निर्वाणप्रकरणं - सर्गः २२
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
ज्ञानेन ज्ञेयनिष्ठत्वाद्योऽचित्तं चित्तमेव च ।
न बुध्यते कर्मफलं स ज्ञानीत्यभिधीयते ॥१॥
ज्ञात्वा सम्यगनुज्ञानं दृश्यते येन कर्मसु ।
निर्वासनात्मकं ज्ञस्य स ज्ञानीत्यभिधीयते ॥२॥
अन्तःशीतलतेहासु प्राज्ञैर्यस्यावलोक्यते ।
अकृत्रिमैकशान्तस्य स ज्ञानीत्यभिधीयते ॥३॥
अपुनर्जन्मने यः स्याद्बोधः स ज्ञानशब्दभाक् ।
वसनाशनदा शेषा व्यवस्था शिल्पजीविका ॥४॥
प्रवाहपतिते कार्ये कामसंकल्पवर्जितः ।
तिष्ठत्याकाशहृदयो यः स पण्डित उच्यते ॥५॥
अकारणं प्रवर्तन्त इव भावा अकारणात् ।
अविद्यमाना अप्येतेऽविद्यमाना इव स्थिताः ॥६॥
आविर्भावतिरोभावैर्भावाभावभवाभवैः ।
पश्चात्कारणतां यान्ति मिथः कारणकर्मभिः ॥७॥
असतः शशश्रृङ्गादेर्मृगतृष्णाम्भसो यथा ।
आलोकनादलभ्यस्य कीदृक् स्यात्किल कारणम् ॥८॥
असतः शशश्रृङ्गादेः कारणं मार्गयन्ति ये ।
वन्ध्यापुत्रस्य पौत्रस्य स्कन्धमासादयन्ति ते ॥९॥
असत्यप्रतिभासानामेतदेवाशु कारणम् ।
यदनालोकनं नाम समालोकक्षणक्षयम् ॥१०॥
परमात्मायते जीवो बुध्यमानस्त्वचेतनम् ।
चेतनं बुध्यमानस्तु जीव एवावतिष्ठते ॥११॥
परमात्मैव जीवोऽयं बुध्यमानस्त्वचेतनम् ।
आम्र एव रसापत्तेः प्रयाति सहकारताम् ॥१२॥
चेतनं बुध्यमानस्तु जीव एवावतिष्ठते ।
जीवो जीवितजीर्णेषु जातिजन्मसु जर्जरः ॥१३॥
ये परां दृष्टिमायाता विधि तेषामपामिव ।
अरूपालोकमननं स्पन्दमस्पन्दनं सदा ॥१४॥
ये परां दृष्टिमायाता दृश्यश्रीपारदर्शिनः ।
न विद्यमानमप्यस्ति तेषां वेदनमाततम् ॥१५॥
ये परां दृष्टिमायाता विद्धि तेषामपामिव ।
स्पन्दमस्पन्दनं सर्वमवेदनवशादिह ॥१६॥
अरूपालोकमननवेष्टिता मुक्तदामवत् ।
बुधाः कर्मसु चेष्टन्ते वृक्षपत्रेष्विवानिलः ॥१७॥
ये परां दृष्टिमायाताः संसृतेः पारदर्शिनः ।
न ते कर्म प्रशंसन्ति कूपं नद्यां वसन्निव ॥१८॥
ये बद्धवासना मूढाः कर्म शंसन्ति तेऽनघ ।
श्रुतिस्मृत्युचितं तेन विनाबोधं प्रयान्ति ते ॥१९॥
इन्द्रियाणि पतन्त्यर्थं भ्रष्टं गृध्र इवामिषम् ।
तानि संयम्य मनसा युक्त आसीत तत्परः ॥२०॥
नासन्निवेशं हेमास्ति नासर्गं ब्रह्म विद्यते ।
किंतु सर्गादिशब्दार्थमुक्तं युक्तमतेः शिवम् ॥२१॥
एकान्धकारे संपन्ने व्यवहारो युगक्षये ।
निर्विभागो निराभासो यथा ब्रह्मघने तथा ॥२२॥
अभ्रोदरे भ्रमाङ्गानां स्पन्दास्पन्दमयी यथा ।
स्वसंविदात्मिका सत्ता भूतानामीश्वरी तथा ॥२३॥
जलस्यान्तर्जलांशानां द्वैताद्वैतमयो यथा ।
स्वसंविदात्मा सुस्पन्दस्तथा ब्रह्मणि भूतदृक् ॥२४॥
यथाम्बरेऽम्बरांशानां द्वैताद्वैतकृतात्मनि ।
अनन्या सृष्टिराभाति तथानवयवे शिवे ॥२५॥
जगतोऽन्तरहंरूपमहंरूपान्तरे जगत् ।
स्थितमन्योन्यवलितं कदलीदलपीठवत् ॥२६॥
रूपालोकमनस्कारै रन्ध्रैर्बहिरिव स्थितम् ।
सृष्टिं पश्यति जीवोऽन्तः सरसीमिव पर्वतः ॥२७॥
जीवो जगत्तयात्मानं पश्यत्ययमकारणम् ।
हेमेव कटकादित्वं तदपश्यन्न पश्यति ॥२८॥
जीवन्तोऽपि न जीवन्ति म्रियन्ते न मृता अपि ।
सन्तोपि च न सन्तीव पारावारविदः शुभाः ॥२९॥
प्रबुद्धः सर्वकर्माणि कुर्वन्नपि न पश्यति ।
गृहकर्माणि गेहस्थो गोष्ठभाण्डमना इव ॥३०॥
विराड् हृदि यथा चन्द्रः प्रतिदेहं यथा स्थितः ।
जीवो हिमकणाकारः स्थूले स्थूलो लघौ लघुः ॥३१॥
अहमात्मा त्रिकोणत्वमुपगच्छति कल्पनम् ।
असदेव सदाभासं मन्यते चेतनाद्वपुः ॥३२॥
कर्मकोशे त्रिकोणे च शुक्रसारेऽवतिष्ठते ।
देहे जीवोहमित्यात्मा स्वामोदः कुसुमे यथा ॥३३॥
अहमित्येव शुक्रस्था संविदापादमस्तकम् ।
विसरत्यखिले ज्योत्स्ना यथा ब्रह्माण्डमण्डपे ॥३४॥
अक्षरन्ध्रप्रणालेन विसृतं वेदनोदकम् ।
व्याप्नोति त्रिजगद्धूमो वियन्मेघतया यथा ॥३५॥
देहे यद्यप्यशेषेऽस्मिन्बहिरन्तश्च वेदनम् ।
विद्यते तत्तथाप्यत्र शुक्रेऽस्ति घनवासना ॥३६॥
जीवः संकल्पमात्रात्मा यत्संकल्पोऽवतिष्ठते ।
हृदि भूत्वा स एवाशु बहिः प्रसरति स्फुटम् ॥३७॥
यथास्थितां च निश्चित्तां वर्जयित्वा स्थिरोपमाम् ।
न कयाचिदपि स्थित्या शाम्यत्यहमिति भ्रमः ॥३८॥
चिन्तानुचिन्त्यमानापि भावनीयाम्बरोपमा ।
अहंभावोपशमने शमनेन क्रमेण ते ॥३९॥
तज्ज्ञा व्यवहरन्तीह भाव्यभावनवर्जितम् ।
अरूपालोकमननं मौनं दारुनरा इव ॥४०॥
अकिंचिद्भावनो यः स्यात्स मुक्त इति कथ्यते ।
जीवन्नाकाशविशदो बन्धशून्य इव स्फुटम् ॥४१॥
अहमित्येव शुक्रस्था संविदापादमस्तकम् ।
विसरत्यखिले देहे ब्रह्माण्डेऽर्कप्रभा यथा ॥४२॥
दृङनेत्रं स्वदनं जिह्वा श्रुतिः श्रोत्रं भवत्यसौ ।
इत्याद्या वासनाः पञ्च बद्ध्वा तासु निमज्जति ॥४३॥
चिद्भावोऽक्षतयोदेति मनो भूत्वैकदेशतः ।
सर्वगोऽपि रसो भूमौ यथाङ्कुरतया मधौ ॥४४॥
यो भावयति भावेषु नेह रूढेष्वभावताम् ।
तस्यायत्नवतो दुःखमनन्तं नोपशाम्यति ॥४५॥
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्र क्वचनशायीह स सम्राडिव राजते ॥४६॥
वासनाभिरुपेतोऽपि समग्राभिरवासनः ।
अन्तःशून्योऽप्यशून्यात्मा खमिव श्वसनान्वितः ॥४७॥
आसने शयने याने स्थितो यत्नेन बोध्यते ।
निद्रालुरिव निर्वाणमनोमनननिर्वृतः ॥४८॥
संविन्मात्रं हि पुरुषः सर्वगोऽपि स तिष्ठति ।
स्फुटसारे शरीरस्य यथा गन्धोऽब्जकेसरे ॥४९॥
संविन्मात्रं विदुर्जन्तुं तस्य प्रसरणं जगत् ।
आत्मनिष्ठत्वमजगत्परमेत्युपदेशभूः ॥५०॥
नीरसो भव भावेषु सर्वेषु विभवादिषु ।
पाषाणं हृदयं कृत्वा यथा भवसि भूतये ॥५१॥
साधो हृदयसौषिर्यमसौषिर्यमिवास्तु ते ।
अचित्त्ववपुषोऽचित्त्वादुपलस्येव राघव ॥५२॥
तज्ज्ञाज्ञयोरशेषेषु भावाभावेषु कर्मसु ।
ऋते निर्वासनत्वात्तु न विशेषोऽस्ति कश्चन ॥५३॥
सत्तैवैषा विदो यत्सा भवत्युन्मिषिता जगत् ।
परं तत्त्वं निमिषता दृगिवानामकं ततम् ॥५४॥
दृश्यं विनश्यत्यखिलं विनष्टं जायते पुनः ।
यन्न नष्टं न चोत्पन्नं तत्सद्भवति तद्भवान् ॥५५॥
भावज्ञप्तिर्हि निर्मूला भावितापि न विद्यते ।
सलिलं मृगतृष्णेव न ददाति भवाङ्कुरम् ॥५६॥
यथाभूतार्थसदर्शच्छिन्नाऽहमिति भावना ।
दृष्टामि न करोत्यन्तर्दग्धं बीजमिवाङ्कुरम् ॥५७॥
कर्म कुर्वन्नकुर्वन्वा वीतरागो निरामयः ।
निर्मना नित्यनिर्वाणः पुमानात्मनि तिष्ठति ॥५८॥
चित्तोपशान्तौ संशान्ताः शान्ताये भोगबन्धवः ।
न स्वभावपरिक्षीणाश्चित्तमेषां किलाकरः ॥५९॥
अघनः केवलालोको बुधो जीवः परायते ।
स एवान्योऽप्यनन्योऽन्तरपराह्न इवातपः ॥६०॥
एकदेशस्थितात्पुंसो दूरायातस्य चेतसः ।
यद्रूपं सकलं मध्ये तद्रूपं परमात्मनः ॥६१॥
चारुचिद्व्योमकर्पूरं यच्चमत्कुरुते स्वयम् ।
अनन्तमन्तरव्यक्तं जगदित्येव वेत्ति तत् ॥६२॥
गतभवभ्रमभासुरमक्षयं
शममुपेतमुपेक्षितदीपवत् ।
स्थितमपीह जनं जगदीश्वरा-
दनुगतं ननु भाति मुदा च खे ॥६३॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे सुखयोगोपदेशो नाम द्वाविंशः सर्गः ॥२२॥
N/A
References : N/A
Last Updated : September 27, 2021
TOP