क्रमः ।
स्तम्भो वरेण सौवर्णो विना हेमगमागमैः ॥२०॥
क्षणात्संपद्यते तत्र संपत्तिः कथमुच्यताम् ।
विधीनां प्रतिषेधानां निर्निमित्तं विवल्गताम् ॥२१॥
रूढानामप्यरूढानां किं प्रयोजनमुच्यताम् ।
असदासीज्जगत्पूर्वं सत्संपन्नमनन्तरम् ॥२२॥
इति श्रुतेः कथं ब्रह्मन्कथ्यतां संगतार्थता ।
अयं भवेत्कथं ब्रह्मा भवेच्चेत्तन्महामुने ॥२३॥
एवंप्रभावान्नभसः किं सर्वस्मान्न जायते ।
ओषधीनामथार्थानां सर्वेषां वा स्थितिं गताः ॥२४॥
कथं स्वभावाः कथय यथाबोधं मुनीश्वर ।
एकस्य जीवितं पुंसः सुहृदा मरणं द्विषा ॥२५॥
मृत्वार्थितं प्रयागादौ क्षेत्रे तत्कथमुच्यताम् ।
खे स्यामक्षयपूर्णेन्दुरिति ध्यायिचितैः फलैः ॥२६॥
तुल्यकालमनुप्राप्तैः सहस्रेन्दु न किं नभः ।
अन्यच्च ध्यायिनां लक्षैर्ध्यातैका स्त्री यथाक्रमम् ॥२७॥
जायात्वेन समं कालं लब्धं ध्यानफलं च तैः ।
साध्व्यसाध्वी गृहे भर्तुः संस्थिता तपसा परा ॥२८॥
तेषां च जाया संपन्ना कथमेतन्महामुने ।
गृहानिर्गच्छमाकल्पं नृपः स द्वीपसप्तके ॥२९॥
वरत्वं वरशापाभ्यामिति अन्तः क्व तिष्ठति ।
दानधर्मादितपसामौर्ध्वदेहिककर्मणाम् ॥३०॥
इहस्थानाममूर्तानां मूर्तं प्रीत्यास्ति सत्फलम् ।
व्यवहर्ता न मूर्तोऽत्र विद्यते लोकयोर्द्वयोः ॥३१॥
देशान्तरे भृशं जीवो भृशं कालान्तरेऽपि वा ।
फलं संभवतीयत्तद्विनानुभवनं मुने ॥३२॥
असमञ्जसमेवाति कथं स्यात्सुसमञ्जसम् ।
इत्यादिसंशयगणं गिरा शीतावदातया ।
छिन्धि मेऽभ्युदितं भासा सान्ध्यमान्ध्यमिवोडुपः ॥३३॥
परमवस्तुनि संशयनाशना-
दुभयलोकहितं भवति स्फुटम् ।
तदिह मे कुरु साधुसमागम-
स्तनुफलो भवतीह न कस्यचित् ॥३४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० महाप्रश्नो नाम षडधिकद्विशततमः सर्गः ॥२०६॥
N/A
References : N/A
Last Updated : October 10, 2021
TOP