निर्वाणप्रकरणं - सर्गः ११२
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
लोकहाराम्बरव्यालं चेदिचन्दनकाननम् ।
छिन्नं परशुधाराभिः पतितं दक्षिणार्णवे ॥१॥
पर्णवत्प्रोह्य पूरेण पारसीकाः परस्परम् ।
प्रहरन्तो विमोहेन विनष्टा वंजुलावने ॥२॥
दर्दुराद्रौ दुरन्तेषु दरदीर्णहृदन्तराः ।
दरीरन्ध्रेषु संलीना दरदा दानवा इव ॥३॥
चतुरायुधधाराग्रचूर्णनीहारधारिणः ।
विद्युद्वलयिनो वाता वेल्लितायुधवारिदाः ॥४॥
दन्तिनोऽन्योन्यमाभग्नदन्तदेहौघपीडिताः ।
मृत्यूदरोम्भकग्रासपिण्डपिण्डा इवाभवन् ॥५॥
तज्जा रैवतिका रात्रौ रौद्रतोमरताडिताः ।
रूपिकाभिः पिशाचीभिर्भुक्ता भागीकृताङ्गकाः ॥६॥
तालीतमालगहने दशार्णा जीर्णजङ्गले ।
गले पादं निधायान्तः कृत्ताः सिंहैर्गतासवः ॥७॥
पश्चिमार्णवतीरस्था नालिकेरधरावनौ ।
यवना विगतप्राणा निगीर्णा मकरोत्करैः ॥८॥
नाराचनिकरं नीलं निमेषं नासहञ्छकाः ।
रमठा नलिनीषण्डा इव ताण्डवितासवः ॥९॥
श्रवणाभोगशृङ्गाग्रो महेन्द्रोऽद्रिर्दिवि व्रजैः ।
विद्रुतैर्वलितो नीलैर्जालैर्जलमुचामिव ॥१०॥
चामीकरवराकारा भग्ना तङ्गणवाहिनी ।
मृता हृताम्बरा चोरैर्भुक्तैकान्ते निशाचरैः ॥११॥
द्यौरिवर्क्षभरैरासीत्तदासारं भुवस्तलम् ।
विवर्तमानैरभितः कचद्भिर्ज्वलनायुधैः ॥१२॥
धाराधरधरारन्ध्रप्रतिश्रुद्धनघुंघुमा ।
जगद्गेहगुहासीद्द्यौर्घनं गातुमिवोद्यता ॥१३॥
द्विपान्तरजनाश्चक्रैर्जर्जरा जीवितं जहुः ।
मीनजङ्गलजम्बाले जीर्णमत्स्या इवाजले ॥१४॥
यावद्द्वीपा जिताः कुक्षौ सह्याद्रौ सममूर्तयः ।
आश्वस्य दिवसान्सप्त ययुरायासमन्थरम् ॥१५॥
गन्धमादनपुन्नागवनकुञ्जेषु पुञ्जिताः ।
विद्याधरकुमारीभिर्गान्धाराः परिरक्षिताः ॥१६॥
हूणचीनकिरातानां मुक्तैस्तैश्चक्रवर्षणैः ।
कमलानीव लूनानि शिरांस्यभिमुखानिलैः ॥१७॥
निलीपा नलिनीनाले कण्टका इव निश्चलाः ।
द्रुमे द्रुमे द्रुममया भयात्त्वस्यावसंश्चिरम् ॥१८॥
चारुसारङ्गरङ्गासु शैलकाननभूमिषु ।
चतुर्दिक्कं तदापातैः संपन्नं क्षोभणं घनम् ॥१९॥
कण्टकस्थलनामानः कण्टकस्थलकर्कशाः ।
कण्टकस्थलगा आसन्कण्टकस्थलमण्डले ॥२०॥
पारसीकाः परं पूरैः पारं प्राप्य पयोनिधेः ।
निपेतुः पवनैः पूताः प्रलये तारका इव ॥२१॥
ववुरम्भोधिकुट्टाका दृषदां कटकाङ्किताः ।
सर्वदिग्वनलुण्टाका वाताः प्रलयशङ्किताः ॥२२॥
आसारसाराः पङ्काम्बुप्लुताः सघनघुंघुमाः ।
आसन्दशदिशोऽदृश्या बहुक्षुब्धायुधानिलैः ॥२३॥
निर्ह्रादकारिभिर्वातैर्वहच्छपछपारवम् ।
प्रसस्रुर्भुवि नीहारा महार्णवरया इव ॥२४॥
विदूरस्था रथेभ्यश्च वीचिचीत्कारकारिणः ।
सरोम्भस्यनिलैः पेतुः पद्मेभ्य इव षट्पदाः ॥२६॥
आयुधौघेऽपि चक्रौघात्पादातं वलमाविलम् ।
रजोराशिरिवासारे न समर्थं पलायने ॥२६॥
हूणा आमस्तकं मग्ना उत्तरार्णवसैकते ।
क्लिन्नास्तत्रैव पङ्कान्तः पूरणाविलशूलवत् ॥२७॥
तीरैलावनलेखासु शकाः पूर्वपयोनिधेः ।
नीता बद्ध्वा दिनं मुक्ता न गता यमसादनम् ॥२८॥
मन्दं मन्द्रा महेन्द्राद्रौ क्रन्दन्तः पतिता दिवः ।
आश्वासिता मुनिवरैर्निजाश्रममृगा इव ॥२९॥
प्रविष्टा याचनं सह्ये लब्धाः सुरविलाद्द्वयम् ।
अनर्थेनाऽर्थ आयाति काकतालीयतः क्वचित् ॥३०॥
पतिता दर्दुरारण्ये दशार्णा जीर्णपर्णवत् ।
भुक्त्वा विषफलान्यज्ञा मृतास्तत्रैव ते स्वयम् ॥३१॥
विशल्यकरणीं भुक्त्वा काकतालीययोगतः ।
हिमाद्रौ हैहया याता गृहं विद्याधरा इव ॥३२॥
पृष्ठनृम्लानकुसुमा धनुर्भिर्गृहमागताः ।
वङ्गा नाद्यापि दृश्यन्ते पिशाचत्वमिवागताः ॥३३॥
अङ्गा वनफलैर्भुक्तैर्विद्याधरपदप्रदैः ।
विद्याधरीभिः क्रीडन्ति दिवि विद्याधराः स्थिताः ॥३४॥
तालीतमालखण्डेषु पतिताः पातिताङ्गकाः ।
पारसीका गता मोहं भ्रमाद्वैमानिका इव ॥३५॥
तरलासारमातङ्गं पतितं तङ्गणाङ्गणे ।
अङ्गैरंग कलिङ्गानां चतुरङ्गं वलं हतम् ॥३६॥
क्रमत्यरिबले साल्वाः शरशैलोदकोदरे ।
पतिताः प्रभुणा सार्धमद्याप्येवोपलाः स्थिताः॥३७॥
असंख्याः प्रपलायन्तः ककुभं ककुभं प्रति ।
नराः सरत्तरङ्गेषु सागरेषु लयं गताः ॥३८॥
क्षेत्राटवीपुरजलस्थलशैलकूल-
कुल्याग्रहारसरिदब्धिभृगुद्रुमेषु ।
ग्रामारपट्टिगिरिकूपगुहागृहेषु
भ्रष्टानि कःकलयितुं कुबलानि शक्तः ॥३९॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० अवि० वि० बलपरिभ्रंशो नाम द्वादशाधिकशततमः सर्गः ॥११२॥
N/A
References : N/A
Last Updated : October 01, 2021
TOP