निर्वाणप्रकरणं - सर्गः ३५
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
देशाद्देशान्तरं दूरं प्राप्तायाः संविदः क्षणात् ।
यद्रूपममलं मध्ये परं तद्रूमात्मनः ॥१॥
गच्छन्श्रृण्वन्स्पृशञ्जिघ्रन्नुन्मिषन्निमिषन्हसन् ।
नूनं निरामयत्वाय नित्यमेतन्मयो भव ॥२॥
तत एव निराभासात्सत्यान्निर्वासनैषणात् ।
यथास्थितं यथाचारमचलाऽमरशैलवत् ॥३॥
एतद्रूपमविद्यायाः प्रेक्षिता यन्न लभ्यते ।
प्रेक्षिता लभ्यते चेत्सा तद्विद्यैव पराभवत् ॥४॥
अविद्यासंभवाच्चेत्यचित्त्वे संभवतः क्व किम् ।
चेत्यते कथमेवान्तः शान्तिरेव बलोदिता ॥५॥
सत्यं ब्रह्म जगच्चैकं स्थितमेकमनेकवत् ।
सर्वं वाऽसर्ववद्भाति शुद्धं चाशुद्धवत्ततम् ॥६॥
अशून्यं शून्यमिव च शून्यं वाऽशून्यवत्स्फुटम् ।
स्फारमस्फारमिव तदस्फारं स्फारसन्निभम् ॥७॥
अविकारं विकारीव समं शान्तमशान्तवत् ।
सदेवासदिवादृश्यं तदेवातदिवोदितम् ॥८॥
अविभागं विभागीव निर्जाड्यं जडवद्गतम् ।
अचेत्यं चेत्यभावीव निरंशं सांशशोभनम् ॥९॥
अनहं सोऽहमिव तदनाशमिव नाशवत् ।
अकलङ्कं कलङ्कीव निर्वेद्यं वेद्यवाहिवत् ॥१०॥
आलोकि ध्वान्तघनवन्नववच्च पुरातनम् ।
परमाणोरपि तनु गर्भीकृतजगद्गणम् ॥११॥
सर्वात्मकमपि त्यक्तदृष्टं कष्टेन भूयसा ।
अजालमपि जालाढ्यं चाशेषवदनेकधा ॥१२॥
निर्मायमपि मायांशुमण्डलामलभास्करम् ।
ब्रह्म विद्धि विदांनाथमपामिव महोदधिम् ॥१३॥
जगद्रत्नमहाकोशं तुलायां तूलकाल्लघु ।
मायामरीचिशशिनमपि नेक्षणगोचरम् ॥१४॥
अनन्तमपि निष्पारं न च क्वचिदपि स्थितम् ।
आकाशे वनविन्यासनगनिर्माणतत्परम् ॥१५॥
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥१६॥
अकर्तृकर्मकरणमकारणमकारकम् ।
अन्तःशून्यतयैवैतच्चिराय परिपूरितम् ॥१७॥
जगत्समुद्गकमपि नित्यं शून्यमरण्यवत् ।
अनन्तशैलकठिनमप्याकाशलवान्मृदु ॥१८॥
प्रत्येकं प्रत्यहं प्रायः पुराणं पेलवं नवम् ।
आलोकमन्धकाराभं तमस्त्वालोकमाततम् ॥१९॥
प्रत्यक्षमपि दुर्लक्ष्यं परोक्षमपि चाग्रगम् ।
चिद्रूपमेव च जडं जडमेव चिदात्मकम् ॥२०॥
अहमेवानहंभावमनहं वाऽहमेव च ।
अन्यदेव तदेवाहमहमेवान्यदेव तत् ॥२१॥
अस्य पूर्णार्णवस्यान्तरिमे त्रिभुवनोर्मयः ।
स्फुरन्त इव तिष्ठन्ति स्वभावद्रवतात्मकाः ॥२२॥
बिभर्ति सर्वमङ्गस्थं तुषारमिव शुक्लताम् ।
भाति सर्वस्त्वनेनैव तुषारेणेव शुक्लता ॥२३॥
अदेशकालावयवोऽप्येष देवो दिवानिशम् ।
असज्जगत्तनोतीव यथा वारितरङ्गकम् ॥२४॥
एतस्मिन्विकसन्तीमा विपुलाकाशकानने ।
जगज्जरठमञ्जर्यः प्रसरत्पत्रपञ्चकाः ॥२५॥
एष स्वप्रतिबिम्बस्य स्वयमालोकनेच्छया ।
अत्यन्तनिर्मलाकारः स्वयं मुकुरतां गतः ॥२६॥
व्योमवृक्षफलस्यास्य स्वेच्छावयव उज्ज्वला ।
सर्गोपलम्भ उद्यच्च चमत्कुर्वन्ति संविदि ॥२७॥
अन्तस्थेन बहिष्ठेन नानानानातयात्मनि ।
एष सोऽन्तर्बहिर्भाति भावाभावविभावया ॥२८॥
एतद्रूपा पदार्थश्रीरेतस्मिन्नेतदिच्छया ।
चमत्करोत्येतदर्थं जिह्वेव स्वास्यकोटरे ॥२९॥
अस्याम्भसो द्रवत्वं यत्तदिदं जगदुच्यते ।
संवित्स्यादूपलम्भाङ्गं भुवनावर्तवृत्तिमत् ॥३०॥
शाम्यत्यत्र पदार्थश्रीः सर्वासामेव भास्वति ।
एतस्मादेव चोदेति स्वालोक इव तेजसः ॥३१॥
इदमेव जगत्सर्वं शुक्लत्वं तुहिने यथा ।
अत एताः प्रवर्तन्ते विद इन्दोरिवांशवः ॥३२॥
एतस्माद्रङ्गतोऽनङ्गाज्जगच्चित्रमिदं स्थितम् ।
विद्ध्यभावविकारादिशान्तमेतन्मयं ततम् ॥३३॥
अस्माद्वनतरोरेताः स्वरूढा गगनाङ्गणे ।
दृश्यशाखाः प्रवर्तन्ते जगज्जालगुलुच्छकाः ॥३४॥
व्ययोदयवती नूनमत्र दृश्यतरङ्गिणी ।
नानातानन्तकुसुमा वहत्यविचलाचले ॥३५॥
अस्मिन्व्योमात्मके रङ्गे भुवनाभिनयभ्रमैः ।
मृत्यत्यविरतारम्भं वारैर्नियतिनर्तकी ॥३६॥
जगत्कोटिमहाकल्पकल्पोन्मेषनिमेषणः ।
विताने नाट्यते भूयो जन्यते कालबालकः ॥३७॥
उद्यत्स्वपि जगत्स्वेष शान्तमेवावतिष्ठते ।
अनिच्छ एव मुकुरः प्रतिबिम्बशतेष्विव ॥३८॥
भूतानां वर्तमानानां सर्गाणां संभविष्यताम् ।
एषोऽकारणकं बीजं सर्गाणामिव कारणम् ॥३९॥
अस्योन्मेषो जगल्लक्ष्मीर्निमेषः प्रलयागमः ।
अनुन्मेषनिमेषोऽसावात्मन्येवावतिष्ठते ॥४०॥
उद्यन्त्यमूनि सुबहूनि महामहान्ति
सर्गागमप्रलयजन्मदशा जगन्ति ।
सर्वाणि तान्ययमपारस्वरूप एव
प्रस्पन्दनानि मरुदेव यथास्व शान्तम् ॥४१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ० परब्रह्मस्वरूपवर्णनं नाम पञ्चत्रिंशः सर्गः ॥३५॥
N/A
References : N/A
Last Updated : September 27, 2021
TOP