निर्वाणप्रकरणं - सर्गः २०५
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
एवं यथैतद्भगवन्स्वप्ने दृश्यं परं नभः ।
तथैव जाग्रतीत्यत्र न चेत्संदेहजालिका ॥१॥
इदं मे भगवन्ब्रूहि महाप्रश्नमनुत्तमम् ।
कथं भवत्यदेहा चिज्जाग्रत्स्वप्न स्वदेहवत् ॥२॥
श्रीवसिष्ठ उवाच ।
दृश्यं जाग्रत्यथ स्वप्ने खाधारं खात्मकं खजम् ।
खं च नान्यत्परं जातु संदेहोऽस्त्युपपत्तितः ॥३॥
समस्तकारणाकारप्रत्यस्तमयरूपिणि ।
सर्गादावेव भूतानि संभवन्ति न कानिचित् ॥४॥
पृथ्व्यादिनियतस्तेन देहोऽयं नास्ति किंचन ।
भूतान्येव किलैतानि देहस्तानि न सन्त्यलम् ॥५॥
तेन स्वप्नवदाभासमिदं पश्यति चिन्नभः ।
स्वरूपमात्रकचनमाकारवदिवाकुलम् ॥६॥
भानमाभानमात्रत्वमिदं यत्तच्चिदात्मना ।
नभसा स्वप्नशब्देन कथ्यते जगदाकृतिः ॥७॥
यदेतद्वेदनं नाम चिद्व्योम्नो व्योमनिर्मलम् ।
एतदन्तश्चितो रूपं स्वप्नो जगदिति स्थितम् ॥८॥
एतस्मिन्नेव तेनाथ स्वभावकचने तते ।
चिद्रूपेण कृताः संज्ञाः पृथक्पृथ्व्यादिका इमाः ॥९
चिद्भानमेव तत्स्वप्नजगच्छब्दैः प्रकथ्यते ।
भानं चास्याः स्वभावः खं तत्कदाचिन्न शाम्यति ॥१०॥
बह्वयः सर्गदृशो भिन्ना ब्रह्मेव ब्रह्मखे च ताः ।
शून्यतानभसी वातस्तिष्ठन्ति च विशन्ति च ॥११॥
श्रीराम उवाच ।
सर्गाणां कोटयः प्रोक्ता भगवन्भवता किल ।
काश्चिद्ब्रह्माण्डकोशस्थाः काश्चिदण्डविवर्जिताः ॥१२॥
काश्चिन्महीकोशगताः काश्चिदाकाशसंस्थिताः ।
तेजःकोशगताः काश्चित्काश्चित्पवनकोशगाः ॥१३॥
काश्चिद्व्योमस्थभूपीठा ऊर्ध्वाधस्थविनिश्चयाः ।
बुध्नाकाशादूर्ध्वखुरा लम्बमानवनाचलाः ॥१४॥
काश्चिद्वातात्मभूतौघाः काश्चिन्नित्यं तमोधराः ।
व्योमसंस्थानकाः काश्चित्काश्चित्क्रिमिकुलाकुलाः ॥१५॥
काश्चिदाकाशकोशस्थाः काश्चिच्चोपलकोशगाः ।
काश्चित्सकुण्डकोशस्थाः काश्चित्खे खगवत्स्थिताः ॥१६॥
तासां मध्ये यथा हीदं ब्रह्माण्डं यादृशं स्थितम् ।
अस्माकं भगवंस्तन्मे ब्रूहि तत्त्वविदां वर ॥१७॥
श्रीवसिष्ठ उवाच ।
यदपूर्वमदृष्टं वा नानुभूतं न वा श्रुतम् ।
तद्वर्ण्यते सुदृष्टान्तैर्गृह्यते च तदूह्यते ॥१८॥
इदं तु राम ब्रह्माण्डमागमैर्मुनिभिः सुरैः ।
शतशो वर्णितं तच्च ज्ञातमेतत्त्वयाऽखिलम् ॥१९॥
यथेदं भवता ज्ञातमागमैर्वर्णितं यथा ।
स्थितं तदेतदखिलं किमन्यदिह वर्ण्यते ॥२०॥
श्रीराम उवाच ।
कथमेतद्वद ब्रह्मन्संपन्नं चिन्महानभः ।
कियत्प्रमाणमेतद्वा कियत्कालं च वा स्थितम् ॥२१॥
श्रीवसिष्ठ उवाच ।
अनादिनिधनं ब्रह्म नित्यमस्त्येतदव्ययम् ।
आदिमध्यान्तता नास्ति नाकाराः परमाम्बरे ॥२२॥
ब्रह्माकाशमनाद्यन्तमेतदव्ययमाततम् ।
एतन्मयमिदं विश्वं विष्वगाद्यन्तवर्जितम् ॥२३॥
परमस्यास्य चिद्व्योम्नः स्वयं यद्भानमात्मनि ।
तदेतद्विश्वमित्युक्तं स्वयं तेनैव तन्मृषा ॥२४॥
पुरुषस्य यथा स्वप्नपुरसंदर्शनं तथा ।
तत्तस्य भानं पुरवत्तदिदं विश्वमुच्यते ॥२५॥
कठिना नेह गिरयो न द्रवाणि जलानि च ।
न शून्यमेतदाकाशं कालो न कलनात्मकः ॥२६॥
यद्यथा चाव्ययं यत्र स्वतः संचेतितं चिता ।
तत्तथा तत्र चित्तत्त्वे अलं शैलादिवत्स्थितम् ॥२७॥
अशिलैव शिला स्वप्ने नभ एवानभो यथा ।
भवेत्तथेह सर्गादि स्वप्ने दृश्यस्थितिश्चितौ ॥२८॥
अनाकारैव चिच्छान्ता स्वप्नवत्यत्स्वचेतनम् ।
वेत्ति तज्जगदित्युक्तं तच्चानाकारमेव सत् ॥२९॥
वायोः स्पन्दो यथान्तस्थो वात एव निरन्तरः ।
तथेदं ब्रह्मणि ब्रह्म न चोदेति न शाम्यति ॥३०॥
द्रवत्वमम्भसि यथा शून्यत्वं नभसो यथा ।
यथा वस्तुनि वस्तुत्वं ब्रह्मणीदं जगत्तथा ॥३१॥
न प्रयातं न वाऽऽयातमकारणमकारणात् ।
न च नास्ति न वास्तीदं भिन्नं ब्रह्मपदे जगत् ॥३२॥
न चानादि निराभासं निराकारं चिदम्बरम् ।
दृशः कारणमन्यस्याः क्वचिद्भवितुमर्हति ॥३३॥
तस्माद्यथावयविनोऽवयवाः स्वात्ममात्रकाः ।
तथानवयवे ब्रह्मव्योस्नि व्योम जगत्स्थितम् ॥३४॥
सर्वं शान्तं निरालम्बं ज्ञप्तिमात्रमनामयम् ।
नेह सत्ता न वासत्ता न च नानास्ति किंचन ॥३५॥
संकल्पस्वप्ननगरनृत्तवत्सर्वमाततम् ।
स्थितमेव समं शान्तमाकाशमजमव्ययम् ॥३६॥
परमचिदम्बरहृदयं
चित्त्वाद्यत्कचति कान्तममलमलम् ।
तदिदं जगदिति कलितं
तेनैव तदात्मरूपमाकल्पम् ॥३७॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० सर्गकारणनिरासो नाम पञ्चाधिकद्विशततमः सर्गः ॥२०५॥
N/A
References : N/A
Last Updated : October 10, 2021
TOP