निर्वाणप्रकरणं - सर्गः २१४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ नभसो ननाद
वर्षामृताभ्रमिव दुन्दुभिरामरो द्राक् ।
शुक्लीकृताखिलककुब्वदना तुषार-
वर्षोपमा भुवि पपात च पुष्पवृष्टिः ॥१॥
किंजल्कजालदिवसान्तघनाङ्गरागा
वातावधूतसितकेसरगौरहारा ।
पुष्पोदरोत्थमृदुसीकरशीतलाङ्गा
प्राप्ता स्वयं सुरपुरादिव पुण्यलक्ष्मीः ॥२॥
कल्पान्तकालकपिकम्पितशुष्कशाखा-
त्स्वर्गद्रुमात्पतितमाशु विडम्बयन्ती ।
तारागणं प्रथितभासमनल्पहास-
माशामुखप्रसृतभैरवमम्बरस्था ॥३॥
सा पुष्पवृष्टिरथ दुन्दुभिनादगर्ज-
त्किंजल्कपुञ्जजलदा शममाजगाम ।
आपूरिताखिलसभा हिमहारिपुष्प-
पूरेण कौतुकविकासकरीक्षणेन ॥४॥
तानि दिव्यानि पुष्पाणि यथास्थानमधःस्थिताः ।
वसिष्ठाय नमस्कृत्वा सभ्याः संशोकितां जहुः ॥५॥
दशरथ उवाच ।
अहोऽनुसुविशात्मानः संसारवितताकृतेः ।
विश्रान्ताः स्मश्चिरं श्रान्ताः शुद्धा मेघा इवाचले ॥६॥
कर्मणामवधिः पूर्णो दृष्टः सीमान्त आपदाम् ।
ज्ञातं ज्ञेयमशेषेण विश्रान्ताः स्मः परे पदे ॥७॥
ध्यानलब्धपरव्योमचिरानुभवनभ्रमैः ।
धारणाधारविश्रान्त्या देहसंत्यजनक्रमैः ॥८॥
संकल्पनवनिर्माणैः स्वप्नदृष्टिजगज्ज्वरैः ।
शुक्तिरूप्यानुभवनैः स्वप्नात्ममृतिदर्शनैः ॥९॥
अनन्यैः पवनस्पन्दैरनन्यैः सलिलद्रवैः ।
इन्द्रजालपुरापूरैर्गन्धर्वनगरोत्करैः ॥१०॥
मायापूर्णपुराभोगैर्मृगतृष्णानदीरयैः।
आयतौ पवनस्पर्शैर्द्विचन्द्रानुभवोदयैः ॥११॥
मदभ्रंशपुरस्पन्दैर्मुधा त्ववनिकम्पनैः ।
बालयक्षाद्यनुभवैः खकेशोण्ड्रकदर्शनैः ॥१२॥
एवमादिभिरन्यैश्च दृष्टान्तैः स्वानुभूतिदैः ।
अहो नु मार्जिता दृश्यदृष्टिर्भगवता मम ॥१३॥
श्रीराम उवाच ।
नष्टो मोहः पदं प्राप्तं त्वत्प्रसादान्मुनीश्वर ।
संपन्नोऽहमहं सत्यमत्यन्तमवदातधीः ॥१४॥
स्थितोऽस्मि गतसंदेहः स्वभावे ब्रह्मरूपिणि ।
निरावरणविज्ञानः करिष्ये वचनं तव ॥१५॥
स्मृत्वा स्मृत्वाऽमृतासेकसौख्यदं वचनं तव ।
अर्हितोऽपि च शान्तोपि हृष्यामीव मुहुर्मुहुः ॥१६॥
नैव मेऽद्य कृतेनार्थो नाकृतेनेह कश्चन ।
यथा स्थितोऽस्मि तिष्ठामि तथैव विगतज्वरः ॥१७॥
उपायस्तु तथा तेन दृष्टिर्वास्तीह कीदृशी ।
अहो नु वितता भूमिः कष्टमेतादृशी दशा ॥१८॥
न शत्रुर्न च मित्रं मे न क्षेत्रं दुर्जनो जनः ।
दुर्बोधैषा जगत्क्षुब्धा शान्ता सर्वार्थसुन्दरी ॥१९॥
कथमेतां जनो वेत्ति विना भवदनुग्रहम् ।
विनैव सेतुं पोतं वा बालोऽब्धिं लङ्घयेत्कथम् ॥२०॥
लक्ष्मण उवाच ।
जन्मान्तरोपचितसंशयनाशनेन
जन्मान्तरोपचितपुण्यशतोदितेन ।
जातोऽद्य मे मुनिवचःपरिबोधनेन
जातोऽद्य मे मनसि चन्द्र इव प्रकाशः ॥२१॥
ईदृश्यां दृश्यमानायां दृशि दोषदशाशतैः ।
काष्ठवद्दह्यते लोकः स्वदुर्भगतया तया ॥२२॥
विश्वामित्र उवाच ।
अहो बत महत्पुण्यं श्रुतं ज्ञानं मुनेर्मुखात्।
येन गङ्गासहस्रेण स्नाता इव वयं स्थिताः ॥२३॥
श्रीराम उवाच ।
संपदामथ दृष्टीनां शास्त्राणामापदां गिराम् ।
देशानामथ दृष्टानां दृष्टः सीमान्त उत्तमः ॥२४॥
नारद उवाच ।
यन्न श्रुतं ब्रह्मलोके स्वर्गे भूमितले तथा ।
कर्णौ तज्ज्ञानमाकर्ण्य यातौ मेऽद्य पवित्रताम् ॥२५॥
लक्ष्मण उवाच ।
हार्दं बाह्यं च तिमिरमपमृष्टवता त्वया ।
मुने परमभानुत्वं नूनं नः संप्रदर्शितम् ॥२६॥
शत्रुघ्न उवाच ।
निर्वृतोऽस्मि प्रशान्तोऽस्मि प्राप्तोस्मि परमं पदम् ।
चिराय परिपूर्णोऽस्मि सुखमासे च केवलम् ॥२७॥
दशरथ उवाच ।
बहुजन्मोपलब्धेन पुण्येनायं मुनीश्वरः ।
धीरः कथितवान्नस्तद्येन पावनतां गताः ॥२८॥
श्रीवाल्मीकिरुवाच ।
इति तेषु वदत्स्वत्र सभ्येषु सह भूभृता ।
वसिष्ठः स उवाचेदं ज्ञानपावनया गिरा ॥२९॥
राजन्रघुकुलैकेन्दो यदहं वच्मि तत्कुरु ।
इतिहासकथान्ते हि पूजनीया द्विजातयः ॥३०॥
तदद्य ब्राह्मणौघांस्त्वं सर्वकामैः प्रपूरय ।
वेदार्थसमनुष्ठानफलं प्राप्स्यसि शाश्वतम् ॥३१॥
मोक्षोपायकथावस्तुसमाप्तौ द्विजपूजनम् ।
शक्तितः कीटकेनापि कार्यं किमु महीभृता ॥३२॥
इति मौनं वचः श्रुत्वा सहस्राणि नृपो दश ।
दूतैराकारयामास द्विजानां वेदवादिनाम् ॥३३॥
मथुरायां सुराष्ट्रेषु गौडेषु च वसन्ति ये ।
तेभ्यः कुलेभ्यःसोऽभ्यर्च्य समानीय द्विजन्मनाम् ॥३४॥
अधिकात्यधिकज्ञानप्रकृतद्विजभोजनः ।
तदा दशसहस्राणि भोजयामास भूपतिः ॥३५॥
यथाभिमतभोज्यान्नदानदक्षिणया तया ।
एवं संपूज्य तान्विप्रान्पितृन्देवान्नृपांस्तथा ॥३६॥
पौरामात्यांस्तथा भृत्यान्दीनान्धकृपणांश्च तान् ।
तस्मिन्दशरथो राजा दिने सह सुहृज्जनैः ॥३७॥
लब्धसंसृतिसीमान्तश्चकारोत्सवमुत्तमम् ।
तथा नृपगृहे तस्मिन्कौशेयमणिकाञ्चने ॥३८॥
भूषिते नगरे चैव गीर्वाणनगसुन्दरे ।
ननृतुर्मत्तकामिन्यो विलासिन्यो गृहे गृहे ॥३९॥
लसद्वंशलताकांस्यवीणामुरजमर्दलम् ।
ताण्डवेनोद्धतारावमन्योन्येतरशेखराः ॥४०॥
क्षुब्धीकृतापणकरभ्रान्तिपल्लविताम्बराः ।
मुग्धाट्टहासविक्षिप्तदन्तेन्दुकिरणच्छटाः ॥४१॥
मदाकुलितहुंकारा लीलासु तरलस्वराः ।
एकपादतलाघातहेलाहतधरातलाः ॥४२॥
स्रग्दामतारविगलत्कुसुमासारपाण्डुराः ।
धारापातितविच्छिन्नहारमुक्तास्खलत्पदाः ॥४३॥
लोलाभरणसाकारं कामं ननृतुरङ्गनाः ।
पेठुः स्फुटपदं विप्रा बन्दिनोऽप्यङ्गनाश्च ताः ॥४४॥
पपुरुत्ताण्डवं पानं पानपा मदशालिनः ।
भोज्यं बुभुजिरे चित्रं भूषिता भोजनार्थिनः ॥४५॥
सुधादिपरिलेपेन रञ्जिता गृहभित्तयः ।
रेजू रामेन्दुभानेन पुष्पधूपविलेपनैः ॥४६॥
वासांसि वसिताश्चित्राण्युत्तमस्रग्विभूषणाः ।
चेरुः परिचराश्चेट्यश्चारुगन्धा नृपाध्वरे ॥४७॥
देहयष्टिषु संयोज्य वनिता यक्षकर्दमम् ।
जग्मुस्ताण्डवनर्तक्यः श्रृङ्गारात्माङ्गणान्तरम् ॥४८॥
भवबहुलनिशावसानहर्षा-
दिति घनमुत्सवमेव सप्तरात्रम्।
दशरथनृपतिः सदानभोग-
श्रियमकरोत्पदमक्षयं समेतः ॥४९॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० महोत्सववर्णनं नाम चतुर्दशाधिकद्विशततमः सर्गः ॥२१४॥
N/A
References : N/A
Last Updated : October 10, 2021
TOP