निर्वाणप्रकरणं - सर्गः ११८
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
सहचरसहचर्यः क्रमेणोचुः ।
निर्गुणस्य बकस्यास्य गुण एकोऽस्ति दृश्यताम् ।
यत्प्रावृषं स्मारयति प्रावृट् प्रावृडिति ब्रुवन् ॥१॥
बक हंस इवाभासि सरःस्थो मद्गुसौहृदम् ।
नृशंसत्वं च वाणीं च त्यक्त्वा हंसो भव स्फुटम् ॥२॥
गम्भीरं वारिगर्भं प्रसृतजलचरं ये प्रविश्य प्रविश्य
प्राङ्मतत्स्यान्प्रोतचञ्चवश्चतुरतर परं जग्धवन्तो विदग्धाः
ते केनाप्यद्य दिष्ट्या मृततिमिगमिताः कालयुक्ते महिम्ना
नाक्रामन्ति क्रमस्थाः सुहरमपि पुरः पङ्गवो मद्गवोऽमी ॥३॥
एवं विहन्यते लोकः स्वार्थेनेति प्रदर्शयन् ।
मद्गुर्मद्गुरुतां यात इत्येवं स्तौति दुर्जनः ॥४॥
उत्कन्धरो विततनिर्मलचारुपक्षो
हंसोऽयमत्र नभसीति जनैः प्रतीतः ।
गृह्णाति पल्वलजलाच्छफरीं यदासौ
ज्ञातस्तदा खलु बकोऽयमितीह लोकैः ॥५॥
अतिबहुकालविलोलानवलोक्य बकांस्तपोदम्भान् ।
अत्रैवातिमिरस्थांस्तटवनिता विस्मिता धूर्तान् ॥६॥
अत्र जले हिमहेलाः पश्यैता अपहरन्ति सितपद्मान् ।
इच्छसि ता अनुगन्तुं नाहं ते वल्लभा व्रजामीति ॥७॥
कुपितां तामनुनेतुं यत्नपरः पान्थ एष पथि कान्ताम् ।
अवलोकय नरनायक कुसुमलताकुहरकेलितीरवने ॥८॥
इति हावभावविलसितविवलनकोपार्धदृष्टिहसितानि ।
कुर्वाणा वरवनिता कथयति ते दृश्यतां राजन् ॥९॥
बकमद्गुशरारूणां नित्यमेकौकसामपि ।
संकरोऽस्ति मिथो बुद्धेर्न मूर्खविदुषामिव ॥१०॥
चञ्चवग्रे खञ्जरीटस्य कीटः किटिकिटायते ।
दौर्भाग्यस्य पुराणस्य पताकेवोच्छ्रितोन्नते ॥११॥
तारं तीरतरौ स रौति तरलो यावद्बकः प्रोल्लसं-
स्तावत्पल्वलगोष्पदेऽम्बुकलिले यावद्बलाद्देहकम् ।
मज्जन्त्या प्रियवक्षसीव निपुणं त्रातं शफर्या भया-
द्धृद्भङ्गेनमहापदीह हि मृतेनान्यद्भवेत्सौख्यदम् ॥१२॥
बकाजगरमद्गूनां हृदि या प्राणिनां धृतिः ।
अचर्वितनिगीर्णानां मन्ये निद्रोपमैव सा ॥१३॥
आसन्नमद्गुबकगृध्रबिडालसर्प-
दृष्ट्या भयं भवति यत्सलिलाशयानाम् ।
तस्याग्रतस्तृणमिवाशनिपातभङ्गो
जातिस्मरेण विदुषोक्तमदः पुरा मे ॥१४॥
इह सरोवरतीरतरोस्तले कुसुमशालिनि मुग्धमृगान्पुरः ।
समवलोकय लोकमलौ बला-त्समवकीर्णनवोत्पलकेतकान् ॥१५॥
बर्ही प्रोन्नतचित्तत्वात्तोयमिन्द्रं प्रयाचते ।
स पूरयति तेनास्य महात्मा निखिलां महीम् ॥१६॥
मेघाननुसरन्त्येते मयूरास्तनपा इव ।
मलिनो मलिनस्यैव पुत्र इत्यनुमीयते ॥१७॥
मृगानालोक्य पथिकश्चिन्तयन्दयितेक्षणे ।
पुरःस्थेषु पदार्थेषु यन्त्रपुत्रिकतां गतः ॥१८॥
शिखी वार्यपि नादत्ते भूमेर्भुङ्क्ते बलादहिम् ।
दौरात्म्यं तन्न जाने किं सर्पस्य शिखिनोऽथवा ॥१९॥
सज्जनाशयनीकाशं त्यक्त्वा बर्ही महत्सरः ।
पिबत्यम्ब्वभ्रनिष्ठ्यूतं मन्ये तन्नतिभीतितः ॥२०॥
लसत्कलापजलदाः पश्य नृत्यन्ति बर्हिणः ।
धुन्वानाः पिच्छकान्तीन्दुं प्रावृषः पोतका इव ॥२१॥
वरवने वनवातविसारिणां चपलचन्द्रकचारुतरङ्गिणाम् ।
इह पयोनिधिरेव कलापिनां विसृतमुक्ततयेव विलासनः ॥२२॥
चर तृणानि पिबाम्बु वनावनौ कलय विश्रमणं कदलीवने ।
चकितचातक पावकदूषिता न हि सुखाय भवत्यतिमानिता ॥२३॥
नायं मयूर मकरालयवारिपूरपूर्णोदरो जलधरोऽम्बरमारुरुक्षुः ।
दावाग्निदग्धवनपादपकोटराग्र धूमावलीवलय उत्थित एष शैलात् ॥२४॥
येनाब्देन शरद्विधावपि शिखी संतर्पितो वारिभि-
र्नो वर्षास्वपि पूरयेद्यदि सरस्तद्वाललोकोचितम् ।
आरब्धं समवेक्ष्य सज्जनजनो हासेन दुःस्थो भवे-
द्बर्हीत्यात्मतृषैव नेतुमखिलं कालं समभ्युद्यतः ॥२५॥
स्फटिकविमलं पीत्वा तोयं घनोदरनिर्गतं
पिबति न पुनर्मार्गे क्षुभ्यंस्तृषापि शिखी जलम् ।
स्फुरति च घनं स्मृत्वा स्मृत्वा न चापि विपद्यते
गुणवति जने बद्धाशानां श्रमोऽपि सुखावहः ॥२६॥
इहातिवाहयन्त्येते मार्गदौस्थ्यं घनागमे ।
कथाभिः पथिकाः प्रायो विमूढा जीवितं यथा ॥२७॥
पश्यात्र नाथ सरसः कमलोत्पलकुमुदबिसमृणालानाम् ।
कह्लारपत्रपयसा भारानादाय बालिकाश्चलिताः ॥२८॥
किमिदं नयथेति ततः पृष्टाभिस्ताभिरुक्तमेतस्य ।
व्यसनज्वरतप्तायाः पथिक वयं बालसख्य इति ॥२९॥
अथ रागरक्तहृदयाः स्तनभरवितता विलासललिताङ्ग्यः ।
पथिकानां स्मरणपथं भूयोऽप्यनयन्प्रियाः स्वगेहस्थाः ॥३०॥
सा नूनं मम कान्ता दृष्ट्वा सुस्निग्धघनतमःश्यामम् ।
गगन च शून्यगहनं प्रलपति भुवि पतति विस्खलति ॥३१॥
भृङ्गावलीकुवलयावलिताब्जपात्र-संप्रेर्यमाणनलिनीमधुपानमत्तः ।
हा वाति तीरतरुपल्लवलास्यलब्ध-
संमुग्धशब्दगणगीतगुणो नभस्वान् ॥३२॥
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अवि० वि० हरिणमयूरबकमुग्धादिवर्णनं नामाष्टादशाधिकशततमः सर्गः ॥११८॥
N/A
References : N/A
Last Updated : October 02, 2021
TOP