निर्वाणप्रकरणं - सर्गः ७४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
तस्मिन्कल्पे तु संकल्पे तस्य यद्वपुरास्थितम् ।
श्रृणु तत्र व्यवस्थेयं विचित्राचारहारिणी ॥१॥
परमं यच्चिदाकाशं तद्विराडात्मनो वपुः ।
आद्यन्तमध्यरहितं लघु त्वस्य वपुर्जगत् ॥२॥
संकल्परहितो ब्रह्मा स्वाण्डं संकल्पनात्मकम् ।
वपुषः परितो भास्वत्पश्यत्याकाशमेव तत् ॥३॥
ब्रह्मात्मैष स्वसंकल्पं स्वमण्डमकरोद्द्विधा ।
तैजसं तैजसाकारः पुष्टः पुष्टं विहंगवत् ॥४॥
अण्डस्यैकं नभो दूरं गतं संबुद्धवानसौ ।
भुवोधःसंस्थितं भागं व्यतिरिक्तं च नात्मना ॥५॥
ब्रह्माण्डभाग ऊर्ध्वस्थो विराजः शिर उच्यते ।
अधोभागोऽस्य पादाख्यो नितम्बो मध्यमात्रखम् ॥६॥
दूरं विमुक्तयोः संधिः खण्डयोरिति विस्तृता ।
अनन्ता व्योमलेखा सा श्यामा शून्येति दृश्यते ॥७॥
द्यौस्तालु विपुलं तस्य तारारुधिरबिन्दवः ।
संविद्वातलवा देहे सुरासुरनरादयः ॥८॥
देहान्तः कृमयस्तस्य भूतप्रेतपिशाचकाः ।
लोकान्तराणि रन्ध्राणि सुषिराण्यस्य देहके ॥९॥
ब्रह्माण्डखण्डमस्याधो विस्तृतं पादयोस्तलम् ।
जानुमण्डलरन्ध्राणि पातालकुहराण्यधः ॥१०॥
जलैश्चलचलायन्ती सुषिरानेकरन्ध्रिका ।
भूरन्तर्मण्डली लोला समुद्रद्वीपवेष्टना ॥११॥
जलैर्गुडगुडायन्त्यो नद्यो नाड्यः सरिद्रसः ।
जम्बूद्वीपं हृदम्भोजमस्य हेमाद्रिकर्णिकम् ॥१२॥
कुक्षयः ककुभः शून्या यकृत्प्लीहादयोऽचलाः ।
मृद्व्यः स्निग्धाः पटाकारा मेदसो जालिका घनाः ॥१३॥
चन्द्रार्कौ लोचने तस्य ब्रह्मलोको मुखं स्मृतम् ।
तेजः सोमोऽस्य कथितः श्लेष्मा प्रालेयपर्वतः ॥१४॥
अग्निलोकस्तथौर्वाग्निः पित्तमस्यातिदुःसहम् ।
वातस्कन्धमहावाताः प्राणापाना हृदि स्थिताः ॥१५॥
कल्पद्रुमवनान्यस्य सर्पवृन्दानि च क्वचित् ।
लोमजालान्यनन्तानि वनान्युपवनानि च ॥१६॥
ऊर्ध्वं ब्रह्माण्डखण्डं तु समस्तमुरुमस्तकम् ।
ब्रह्माण्डप्रान्तरन्ध्रार्चिरस्य दीप्ता शिखोत्थिता ॥१७॥
स्वयमेष मनस्तेन मनो नास्योपयुज्यते ।
आत्मैव भोक्तृतामेति किल कस्य कथं कुतः ॥१८॥
स्वयमेवेन्द्रियाण्येष तेनान्यत्रास्तिता कृता ।
यतस्तत्कल्पनामात्रमेवेन्द्रियगणः किल ॥१९॥
अवयवावयविनोरिवेहेन्द्रियचित्तयोः ।
न मनागपि भेदोऽस्ति चैक्यमेकशरीरयोः ॥२०॥
तस्य तान्येव कार्याणि जगतां यानि कानिचित् ।
संकल्पा एव पुंवृत्त्या चलन्त्यारूपितद्विताः ॥२१॥
जागते तस्य विज्ञेये नान्येऽस्य मृतिजन्मनी ।
स एवेदं जगत्यस्मत्संकल्पात्मास्य नेतरत् ॥२२॥
तत्सत्तया जगत्सत्ता तन्मृत्यैव जगन्मृतम् ।
यादृशी स्पन्दयमरुतोः सत्तैका तादृशी तयोः ॥२३॥
जगद्विराजोः सत्तैका पवनस्पन्दयोरिव ।
जगद्यत्स विराडेव यो विराट् तज्जगत्स्मृतम् ॥२४॥
जगद्ब्रह्मा विराट् चेति शब्दाः पर्यायवाचकाः ।
संकल्पमात्रमेवैते शुद्धचिद्व्योमरूपिणः ॥२५॥
श्रीराम उवाच ।
संकल्पात्स विराडेव खमेवाकृतिमागतम् ।
अस्तु नाम स्वदेहान्तः कथं ब्रह्मैव तिष्ठति ॥२६॥
श्रीवसिष्ठ उवाच ।
यथा ध्यानेन देहान्तस्तिष्ठसि त्वं यथा स्थितम् ।
तथास्ते निजदेहेऽन्तः संकल्पात्मा पितामहः ॥२७॥
नृणां तथा च मुख्यानां जीवो ब्रह्मपुरोदरे ।
उत्पत्तिपुत्रिकादेहः प्रतिबिम्बोपमोऽस्ति सः ॥२८॥
यत्र त्वमपि देहान्तः कर्तुं शक्तोऽस्यलं स्थितम् ।
संकल्पात्मा विभुस्तत्र ब्रह्मा किं न करिष्यति ॥२९॥
बीजान्तः स्थावरं ह्यास्ते पदार्थे यत्र जंगमः ।
किं नास्ते तत्र देहेऽन्तर्निजचित्कल्पनात्मिका ॥३०॥
साकारो गगनात्मास्तु निराकारं स्वप्नस्तु वा ।
आस्ते बहिरथान्तश्च भिन्ने बाह्यान्तरे बहिः ॥३१॥
आत्मारामः काष्ठमौनी न जडोऽपि दृषज्जडः ।
अहंत्वमित्यादिमयो विराडात्मनि तिष्टति ॥३२॥
आवेष्टितोज्झितलतातृणदारुपुंव-
दुच्छब्दमम्बुरयवच्च विरोपिताङ्गः ।
नानाविधेऽपि विहरन्नपि कार्यजाले
तज्ज्ञः शिलाजठरशान्तमनस्क एव ॥३३॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्रकरणे उ० पाषा० विराडात्मवर्णनं नाम चतुःसप्ततितमः सर्गः ॥७४॥
N/A
References : N/A
Last Updated : September 29, 2021
TOP