निर्वाणप्रकरणं - सर्गः १३३
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
विपश्चिदुवाच ।
कस्मिंश्चिदन्यत्र जगत्यपूर्वे
दृष्टं मयेदं श्रृणु किं विचित्रम् ।
महाघवृत्तान्तदशासमान-
मविद्ययान्धेन बलात्कृतं यत् ॥१॥
अस्ति क्वचित्खे भवतामगम्ये
जगज्ज्वलद्दीप्तिविचित्रसर्गः ।
एतादृगप्यम्बरतस्तदन्यत्
स्वाप्नं पुरं जाग्रति चेतसीव ॥२॥
तस्मिन्मया विहरता हृदयस्थमर्थ-
मन्वेष्टुमक्षि निहितं ककुभां मुखेषु ।
पश्यामि यावदचलप्रतिमा धरायां
छायालिजालमलिना परिबंभ्रमीति ॥३॥
आश्चर्यमात्रमुचितं किमिदं निमेषा-
दित्यक्षि वै जगति यावदहं त्यजामि ।
खात्तावदद्रिमतुलं पुरुषाकृतिं द्रा-
गावर्तवृत्तिभिरपश्यमहं पतन्तम् ॥४॥
कः स्यादयं गिरिगुरुः पुरुषो विराड्वा
पर्यस्तपर्वतवदाशु पतच्छरीरः ।
आकाशपूरकवपुः परमाम्बरोऽपि
यो नैव भाति पिहिताखिलवासरश्रीः ॥५॥
एवंविधां हृदि मनाक्कलयामि याव-
त्तावत्पपात सहसा नभसो विवस्वान् ।
कल्पान्तवातपरिवृत्तपितामहाण्ड-
पृष्ठावपातघनघोषजुषा जवेन ॥६॥
तस्मिन्पतति भीमात्मन्यपारावारदेहिनि ।
सप्तद्वीपां वसुमतीं परिपूरयति क्षणात् ॥७॥
स्वात्मनो नाशमाशंक्य सद्वीपभुवनैः सह ।
अवश्यभाविपार्श्वस्थमहमग्निमथाविशम् ॥८॥
स जातवेदा भगवान्जन्मान्तरशतार्चितः ।
मा भैषीरिति देहेन मामुवाचेन्दुशीतलः ॥९॥
जय देव त्वमस्माकं प्रतिजन्म परायणम् ।
अकाल एव कल्पान्तो जातोऽतः पाहि मां प्रभो ॥१०॥
इत्युक्तेनाग्निना प्रोक्तं मा भैषीरिति तत्पुनः ।
उत्तिष्ठागच्छ गच्छावो मल्लोकमिति चानघ ॥११॥
इत्युक्त्वा शुकपृष्ठेऽसावारोप्य भगवांस्ततः ।
देहैकदेशे तत्पाति भूतं दग्ध्वा नभः प्लुतः ॥१२॥
अनन्तरं नभः प्राप्य दृष्टः कष्टाकृतिर्मया ।
स तादृग्भूतसंपातमहोत्पातो भयप्रदः ॥१३॥
तस्मिन्जवेन पतिते वसुधा चचाल
साम्भोधिशैलवनपत्तनजङ्गलौघा ।
चक्रे भृगुद्वयमयानजलस्रवन्ती
भीमाकृतीन्व्यधुरदेहविभेदगर्तान् ॥१४॥
उर्वी ररास ककुबुत्तरतो ररास
पूर्वा ररास विररास च दक्षिणा दिक् ।
द्यौराररास विररास सशैलभूतं
सर्वं जगत्प्रलयसंभ्रमभीतमुच्चैः ॥१५॥
उर्वी ररास धरणे सविरावरंहः-
संरम्भतर्जितसमस्तदिगन्तरासा ।
व्योमापि घुंघुममलङ्घ्यमलं चकार
नागारिवृन्दभयविद्रवणप्रचण्डम् ॥१६॥
निर्घातशब्द उदभूदभितो भयाय
भीमाय भूधरदरीदृढदारणोत्थः ।
उत्पातभीमजवजालयुगान्तवात-
संरब्धकल्पघनघोषवितीर्णतर्जः ॥१७॥
तस्मिञ्जवेन पतिते वसुधा ररास
सारावदिंमुखतया शतवेधमागात् ।
तत्रास्फुटन्कुलगिरीन्द्रमहातटानि
पातालदेशमविशन्हिमवच्छिरांसि ॥१८॥
आसीत्तत्पतनं तस्य मेरुशैलशिलाकृतेः ।
दलनं शैलश्रृङ्गाणां विदारणकरं भुवः ॥१९॥
क्षोभणं जलराशीनामद्रीणां भूतलार्पणम् ।
पीडनं सर्वभूतानां क्रीडनं प्रलयार्थिनाम् ॥२०॥
पातनं भूतले भानोः स्थगनं द्वीपपद्धतेः ।
चूर्णीकरणमद्रीणां दलनं मण्डलावनेः ॥२१॥
द्वितीयमिव भूपीठं ब्रह्माण्डार्धमिवापरम् ।
पतितं खमिवाकृत्या तदपश्यन्नभश्चराः ॥२२॥
अथ पश्याम्यहं यावदसौ मांसमयोऽचलः ।
न माति सप्तद्वीपायां भुवि तस्याङ्गमेककम् ॥२३॥
तमालोक्य मया देवः प्रसादे समवस्थितः ।
संपृष्टो भगवान्वह्निः प्रभो किमिदमित्यथ ॥२४॥
कथं मांसमयः सार्धं स चार्कः पतितो दिवः ।
स न माति हि भूपीठे सपर्वतवनाम्बुधौ ॥२५॥
अग्निरुवाच ।
प्रतिपालय पुत्र त्वं क्षणमेकं गतत्वरः ।
यावच्छाम्यतु दोषोऽयं कथयिष्यामि ते ततः ॥२६॥
अथ तस्मिन्वदत्येवं समाजग्मुर्नभश्चराः ।
तज्जगज्जालजातीया दिग्भ्यो गगनजाखिलाः ॥२७॥
सिद्धसाध्याप्सरोदैत्यगन्धर्वोरगकिन्नराः ।
ऋषयो मुनयो यक्षाः पितरो मातरोऽमराः ॥२८॥
अथ सर्वेश्वरीं देवीं शरण्यां ते नभश्चराः ।
भक्तिनम्रशिरःकायाः कालरात्रिं प्रतुष्टुवुः ॥२९॥
नभश्चरा ऊचुः ।
बद्ध्वा खट्वाङ्गश्रृङ्गे कपिलमुरुजटामण्डलं पद्मयोनेः
कृत्वा दैत्योत्तमाङ्गैः स्रजमुरसि शिरःशेखरं
तार्क्ष्यपक्षैः ।
या देवी भुक्तविश्वा पिबति जगदिदं साद्रिभू पीठभूतं
सा देवी निष्कलङ्का कलिततनुलता पातु नः
पालनीयान् ॥३०॥
इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० नि० उ० अ० वि० शवोपाख्याने महाशववर्णनं नाम त्रयस्त्रिंशाधिकशततमः सर्गः ॥१३३॥
N/A
References : N/A
Last Updated : October 07, 2021
TOP