निर्वाणप्रकरणं - सर्गः १८७
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
विचित्राणामसंख्यानां भावानां नियतिः कुतः ।
कथं स्वभावो भावानामेकरूपः स्थितोऽचलः ॥१॥
सत्स्वसंख्येषु देवेषु सूर्य एवोग्रभाः कथम् ।
दीर्घत्वमथ ह्रस्वत्वं दिवसानां तु किंकृतम् ॥२॥
श्रीवसिष्ठ उवाच ।
काकतालीयवद्भानं यत्परे नियतं स्वतः ।
यथास्थितं यथारूपं स्थिते तज्जगदुच्यते ॥३॥
सर्वशक्तेर्यथा यद्यद्भाति तत्तत्तथैव सत् ।
संविन्सारतया यायात्कथं भातमभातताम् ॥४॥
यथा स्थितं यथा भाति चित्त्वाद्ब्रह्म चिराय यत् ।
तस्य भानमभानाभं नियत्यभिधमेव तत् ॥५॥
इदमित्थमिदं चेत्थं स्वयं ब्रह्मेति भाति यत् ।
तन्नियत्यभिधं प्रोक्तं सर्गसंहाररूपधृक् ॥६॥
जाग्रत्स्वप्नसुषुप्ताख्यं यत्स्वतः कचनं चिति ।
तत्ततोऽनन्यदेकाच्छं द्रवत्वमिव वारिणि ॥७॥
यथा शून्यत्वमाकाशे कर्पूरे सौरभं यथा ।
यथौष्ण्यमातपे नान्यज्जाग्रदादि तथा चिति ॥८॥
सर्गप्रलयनाम्न्येकप्रवाहानन्यसत्तया ।
चिन्मात्रगगनात्मैकब्रह्मात्मन्येव संस्थितम् ॥९॥
सर्गोऽयमिति तद्बुद्धं क्षणं यत्कचनं चितः ।
कल्पोऽयमिति तद्बुद्धं क्षणं तत्कचनं चितः ॥१०॥
तत्कालस्तत्क्रिया तत्त्वं देशद्रव्योदयादि तत् ।
यत्स्वप्न इव चिन्मात्रकचनं स्वस्वभावतः ॥११॥
रूपालोकमनस्कारदेशकालक्रियादि तत्॥
चित्त्वं कचति चिद्व्योम्नि यन्नामानाकृति स्वतः ॥१२॥
यद्यथा कचितं कालं यत्किंचित्कल्पितं तथा ।
तेनैवेयं हि नियतिरित्यप्याकाशरूपकम् ॥१३॥
आकल्पाख्यं निमेषं यत्कचनं चैकरूपकम् ।
स्वाभाविकाः स्वभावं तं प्राहुः प्रसृतबुद्धयः ॥१४॥
एकस्य संविन्मात्रस्य पदार्थशतता तथा ।
यथेदं संविदंशस्य रूपं स्वं स्वमनुज्झतः ॥१५॥
संविन्मये संविदो याः कचन्तीव परे तथा ।
ताभिस्तेषां स्वदेहानां यासां सा कलना कृता ॥१६॥
चिदुर्वी सलिलं तेजः स्पन्दः शून्यत्वमेव च ।
प्रत्येकमाकरस्त्वेषां तानि स्वप्न इवाम्बरम् ॥१७॥
तत्र सप्रतिघस्यास्य कठिनस्याकरो महान् ।
भूपीठं जनताधारो राजव्राजेव राजते ॥१८॥
अपामब्धिः प्रधानानां तेजसामेष भास्करः ।
स्पन्दस्य पवनो व्योम शून्यताया जगद्गतम् ॥१९॥
पञ्चानामिति भूतानामाकरत्वेन संविदः ।
पञ्च तान्युचिता ब्राह्म्यः प्रश्नः किं भास्करं प्रति ॥२०॥
बुधा संविच्चिदित्युक्ता सर्वगा सर्वरूपिणी ।
सर्वत्र स्वमहिम्नैषा सर्वेणैवानुभूयते ॥२१॥
ब्रह्मात्मा ब्रह्मबालोऽयं स्वसंवित्स्फुरणामिमाम् ।
व्योमात्मक्षौमभूनाम्नीं स्फारयत्यम्बराकृतिः ॥२२॥
सा यदैतत्तथैतच्च चिरमत्त्यजसंविदा ।
तदा तदङ्गस्यार्कादेर्नाऽतो नोत्पादि चञ्चलम् ॥२३॥
संकल्पपूर्वमशकजालवद्धिष्ण्यचक्रकम् ।
आवर्तवर्तिना भाति चिद्व्योमेदं च दृश्यवत् ॥२४॥
तत्र प्रभास्वराः केचित्केचिदप्यल्पभास्वराः ।
केचिच्चाभास्वरा भाताः पदार्थाश्चित्ररूपिणः ॥२५॥
पदार्थजातं त्वेतावन्न जातं न च दृश्यते ।
ज्ञस्याजातमिदं भाति खमात्मा स्वप्नदृश्यवत् ॥२६॥
चिन्मात्रमात्मा सर्वेशः सर्व एवातिदृश्यवत् ।
नश्यतीव विदेहे स्वे न च भाति न नश्यति ॥२७॥
स्वप्नदर्शनवद्भाति यच्चिद्व्योम चिदम्बरे ।
चिद्व्योमत्वादृते रूपं तदस्य जगतः कुतः ॥२८॥
यद्यथा स्फुरितं तस्य यावत्सत्तं स्फुरद्वपुः ।
तत्स्वभावनियत्याख्यैः शब्दैरिह निगद्यते ॥२९॥
गगनाङ्गस्य सत्तान्तः शब्दतन्मात्रकल्पया ।
कुसूलबीजाङ्कुरवत्तिष्ठत्याशान्तरूपिणी ॥३०॥
संपद्यते तत इदमितीयं रचनेहया ।
कृता सा मुग्धबोधाय मूर्खैर्विरचिता मुधा ॥३१॥
नास्तमेतीह नोदेति तत्कदाचन किंचन ।
शिलाजठरवच्छान्तमिदं नित्यं सदप्यसत् ॥३२॥
यथावयविनो नान्तः सदैवावयवाणवः ।
नास्तं यान्ति न चोद्यन्ति जगन्त्यात्मपदे तथा ॥३३॥
ब्रह्म व्योम्नि जगद्व्योम व्योम व्योम्नीव विद्यते ।
तत्कथं किल संशुद्धमस्तमायात्युदेति वा ॥३४॥
तस्यानन्तप्रकाशात्मरूपस्याततचिन्मणेः ।
सत्तामात्रात्मकचनं यदजस्रं स्वभावतः ॥३५॥
तदात्मना स्वयं किंचिच्चेत्यतामिव गच्छति ।
अगृहीतात्मकं संविदूहामर्शनसूचकम् ॥३६॥
भाविनामार्थकलनैः किंचिदूहितरूपकम् ।
आकाशादणु शुद्धं च सर्वस्मिन्भाविबोधनम् ॥३७॥
ततः सा परमा सत्ता सती तच्चेतनोन्मुखी ।
चिन्नामयोग्या भवति किंचिल्लभ्यतया तया ॥३८॥
घनसंवेदनात्पश्चाद्भाविजीवादिनामिका ।
सा भवत्यात्मकलना यद्भवन्ती परं पदम् ॥३९॥
गर्भीकृत्य स्थिताऽनाख्या चिदाकाशापिधानताम् ।
संप्रति त्वतिशुद्धस्य पदस्यानन्यरूपिणी ॥४०॥
स्वतैकभावनामात्रसारसंसरणोन्मुखी ।
तदा विनाभावकृता अनुतिष्ठन्ति तामिमाः ॥४१॥
शून्यरूपा स्वसत्तैका शब्दादिगुणगर्भिणी ।
चिद्भावनाभिसंपन्ना भविष्यदभिधार्थता ॥४२॥
अहंतोदेति तदनु सह वै कालसत्तया ।
भविष्यदभिधार्थे ते बीजं मुख्यं जगत्स्थितेः ॥४३॥
चितिशक्तेः परायास्तु स्वसंवेदनमात्रकम् ।
जगज्जालमसद्रूपं चेतनात्सदिव स्थितम् ॥४४॥
एवंप्रायात्मिका सा चिद्बीजं संकल्पशाखिनः ।
अहंतां भावयत्यन्तः सैवेह भवति क्षणात् ॥४५॥
जीवाभिधाना सैषाद्य भावाभावप्लवभ्रमैः ।
भ्रमत्यात्मपदे वीचिरूपैर्वारीव वारिणि ॥४६॥
चिदेवंभावनवती व्योमतन्मात्रभावनाम् ।
स्वतो घनीभूय शनैः खतन्मात्रं प्रचेतति ॥४७॥
भाविनामार्थरूपं तद्बीजं शब्दौघशाखिनः ।
पदवाक्यप्रमाणाढ्यवेदार्थादिविकारि च ॥४८॥
तस्मादुदेष्यत्यखिला जगच्छ्रीः शब्दतत्त्वतः ।
शब्दौघनिर्मितार्थौघपरिणामविसारिणी ॥४९॥
चिदेवंव्यवसाया सा जीवशब्देन कथ्यते ।
भाविशब्दार्थजालेन बीजं भूतौघशाखिनः ॥५०॥
चतुर्दशविधं भूतजातमावलिताम्बरम् ।
जगज्जठरकर्णौघं तस्मात्संप्रसरिष्यति ॥५१॥
असंप्राप्ताभिधाचारा जीवत्वाच्चेतनेन चित् ।
काकतालीयवत्स्पन्दचिन्मात्रं चेतति स्वयम् ॥५२॥
पवनस्कन्धरूपस्य बीजं त्वक्स्पर्शशाखिनः ।
सर्वभूतक्रियास्पन्दस्तस्मात्संप्रसरिष्यति ॥५३॥
तत्र यच्चिद्विलासस्य प्रकाशानुभवो भवेत् ।
रूपतन्मात्रकं तद्वद्भविष्यदभिधार्थदम् ॥५४॥
प्रकाशचेतनं तेजो न तेजोऽन्यकृतं भवेत् ।
स्पर्शसंवेदनं स्पर्शो नेतरस्पर्शसंभवः ॥५५॥
शब्दसंवेदनं शब्दः स्वत एवानुभूयते ।
खं खेनेव स्वयं कोशे नान्यच्छब्दकृदस्ति हि ॥५६॥
किल तस्यामवस्थायां कोऽपरः शब्दकृद्भवेत् ।
यथा तथा तदाद्यापि द्वैतैक्यस्यात्यसंभवात् ॥५७॥
एवं हि रसतन्मात्रं गन्धतन्मात्रमेव च ।
असत्यमेव सदिव स्वप्नाभमिव चेत्यते ॥५८॥
तेजः सूर्यादिजृम्भाभिर्बीजमालोकशाखिनः ।
तस्माद्रूपविभेदेन संसारः प्रसरिप्यति ॥५९॥
भविष्यदभिधस्याथ खतः स्वत इवासतः ।
स्वदनं तस्य संघस्य रसतन्मात्रमुच्यते ॥६०॥
भविष्यद्रूपसंकल्पनामासौ सकलो गणः ।
संकल्पात्माथ तन्मात्रं गन्धाद्यमनुचेतति ॥६१॥
भाविभूगोलकत्वेन बीजमाकृतिशाखिनः ।
सर्वाधारात्मनस्तस्मात्संसारः प्रसरिष्यति ॥६२॥
अजात एव संजातस्तन्मात्राणां गणस्त्विति ।
अनाकारोऽपि साकारः संपन्नः कल्पनावशात् ॥६३॥
एष तन्मात्रकगणः काकतालीयवत्स्वयम् ।
रूपं येन प्रदेशेन वेत्त्यक्षीति तदुच्यते ॥६४॥
शब्दं येन प्रदेशेन वेत्ति श्रोत्रं तदुच्यते ।
स्पर्शं येन प्रदेशेन वेत्ति तत्तु त्वगिन्द्रियम् ॥६५॥
रसं येन प्रदेशेन वेत्ति तद्रसनेन्द्रियम् ।
गन्धं येन प्रदेशेन वेत्ति घ्राणेन्द्रियं तु तत् ॥६६॥
दिक्कालभेदाज्जीवोऽयं नियतामाकृतिं गतः ।
सर्वेणाङ्गेन नो सर्वं वेत्त्यसर्वात्मतावशात् ॥६७॥
इति कलनमनन्तमात्मनोन्त-
र्गतमनुमेयमनन्यदात्मभूतम् ।
न तदुदयमुपैति नास्तमेति
स्थितमुपलोदरवद्धनं सुमौनम् ॥६८॥
इत्यार्षे श्रीवासि० वाल्मी० दे० मो० नि० उ० जीवत्वसंसृतिप्रतिपादनं नाम सप्ताशीत्यधिकशततमः सर्गः ॥१८७॥
N/A
References : N/A
Last Updated : October 09, 2021
TOP