निर्वाणप्रकरणं - सर्गः १७६
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
जगन्ति सन्त्यसंख्यानि भविष्यन्ति गतानि च ।
तत्कथाभिः कथं ब्रह्मन्प्रबोधयसि मामिमम् ॥१॥
श्रीवसिष्ठ उवाच ।
जगत्स्वप्नेषु शब्दार्थसंबन्धोऽवगतस्त्वया ।
न नाम न च लोकेन व्यर्थं तत्कथनं ततः ॥२॥
या कथावगतात्मभ्यां शब्दार्थाभ्यां निगद्यते ।
बुध्यते सेतरा नान्तः सैवेह व्यवहारिणी ॥३॥
यदा विदितवेद्यः संस्त्रिकालामलदर्शनः ।
भविष्यसि तदा तानि प्रत्यक्षेणैव भोत्स्यसे ॥४॥
स्वप्ने चिन्मात्रमेवाद्यं स्वयं भाति जगत्तया ।
यथा तथैव सर्गादौ नात्रान्यदुपपद्यते ॥५॥
अणावणावसंख्यानि तेन सन्ति जगन्ति खे ।
तेषां तान्व्यवहारौघान्संख्यातुं क इव क्षमः ॥६॥
अत्रैव मे पुरा प्रोक्तं मत्पित्रा पद्मजन्मना ।
पद्मरेणुमताख्यानं श्रृणु तत्कथयामि ते ॥७॥
पुरा पृष्टो मया ब्रह्मा जगज्जालमिदं कियत् ।
क्व वा भातीति वद मे ब्रह्मोवाच ततः स माम् ॥८॥
श्रीब्रह्मोवाच ।
ब्रह्मैवेदं मुने सर्वं जगदित्यवभासते ।
सतामनन्तं सत्त्वेन जगत्त्वेनासतामपि ॥९॥
शुभं ममेदमाख्यानं श्रृणु श्रवणभूषणम् ।
ब्रह्माण्डपिण्ड इत्युक्तं ब्रह्माण्डाख्यानमेव च ॥१०॥
अस्ति खे खादनन्यात्मा चिद्व्योमपरमाणुकः ।
शून्यरूपमिवाकाशे शुद्धः स्पन्द इवानिले ॥११॥
सोऽपश्यदात्मना स्वप्न इव जीवत्वमात्मनि ।
शून्यरूपमिवाकाशं पवनः स्पन्दनं यथा ॥१२॥
आकाशरूपमजहदेव जीवस्ततः स्वयम् ।
अपश्यदहमित्येव रूपमाकाशरूपकम् ॥१३॥
अहंकारस्त्वहंबुद्धिरित्येवापश्यदात्मनि ।
एकनिश्चयनिर्माणमयी मायानुरूपिणी ॥१४॥
बुद्धिर्मनोहमित्येवं स्वप्ने पश्यदसन्मयम् ।
नमयन्त्यात्मनात्मानमविकल्पं विकल्पनैः ॥१५॥
अपश्यत्तन्मनः स्वप्ने देहे पञ्चेन्द्रियं ततः ।
अनाकारं घनाकारं स्वप्नाद्रित्वमिवाज्ञधीः ॥१६॥
ददर्श स मनोदेहो वपुस्त्रिभुवनात्मकम् ।
स्वात्मा स्वात्मैव निर्भित्ति भित्तिभासुरमाततम् ॥१७॥
अनेकभूतकलितं नानावयवरजङ्गमम् ।
कलनाकालकलितं कल्पितान्योन्यसंगमम् ॥१८॥
स्वप्ने प्रत्येकमेवात्र पश्यत्यादर्शबिम्बितम् ।
इव त्रैलोक्यनगरं नवरङ्गमनोहरम् ॥१९॥
अथ प्रत्येकमत्रापि नवरङ्गमनोहरम् ।
त्रिजगद्वेत्ति हृदये स्वादर्श इव बिम्बितम् ॥२०॥
परमाणोः परमाणोरिति सन्ति तनूदरे ।
अतनूनि जगन्त्युच्चैर्धनानीव च तान्यपि ॥२१॥
अविद्येयमनन्तेयमविद्यात्वेन चेतिता ।
ब्रह्मत्वेन परिज्ञाता भवति ब्रह्म निर्मलम् ॥२२॥
एवं द्रष्टापि यः स्वप्नजालं दृष्टे न किंचन ।
कोऽत्र द्रष्टा कुतो दृश्यं क्व द्वैतं क्व च कारणम् ॥२३॥
सर्वं निःशान्तमाभातं खात्म निर्भित्ति केवलम् ।
ब्रह्मात्मनि स्थिते स्वच्छमाद्यन्तपरिवर्जितम् ॥२४॥
ब्रह्माण्डलक्षनिचयाः परमात्मनीति
नित्यं स्थिता निपुणमन्यवदप्यनन्ये ।
वारिण्यवारितविसारितरङ्गवेगा-
ल्लोलं स्थिताम्बुपरमाणुचया यथैते ॥२५॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० ब्रह्मगीतासु ब्रह्याण्डोपाख्यानं नाम षट्सप्तत्यधिकशततमः सर्गः ॥१७६॥
N/A
References : N/A
Last Updated : October 09, 2021
TOP