संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १३१

निर्वाणप्रकरणं - सर्गः १३१

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


दशरथ उवाच ।
क्लिष्टोऽयं यदविद्यार्थं विपश्चिदविपश्चितः ।
तदहं चेष्टितं मन्ये कष्टोऽवस्तुनि किंग्रहः ॥१॥
श्रीवाल्मीकिरुवाच ।
अस्मिन्नवसरे तत्र राज्ञः पार्श्वे व्यवस्थितः ।
प्रसङ्गपतितं वाक्यं विश्वामित्रोऽभ्युवाच ह ॥२॥
अप्राप्तोत्तमबोधानां बोधवेद्या विलक्षणाः ।
भवन्त्येवंविधा राजन्बहूनां बहवो भृशम् ॥३॥
अद्य सप्तदशं वर्षलक्षमक्षीणनिश्चयाः ।
एवमेव भ्रमन्तोऽस्यां वटधाना भुवि स्थिताः ॥४॥
भूमेरन्तावलोकार्थमद्याप्युद्वेगवर्जितम् ।
प्रवृत्ता न निवर्तन्ते वहनात्सरितो यथा ॥५॥
अयं खलु महालोको वर्तुलो व्योम्नि संस्थितः ।
बालसंकल्पतरुवद्ब्राह्मसंकल्पनिश्चयः ॥६॥
कन्दुके व्योम्नि संरुद्धे दशदिक्कं पिपीलिकाः ।
इत्थं भ्रमन्ति भूतानि तदाधाराणि नित्यदा ॥७॥
भूगोलकाधोभागानि तदङ्गान्यूर्ध्ववन्ति च ।
तदा भूतानि तिष्ठन्ति तान्याविश्य भ्रमन्ति च ॥८॥
तमेवाविश्य दूरेण सरितश्चर्क्षमण्डलम् ।
असंस्पर्शा भ्रमन्त्युऽच्चैः सचन्द्रार्कादि संततम् ॥९॥
इहैव सर्वदिक्कं द्योस्तामावेष्ट्य व्यवस्थिता ।
सर्वदिक्कं खमत्यूर्ध्वं तस्याधस्तान्महीतलम् ॥१०॥
भावाः पतन्तो धावन्ति तस्याधः सर्वतोङ्गकम् ।
यत्रोत्पतन्तो गच्छन्ति तदूर्ध्वमिति शब्दितम् ॥११॥
तत्रैकदेशे विद्यन्ते वटधानाभिधानकाः ।
जातास्तेषां त्रयो राजन् राजपुत्राः पुराभवन् ॥१२॥
ते ह्येवमेकसंकल्पा भूम्यादेर्दृश्यवर्त्मनः ।
कोऽन्तः स्यादिति निर्याता विहर्तुं दृढनिश्चयाः॥१३॥
पुनर्वारि पुनर्भूमिस्तेषामाक्रमतां चिरम् ।
नवलब्धशरीराणां दीर्घकालो व्यवर्तत ॥१४॥
स्वच्छकन्दुकवम्रीकन्यायेनानिशमत्र ते ।
भ्रमन्तो नाप्नुवन्त्यन्तमन्यत्वं संविदन्ति च ॥१५॥
व्योमस्थकन्दुकभ्रान्तपिपीलिकवदाकुलम् ।
अद्यापि संस्थिता राजन्न च खेदं व्रजन्ति ते ॥१६॥
देशं भूगोलकस्यास्य यं यमासादयन्ति च ।
इहेव तत्र तत्रोच्चैरधश्चोर्ध्वं तथा दिशः ॥१७॥
ते वदन्ति महाराज यद्यस्माभिरितोद्यतैः ।
न तावदन्तः संप्राप्तः संचराम इतः परम् ॥१८॥
इत्थं न किंचिदेवेदं ब्रह्मसंकल्पडम्बरम् ।
किंचित्संकल्पमज्ञानमनन्तं स्वप्नदृश्यवत् ॥१९॥
कल्पनं तत्परं ब्रह्म परं ब्रह्मैव कल्पनम् ।
चिद्रूपं नानयोर्भेदः शून्यत्वाकाशयोरिव ॥२०॥
चिन्मात्रं यद्यदाभातं जलवाहविवर्तवत् ।
तत्तादृक्कथमन्याभमन्यस्यासंभवाद्भवेत् ॥२१॥
अभावः खे च खमिदं सर्गादौ परमाम्बरम् ।
स्वयं जगदिवाभाति नान्यत्प्रलयसर्गकौ ॥२२॥
यथा कषति चिद्रूपं तथैव रतिमेत्य तत् ।
दृष्टादृष्टैः स्वसंसारैश्चिरमास्ते यथा चिरम् ॥२३॥
दृश्यात्मकं रूपमेकमेकमस्यैवमक्षयम् ।
स्वयमेवमजं भाति यन्न भातीव किंचन ॥२४॥
चिदणोरुदरे सन्ति समस्तानुभवाणवः ।
शिलाः शैलोदर इव स्वच्छाः खात्मनि खात्मिकाः॥
स्वभावनिष्ठास्तिष्ठन्ति ते यदव्याकृतात्मनि ।
मा तिष्ठन्ति तु वै ते यदव्यावृत्ताः परे पदे ॥२६॥
तदेव जगदित्युक्तं ब्रह्म भारूपमाततम् ।
पूर्वापरपरामर्शान्निपुणं निपुणाशयाः ॥२७॥
अत्याश्चर्यमनष्टोऽयं परमात्सदनात्स्वयम् ।
नानात्वबुद्ध्या नानैव जीवोऽहमिति ताम्यति ॥२८॥
उच्यतां भास भो राजन्विपश्चिदपराख्य हे ।
कियद्दृष्टं कियद्भ्रान्तं दृश्यं स्मरसि किंच वा ॥२९॥
भास उवाच ।
बहु दृष्टं मया दृश्यं बहु भ्रान्तमखेदिना ।
बह्वेव बहुधा नूनमनुभूतं स्मराम्यहम् ॥३०॥
मयानुभूतानि महान्ति राजं-
श्चिरं सुदूरे विविधैः शरीरैः ।
सुखानि दुःखानि जगन्त्यनन्ता-
न्यनन्तमासाद्य महाम्बरं तत् ॥३१॥
विचित्रदेहैर्वरशापयोगा-
द्दृश्यान्यनन्तानि मया महात्मन् ।
जन्मान्तरावर्तविवर्तनानि
दृढैकचित्तेन वरात्कृशानोः ॥३२॥
दृश्यात्मकोर्वीवपुषस्त्वविद्या-
दृशो जवेनान्तपरीक्षणाय ।
देहेन देहेन जगत्प्रति प्राक्
स्मृतेः सदाहं घनयत्नमासम् ॥३३॥
समाः सहस्रं विटपोऽहमास-
मन्तर्मनाश्चेतनभुक्तदुःखः ।
चित्तं विना पुष्पफलप्रताने
वा कन्दवत्तत्तरसाङ्गरागः ॥३४॥
समाः शतं मेरुमृगोऽहमासं
सुवर्णवर्णस्तरुपर्णकर्णः ।
दूर्वाङ्कुरास्वादनगीतिनिष्ठ
अहन्कनिष्ठो वनवासिमध्ये ॥३५॥
पादाष्टकैरावलितात्मपृष्ठो
मृतेऽम्भसः क्लेशकृतात्ममृत्युः ।
समाः शतार्धं शरभोऽहमासं
क्रौञ्चाचले काञ्चनकन्दरासु ॥३६॥
कालागुरुद्रुमलतावलितानिलेन
विद्याधरीसुरतधर्मकलामृतानि ।
पीतानि मे मलयसानुनि मन्दरे च
मन्दारचन्दनकदम्बलतागृहेषु ॥३७॥
हेमारविन्दमकरन्दपिशङ्गितानि
पीतानि पञ्चदशवर्षशतानि मेरौ ।
वैरिञ्चहंसतनयेन मया पयांसि
तीरान्तरेषु रमतोपरि निर्झरिण्याः ॥३८॥
क्षीरोदवेलावनगन्धवाह-
विलोलनीलालकवल्लरीणाम् ।
समाः शतं शोकजरापहारि
गीतं श्रुतं माधवसुन्दरीणाम् ॥३९॥
कालञ्जरे मञ्जरिते करञ्ज-
गुञ्जावने जम्बुकतां गतोऽहम् ।
गजेन पिष्टे हरिणा हतोऽसौ
हस्ती मयात्रार्थमृतेन दृष्टः ॥४०॥
संतानकप्रकरहासिनि सह्यसानौ
कस्मिंश्चिदन्यजगतीन्दुमुखी सुरस्त्री ।
एकाकिनी कृतयुगार्धमथाहमासं
कल्पद्रुमस्तबकसद्मनि सिद्धशापात् ॥४१॥
अद्रीन्द्रकच्छकरवीरलतालयेषु
नीतं समाशतमशङ्कधिया मयान्यत् ।
अन्यत्र दूरजगतीन्द्रगिरौ विरावि-
वाल्मीकपक्षिवपुषाऽनिशमेककेन ॥४२॥
अन्यत्र सानुनि मया परिलम्बमानाः
सच्छायचन्दनवनावलिते लतानाम् ।
दृष्टाः स्त्रियः फलमिवावलिता विलासै-
भुक्ताश्च ता अपहृता अपि सिद्धपान्थैः ॥४३॥
अन्यत्र पर्वतनितम्बकदम्बकच्छे
नीतानि तापसतयोत्तमया दिनानि ।
प्राप्यैकवस्त्वभिनिवेशविषूचिकात्त-
चित्तेन तान्तमतिनाऽमतिना मयान्तः ॥४४॥
ब्रह्माण्डसंपूरितमन्यदस्ति
जलेचराशेषदिगन्तभूतम् ।
संदिग्धतेजोम्बरवातसत्तं
जलस्थभूताकृतिमात्रभूमि ॥४५॥
एकत्र दृष्टा वनिता मयैका
तस्याः शरीरे त्रिजगन्ति भान्ति ।
प्रतिबिम्बितानीव सुदर्पणेऽन्त-
राकाशशैलादिदिगादिमन्ति ॥४६॥
पृष्टा मयासौ वरगात्रि कासि
शरीरमेतच्च किमीदृशं ते ।
तयोक्तमङ्गेह चिदस्मि शुद्धा
ममाङ्गमेतानि महाजगन्ति ॥४७॥
यथाहमेवं स्मयदेहिकेयं
सर्वं तथैवाङ्ग न चित्रमेतत् ।
अन्यैः स्वभावो विदितो न शुद्धो
यदा न पश्यन्ति तदेत्थमङ्ग ॥४८॥
अवेदशास्त्रेण जगत्यशेषै-
र्भूतैः स्वदेहालयभित्तिभागात् ।
एतद्विधेयं न विधेयमेत-
द्ध्वनिः स्वतः श्रूयत एव नित्यम् ॥४९॥
ईदृक्स्वभावैव पदार्थसत्ता
सा तेऽत्र यद्भित्त्यचलादयोऽपि ।
स्वप्नादिमायास्विव मे वदन्ति
वाचं न युष्मास्वसमञ्जसं तत् ॥५०॥
अस्त्रीकसंसारगतेन दृष्टं
मया क्वचिद्यावदनन्यकामम् ।
भूतानि निर्यान्ति बहूनि भूता-
द्विशन्ति भूतानि बहूनि भूतम् ॥५१॥
एकानि दृष्टानि मयाञ्जसानि
खेऽभ्राण्यदभ्राङ्ग झणज्झणानि ।
वृष्ट्या समन्तान्निपतन्ति खण्डै-
र्भवन्ति तीक्ष्णानि जनायुधानि ॥५२॥
अन्यत्र दृष्टं गगनेन याव-
दिहान्धया ग्रामगृहाणि यान्ति ।
विशन्त्यमुत्रान्त इहाभवद्वो
ग्रामः स एवान्यत एव लब्धः ॥५३॥
नरामराऽहिप्रविभागमुक्ता-
न्यन्यत्र भूतानि समानि सन्ति ।
खादेव सर्वाणि समुद्भवन्ति
तत्रैव काले न लयं प्रयान्ति ॥५४॥
अचन्द्रतारार्कमनन्धकारं
स्वयंप्रकाशाखिलभूतजातम् ।
स्मरामि किंचिज्जगदेककान्तं
ज्वालोदराभं दिनरात्रिमुक्तम् ॥५५॥
अपूर्वदैत्याहिनरामरादि-
भूतान्यपूर्वद्रुमपत्तनानि ।
अपूर्वलोकान्तरकार्यवन्ति
स्मराम्यनन्तानि महाजगन्ति ॥५६॥
दिगस्ति सा नो विहृतं न यस्यां
न सोऽस्ति देशः खलु यो न दृष्टः ।
यन्नानुभूतं न तदस्ति कार्य-
मन्याश्रयं नापरमस्ति मर्शात् ॥५७॥
क्षीरोदकभ्रमितमन्दररत्नश्रृङ्ग-
धाराग्रनिर्दलनजातझणज्झणानाम् ।
एकत्र संयुतमुपेन्द्रभुजाङ्गदानां
शब्दं स्मरामि घनगर्जितशङ्कितेन ॥५८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० अ० वि० भाससंसारवर्णनं नामैकत्रिंशाधिकशततमः सर्गः ॥१३१॥

N/A

References : N/A
Last Updated : October 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP