निर्वाणप्रकरणं - सर्गः ६१
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
चिदाकाशाच्चिदाकाशे पयसीव पयोरयाः ।
चित्त्वाज्जीवाः स्फुरन्त्येते एत एव मनांसि नः ॥१॥
विशदाकाशरूपाणि तान्येव च मनांसि नः ।
जगन्ति तान्यनन्तानि संपन्नान्यभितः स्वयम् ॥२॥
श्रीराम उवाच ।
सर्वभूतगणे मोक्षं महाकल्पक्षये गते ।
पुनः कस्य कथं सर्गसंवित्तिरुपजायते ॥३॥
श्रीवसिष्ठ उवाच ।
महाप्रलयपर्यन्ते क्षितिजलपवनहुताशाकाशा-शेषविशेषविनाशे आब्रह्मस्थावरान्तेषु मुक्तौ परि-णतेषु भूयो यथेदं जगदनुभूयते तथा शृणु । अव्यपदेश्यं यत्परमार्थघनं ब्रह्म चिन्मात्रमित्याच-क्षते मुनयः तस्य हृदयमिदं जगत्तस्मादव्यतिरि-क्तमेव, स एव च देवस्तदात्मीयं हृदयं स्वभावं जगदित्यवगच्छति च विनोदेनैव न तु वास्तवेन रूपेण जगदिति किंचिदुपलभामहे, विचारयन्त-स्तस्मात्किमिव नश्यते किमिव जायते यथा परम कारणमविनाशि तथा तद्धृदयमविनाश्यं च । महा- कल्पादयश्च तदवयवा एव, अपरिज्ञानमात्रमत्र केवलं भेदायैव तदपि प्रेक्ष्यमाणेन लभ्यत एव ॥४॥
तस्मान्न कस्यचित्किंचित्कदाचिन्नश्यति क्वचित् ।
न चैव जायते ब्रह्म शान्तं दृश्यमजं स्थितम् ॥५॥
आकाशपरमाणुसहस्रांशमात्रेऽपि या शुद्धचि-न्मात्रसत्ता विद्यते ॥६॥
वपुर्जगदिदं तस्या ननु नाम महाचितेः ।
कथं नश्यत्यनष्टायां तस्यां सा च न नश्यति ॥७॥
संविदो हृदयं स्वप्ने यथा भाति जगत्तया ।
व्योमात्मैव तथैवादिसर्गात्प्रभृति भासते ॥८॥
चिद्व्योमावयवः सर्गः सर्गस्यैतादृशाः क्षयाः ।
उदयाश्चेति खं सर्वे किं नाशि किमनाशि च ॥९॥
एषा हि परमार्थसंविदच्छेद्या अदाह्याऽक्लेद्याऽ-शोष्या, सा ह्यतद्विदामदृश्या तस्या यद्धृदयं तत्तदेव भवति यथासौ न नश्यति तदन्तर्वर्ती जगदाद्यनुभवो न जायते न नश्यत्येवेति केवलं स्मरणविस्मरणव- शेन स्वभावरूपेणानुभवाननुभवौ कल्पयतीव ॥१०॥
यद्यद्यदात्मकं तत्त्वं तद्विनाशे विनाऽक्षयि ।
तस्माद्ब्रह्मात्मकं दृश्यं विद्धि ब्रह्मवदक्षयम् ॥११॥
महाप्रलयादयस्तदवयवा एव ॥१२॥
चिन्मात्रे परमे व्योम्नि कुत एव भवाभवौ ।
कुतो भावविकारादिः कथं व्योम्नि निराकृते ॥१३॥
महाकल्पादयो भावा नामैतानि जगन्ति च ।
ब्रह्मात्मकतयैवास्मिन्संविद्ब्रह्मणि संस्थितम् ॥१४॥
निराकृत्यच्छचिन्मात्रं दृश्यं संकल्प्य तद्वशम् ।
याति येनैव घटितो यक्षस्तद्धृदये किल ॥१५॥
यथावयविनो वृक्षस्य शाखाविटपफलपल्लवपु-ष्पाद्योऽवयवास्तथा परमार्थघनस्याकाशादप्यच्छ- रूपस्याव्यपदेश्यस्य प्रलयमहाप्रलयनाशोद्भेदभावा- भावसुखदुःखजननमरण साकारनिराकारत्वादयो- ऽवयवाः , यथैव चासाववयव्यनाशोऽव्यपदेश्यश्च तथैव त इति ॥१६॥
अवयवावयविनोर्दृश्ययोर्वाप्यदृश्ययोः ।
एकात्मनोरेव सदा भेदोऽस्ति न कदाचन ॥१७॥
यथा तरोः संविन्मूलं तथा परमार्थघनस्य क्वचि-त्किंचित्त्वं क्वचित्सर्गस्तम्बः क्वचिल्लोकान्तरविटपाः क्वचिद्व्यवस्थाः शाखाः क्वचित्पदार्थपल्लवाः क्वचित्प्र- काशकुसुमम् क्वचिदन्धकारकार्ष्ण्यं क्वचिन्नभः को-टरं क्वचित्प्रलयगुल्माः क्वचिन्महाप्रलयगुल्माः क्वचि- द्धरिहरादिगुलुच्छकाः क्वचिज्जाड्यत्वक् एवमना-कारं व्योमरूपमेव संविदात्मनि ब्रह्मणि ब्रह्मसदृश भावादव्यतिरिक्तमेवैतत्स्थितम् ॥१८॥
इतो भाव्य इतो भाव इतः सर्ग इतः क्षयः ।
स्वभाव एवानुभव इति ब्रह्माचलं स्थितम् ॥१९॥
एवंमयेऽपि परमे ब्रह्माकाशे न रञ्जनाः ।
काश्चिदेवाङ्ग सन्तीन्दुबिम्बे विमलता यथा ॥२०॥
निर्मले परमाकाशे क्व भावाभावरञ्जनाः ।
क्वादिमध्यान्तकलनाः क्व लोकान्तरविभ्रमाः॥२१॥
अपरिज्ञानमेवैकं तत्र दोषवदुत्थितम् ।
केवलं तत्परावृत्य प्रेक्षणात्परिशाम्यति ॥२२॥
अज्ञानं ज्ञप्तिबोधेन परामृष्टं प्रणश्यति ।
येनैवाभ्युदितस्तेन पवनेनेव दीपकः ॥२३॥
अज्ञानं संपरिज्ञातं नासीदेवेति बुध्यते ।
अबन्धमोक्षं ब्रह्मैव सर्वमित्यवगम्यते ॥२४॥
एवं बोधादयो राम मोक्ष उक्ताः स्वसंविदा ।
विचारयत्नो लभते नात्र कश्चन संशयः ॥२५॥
इदं जगज्जालमनाद्यजातं
ब्रह्मार्थमाभातमितीह दृष्ट्वा ।
विचारदृष्ट्याऽष्टगुणेश्वरत्वं
पश्यंस्तृणं स्वात्मनि जीव आस्ते ॥२६॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० पाषाणो० जगदाकाशैकबोधो नामैकषष्टितमः सर्गः ॥६१॥
N/A
References : N/A
Last Updated : September 28, 2021
TOP