संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १७५

निर्वाणप्रकरणं - सर्गः १७५

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
स्वप्नाभमाद्यं चिद्व्योम कारणं देहसंविदाम् ।
दृश्यान्यताऽसंभवतश्चिद्व्योम्नस्तत्कुतो वपुः ॥१॥
सर्गादौ स्वप्नसवित्तिरूपं सर्वं विनानघ ।
न सर्गो न परो लोको दृश्यमानोऽपि सिद्ध्यति ॥२॥
असदेवानुभूरित्थमेवेदं भासते जगत् ।
स्वप्नाङ्गनासङ्ग इव शान्तं चिद्व्योम केवलम् ॥३॥
एवंनामास्ति चिद्धातुरनादिनिधनोऽमलः ।
शून्यात्मैवाच्छरूपोऽपि जगदित्यवभाति यः ॥४॥
मलस्त्वेषोऽपरिज्ञातः परिज्ञातः परं भवेत् ।
कुतः किल परे व्योमन्यनादिनिधने मलः ॥५॥
यदेतद्वेदनं शुद्धं तदेव स्वप्नपत्तनम् ।
जगत्तदेव सर्गादौ पृथ्व्यादेः संभवः कुतः ॥६॥
चिद्व्योमात्मावभासस्य नभसः सर्गरूपिणी ।
कृता पृथ्व्यादिकलना मनोबुद्ध्यादिता तथा ॥७॥
वार्यावर्त इवाभाति पवनस्पन्दवच्च यत् ।
अबुद्धिपूर्वं चिद्व्योम्नि जगद्भानमभित्तिमत् ॥८॥
पश्चात्तस्यैव तेनैव स्वयमैश्वर्यशंसिना ।
कृतं बुद्ध्यादिपृथ्व्यादिकल्पनं सदसन्मयम् ॥९॥
स्वयमेव कचत्यच्छाच्छा येयं स्वा महाचितिः ।
सर्गाभिधानमस्यैव नभ एवेह नेतरत् ॥१०॥
न च किंचन नामाङ्ग कचत्यच्छैव सा स्मृता ।
चिन्मात्रैकैककलनं ततमेवात्मनात्मनि ॥११॥
चिदाकाशश्चिदाकाशे तदिदं स्वमलं वपुः ।
चित्तं दृश्यमिवाभाति यथा स्वप्ने तथा स्थितम् ॥१२॥
अन्यथानुपपत्त्यार्थकारणाभावतः स्वतः ।
सर्गादावेव स्वात्मैव दृश्यं चिद्व्योम पश्यति ॥१३॥
स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते ।
तस्माच्चिद्व्योम चिद्व्योम शून्यत्वं गगनादिवत् ॥१४॥
यदैव तत्परं ब्रह्म सर्वरूपविवर्जितम् ।
तदेवैकं तथारूपमेवं सर्वतया स्थितम् ॥१५॥
स्वप्नेऽनुभूयते चैतत्स्वप्नो ह्यात्मैव भासते ।
नानाबोधमनानैव ब्रह्मैवामलमेव तत् ॥१६॥
ब्रह्मैवात्मनि चिद्भावाज्जीवत्वमिव कल्पयत् ।
रूपमत्यजदेवाच्छं मनस्तामिव गच्छति ॥१७॥
इदं सर्वं तनोतीव तच्च खात्मकमेव खम् ।
भवतीव जगद्रूपं विकारीवाविकार्यपि ॥१८॥
मन एव स्वयं ब्रह्मा स सर्गस्य हृदि स्थितः ।
करोत्यविरतं सर्वमजस्रं संहरत्यपि ॥१९॥
पृथ्व्यादिरहितो यस्मिन्मनोहृद्यङ्गवर्जिते ।
अन्यद्वा त्रिजगद्भाति यथा स्वप्ने निराकृति ॥२०॥
देहरूपजगद्रूपैरहमेकमनाकृति ।
मनस्तिष्ठाम्यनन्तात्म बोधाबोधं पराभवम् ॥२१॥
नेह पृथ्व्यादि नो देहो न चैवान्यास्ति दृश्यता ।
जगत्तया केवलं खं मनः कचकचायते ॥२२॥
विचार्यदृष्ट्यैतदपि न किंचिदपि विद्यते ।
केवलं भाति चिन्मात्रमात्मनात्मनि निर्घनम् ॥२३॥
यतो वाचो निवर्तन्ते तूष्णींभावोऽवशिष्यते ।
व्यवहार्यपि खात्मैव तद्वत्तिष्ठति मूकवत् ॥२४॥
अनन्तापारपर्यन्ता चिन्मात्रपरमेष्टका ।
तूष्णीं भूत्वा भवत्येष प्रबुद्धः पुरुषोत्तमः ॥२५॥
अबुद्धिपूर्वं द्रवतो यथावर्तादयोऽम्भसि ।
क्रियन्ते ब्रह्मणा तद्वच्चित्तबुद्ध्यादयो जडाः ॥२६॥
अबुद्धिपूर्वं वातेन क्रियते स्पन्दनं यथा ।
अनन्यदेवं बुद्ध्यादि क्रियते परमात्मना ॥२७॥
अनन्यदात्मनो वायोर्यथा स्पन्दनमव्ययम् ।
अनन्यदात्मनस्तद्वच्चिन्मात्रं परमात्मनः ॥२८॥
चिद्व्योम ब्रह्मचिन्मात्रमात्मा चिति महानिति ।
परमात्मेति पर्याया ज्ञेया ज्ञानवतां वर ॥२९॥
ब्रह्मोन्मेषनिमेषात्म स्पन्दास्पन्दात्म वातवत् ।
निमेषो यादृगेवास्य समुन्मेषस्तथा जगत् ॥३०॥
दृश्यमस्य समुन्मेषो दृश्याभावो निमेषणम् ।
एकमेतन्निराकारं तद्द्वयोरप्युपक्षयात् ॥३१॥
निमेषोन्मेषयोरेकरूपमेव परं मतम् ।
अतोऽस्ति दृश्यं नास्तीति सदसच्च सदा चितिः ॥३२॥
निमेषो नान्य उन्मेषान्नोन्मेषोऽपि निमेषतः ।
ब्रह्मणः सर्गवपुषो निमेषोन्मेषरूपिणः ॥३३॥
तद्यथास्थितमेवेदं विद्धि शान्तमशेषतः ।
अजातमजरं व्योम सौम्यं समसमं जगत् ॥३४॥
चिदचित्यात्मकं व्योम रूपं कचकचायते ।
चिन्नाम तदिदं भाति जगदित्येव तद्वपुः ॥३५॥
न नश्यति न चोत्पन्नं दृश्यं नाप्यनुभूयते ।
स्वयं चमत्करोत्यन्तः केवलं केवलैव चित् ॥३६॥
महाचिद्व्योममणिभा दृश्यनाम्नी निजाकरात् ।
अनन्यान्येव भातापि भानुभास इवोष्णता ॥३७॥
सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव सर्गवत् ।
सर्वमेकं शिवं शान्तं नानेवापि स्थितं स्फुरत् ॥३८॥
यद्यत्संवेद्यते यादृक्सद्वाऽसद्वा यथा यदा ।
तथानुभूयते तादृक्तत्सदस्त्वसदस्तु वा ॥३९॥
अन्यथानुपपत्त्या चेत्कारणं परिकल्प्यते ।
तत्स्वप्नाभो जगद्भावादन्यथा नोपपद्यते ॥४०॥
प्रमातीतात्पराद्विश्वमनन्यदुदितं यतः ।
प्रमातीतमिदं चैव किंचिन्नाभ्युदितं ततः ॥४१॥
यस्य यद्रसिकं चित्तं तत्तथा तस्य गच्छति ।
ब्रह्मैकरसिकं तेन मनस्तत्तां समश्नुते ॥४२॥
यच्चित्तो यद्गतप्राणो जनो भवति सर्वदा ।
तत्तेन वस्त्विति ज्ञातं जानाति तदसौ स्फुटम् ॥४३॥
ब्रह्मैकरसिकं यत्स्यान्मनस्तत्तद्भवेत्क्षणात् ।
यस्य यद्रसिकं चेतो बुद्धं तेन तदेव सत् ॥४४॥
विश्रान्तं यस्य वै चित्तं जन्तोस्तत्परमार्थसत् ।
व्यवहृत्यै करोत्यन्यत्सदाचारादतद्रसम् ॥४५॥
द्वित्वैकत्वादिकलना नेह काचन विद्यते ।
सत्तामात्रं च दृगियमितश्चेदलमीक्ष्यते ॥४६॥
अदृश्यदृश्यसदसन्मूर्तामूर्तदृशामिह ।
नैवास्ति न च नास्त्येव कर्ता भोक्ताऽथवा क्वचित् ॥४७॥
इदमित्थमनाद्यन्तं जगत्पर्यायमात्मनि ।
ब्रह्मैकघनमाशान्तं स्थितं स्थाणुरिवाध्वनि ॥४८॥
यदेव ब्रह्म बुद्ध्यादि तदेवैतन्निरञ्जनम् ।
यदेव गगनं शान्तं शून्यं विद्धि तदेव तत् ॥४९॥
केशोण्ड्रकादयो व्योम्नि यथा सदसदात्मकाः ।
द्वितामिवागता भान्ति परे बुद्ध्यादयस्तथा ॥५०॥
तथा बुद्ध्यादि देहादि वेदनादि परापरे ।
अनेकान्यप्यनन्यानि शून्यत्वानि यथाम्बरे ॥५१॥
सुषुप्ताद्विशतः स्वप्नमेकनिद्रात्मनो यथा ।
सर्गस्थस्यापि न द्वित्वं नैकत्वं ब्रह्मणस्तथा ॥५२॥
एवमेव कचत्यच्छा छायेयं स्वा महाचितेः ।
न च किंचन नामाङ्ग कचत्यच्छैवमास्थिता ॥५३॥
चिद्व्योम्नि हि चिदाकाशमेव स्वममलं वपुः ।
चेत्यं दृश्यमिवाभाति स्वप्नेष्विव यथास्थितम् ॥५४॥
अन्यथानुपपत्त्यार्थकारणाभावतः स्वतः ।
चिद्व्योमात्मानमेवादौ दृश्यमित्येव पश्यति ॥५५॥
सर्गादावेव खात्मैव दृश्यं भाति निराकृति ।
संभ्रमः स्वप्नसंकल्पमिथ्याज्ञानेष्विवाभितः ॥५६॥
स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते ।
विकार्यपि सधर्मापि चिद्व्योम्नो वस्तुनो मलात् ॥५७॥
तत्स्वप्ननगराकारं सधर्माप्यसधर्मकम् ।
शिवादनन्यमेवेत्थं स्थितमेव निरन्तरम् ॥५८॥
दृश्यं स्वप्नाद्रिवत्स्वच्छं मनागपि न भिद्यते ।
तस्माच्चिद्व्योमचिद्व्योम्नः शून्यत्वं गगनादिव ॥५९॥
यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् ।
तदेवेदं तथाभूतमेव सर्गतया स्थितम् ॥६०॥
स्वप्नेऽनुभूयते चैतत्स्वप्ने ह्यात्मैव भासते ।
पुरादित्वेन न तु सत्पुरादिरचितं तदा ॥६१॥
स्वप्ने च प्रत्यभिज्ञायाः संस्कारस्य स्मृतेस्तथा ।
न सत्ता तदिदं दृष्टमित्यर्थस्यात्यसंभवात् ॥६२॥
तस्मादेतत्त्रयं त्यक्त्वा यद्भानं ब्रह्मसंविदः ।
तस्य दृष्टार्थसादृश्यान्मूढैः स्मृत्यादितोहिता ॥६३॥
यथा यत्रैव लहरी वारिण्येति पुनः पुनः ।
तत्रैवैति तथा तद्वदनन्या खे परे जगत् ॥६४॥
विधयः प्रतिषेधाश्च सर्व एव सदैव च ।
विभक्ताश्च विमिश्राश्व परे सन्ति न सन्ति च ॥६५॥
तस्मात्सद्ब्रह्म सर्वात्म किमिवात्र न विद्यते ।
सैव सत्तैव सर्वात्म चैतदप्येतदात्मकम् ॥६६॥
भ्रान्तस्य भ्रमणं भूमेर्न भूर्भ्रान्तैव वा गणैः ।
न शाम्यति ज्ञातुरपि तथाभ्यासं विनात्र दृक् ॥६७॥
शास्त्रस्यास्य तु यन्नाम वादनं तद्विनापरः ।
अभ्यासो दृश्यसंशान्त्यै न भूतो न भविष्यति ॥६८॥
न जीवन्न मृतं चित्तं रोधमायाति संसृतेः ।
अविनाभाविदेहत्वाद्वोधात्त्वेतन्न पश्यति ॥६९॥
सर्वदैवाविनाभावि चित्तं दृश्यशरीरयोः ।
इह चामुत्र चैतस्य बोधान्ते शाम्यतः स्वयम् ॥७०॥
चित्तदृश्यशरीराणि त्रीणि शाम्यन्ति बोधतः ।
पवनस्पन्दसैन्यानि कारणाभावतो यथा ॥७१॥
कारणं मौर्ख्यमेवास्य तच्चास्मादेव शास्त्रतः ।
किंचित्संस्कृतबुद्धीनां वाचितादेव शाम्यति ॥७२॥
अबुद्धमुत्तरग्रन्थात्पूर्वं पूर्वं हि बुध्यते ।
ग्रन्थं पदपदार्थज्ञः खेदवान्न निवर्तते ॥७३॥
उपायमिदमेवातो विद्धि शास्त्रं भ्रमक्षये ।
अनन्यसाधारणतां गतमित्यनुभूयते ॥७४॥
तस्मादस्मान्महाशास्त्राद्यथाशक्ति विचारयेत् ।
भागौ द्वौ भागमेकं वा तेन दुःखक्षयो भवेत् ॥७५॥
आरुषेयमिदमिति प्रमादाच्चेन्न रोचते ।
तदन्यदात्मविज्ञानशास्त्रं किंचिद्विचारयेत् ॥७६॥
अनर्थेनाविचारेण वयः कुर्यान्न भस्मसात् ।
बोधेन ज्ञानसारेण दृश्यं कर्तव्यमात्मसात् ॥७७॥
आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते तद्वृथा येन प्रमादः सुमहानहो ॥७८॥
अनुभूतमपि च नो स-
दृश्यमिदं द्रष्टृसहितमपि ।
स्वप्ननिजमरणबान्धव-
रोदनमिव सदिव कचितमपि ॥७९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि० परमार्थगीतास्वद्वैतयुक्तिर्नाम पञ्चसप्तत्यधिकशततमः सर्गः ॥१७५॥

N/A

References : N/A
Last Updated : October 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP