निर्वाणप्रकरणं - सर्गः १७४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
सर्गादौ स्वप्नसंवित्त्या चिदेवाभाति केवला ।
जगदित्यवभासेव ब्रह्मैवातो जगत्त्रयम् ॥१॥
सर्गास्तरङ्गा ब्रह्माब्धेस्तेषु संवेदनं द्रवः ।
सर्गान्तरं सुखाद्यात्म द्वैतैक्यादीतरत्कुतः ॥२॥
यथा स्वप्नसुषुप्तात्म निद्रारूपकमेव खम् ।
दृश्यादृश्यांशमेकात्मरूपं चिन्नभसस्तथा ॥३॥
जाग्रति स्वप्ननगरं यादृक्तादृगिदं जगत् ।
परिज्ञातं भवेदत्र कथमास्था विवेकिनः ॥४॥
सर्गादौ सर्गसंवित्तेर्यथाभूतार्थवेदनात् ।
जाग्रति स्वाप्ननगरं यादृशं तादृशं जगत् ॥५॥
जाग्रति स्वप्ननगरवासना विविधा यथा ।
सत्या अपि न सत्यास्ता जाग्रत्यो वासनास्तथा ॥६॥
अन्यथोपप्रपद्येह कल्प्यते यदि कारणम् ।
तत्किं नेदीयसी नात्र भ्रान्तता कल्प्यते तथा ॥७॥
स्वानुभूयत एवेयं भ्रान्तिः स्वप्नजगत्स्विव ।
कारणं त्वनुमासाध्यं क्वानुमाऽनुभवाधिका ॥८॥
दृष्टमप्यस्ति यन्नेशे न चात्मनि विचारितम् ।
अन्यथानुपपत्त्यान्तर्भ्रान्त्यात्म स्वप्नशैलवत् ॥९॥
निर्विकल्पं परं जाड्यं सविकल्पं तु संसृतिः ।
ध्यानं तेन समाधानं न संभवंति किंचन ॥१०॥
सचेत्यं संसृतिर्ध्यानमचेत्यं तूपलस्थिति ।
मोक्षो नोपलवद्भानं न विकल्पात्मकं ततः ॥११॥
न च नामोपलाभेन निर्विकल्पसमाधिना ।
अन्यदासाद्यते किंचिल्लभ्यते किं स्वनिद्रया ॥१२॥
तस्मात्सम्यक्परिज्ञानाद्भ्रान्तिमात्रं विवेकिनः ।
सर्गात्यन्तासंभवतो यो जीवन्मुक्ततोदयः ॥१३॥
निर्विकल्पं समाधानं तदनन्तमिहोच्यते ।
यथास्थितमविक्षुब्धमासनं सर्वभासनम् ॥१४॥
तदनन्तसुषुप्ताख्यं तत्तुरीयमिति स्मृतम् ।
तन्निर्वाणमिति प्रोक्तं तन्मोक्ष इति शब्दितम् ॥१५॥
सम्यग्बोधैकघनता यासौ ध्यानमिति स्मृतम् ।
दृश्यात्यन्तासंभवात्म बोधमाहुः परं पदम् ॥१६॥
तच्च नोपलवज्जाड्यं न सुषुप्तोपमं भवेत् ।
न निर्विकल्पं न च वा सविकल्पं न वाऽप्यसत् ॥१७॥
दृश्यात्यन्तासंभवात्म तदेवाद्यं हि वेदनम् ।
तत्सर्वं तन्न किंचिच्च तद्वदेवाङ्ग वेत्ति तत् ॥१८॥
सम्यक्प्रबोधान्निर्वाणं परं तत्समुदाहृतम् ।
यथास्थितमिदं विश्वं तत्रालं प्रलयं गतम् ॥१९॥
न तत्र नानाऽनाना न न च किंचिन्न किंचन ।
समस्तसदसद्भावसीमान्तः स उदाहृतः ॥२०॥
अत्यन्तासंभवं दृश्यं यद्वै निर्वाणमासितम् ।
शुद्धबोधोदयं शान्तं तद्विद्धि परमं पदम् ॥२१॥
स च संप्राप्यते शुद्धो बोधो ध्यानमनुत्तमम् ।
शास्त्रात्पदपदार्थज्ञबोधिनोत्पन्नबुद्धिना ॥२२॥
मोक्षोपायाभिधं शास्त्रमिदं वाचयतानिशम् ।
बुद्ध्युपायेन शुद्धेन पुंसा नान्येन केनचित् ॥२३॥
न तीर्थेन न दानेन न स्नानेन न विद्यया ।
न ध्यानेन न योगेन न तपोभिर्न चाध्वरैः ॥२४॥
भ्रान्तिमात्रं किलेदं सदसत्सदिव लक्ष्यते ।
व्योमैव जगदाकारं स्वप्नोऽनिद्रे चिदम्बरे ॥२५॥
न शाम्यति तपस्तीर्थैर्भ्रान्तिर्नाम कदाचन ।
तपस्तीर्थादिना स्वर्गाः प्राप्यन्ते न तु मुक्तता ॥२६॥
भ्रांतिः शाम्यति शास्त्रार्थात्सम्यग्बुद्ध्यावलोकितात् ।
आत्मज्ञानमयान्मोक्षोपायादेवेह नान्यतः ॥२७॥
आलोककारिणात्यर्थं शास्त्रार्थेनैव शाम्यति ।
अमलेनाखिला भ्रान्तिः प्रकाशेनैव तामसी ॥२८॥
सर्गसंहारसंस्थानां भासो भान्ति चिदम्बरे ।
स्पन्दनानीव मरुति द्रवत्वानीव वारिणि ॥२९॥
द्रव्यस्य हृद्येव चमत्कृतिर्निजा
नभस्वतः स्पन्द इवानिशं यथा ।
यथा स्थिता सृष्टिरियं तथास्तिता
लयं नभस्यन्तरनन्यरूपिणी ॥३०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतासु निर्वाणोपदेशो नाम चतुःसप्तत्यधिकशततमः सर्गः ॥१७४॥
N/A
References : N/A
Last Updated : October 09, 2021
TOP